अ॒भि सू॒यव᳚सं नय॒ न न᳚वज्वा॒रो अध्व᳚ने ।
पूष᳚न्नि॒ह क्रतुं᳚ विदः ॥
पूष᳚न्नि॒ह क्रतुं᳚ विदः ॥
पदपाठः (Word-by-word)
अ॒भि । सु॒॑यव᳚सम् । न॒य॒ । न । न॒व॒॑ज्वा॒रः । अध्व᳚ने ।
पूष᳚न् । इ॒ह । क्रतु᳚म् । वि॒दः॒ ॥
पूष᳚न् । इ॒ह । क्रतु᳚म् । वि॒दः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे पूषन् सुयवसं शोभनतृणोपलक्षितं सर्वौषधियुक्तं देशमभिनय । अस्मानभितः प्रापय । अध्वने मार्गाय नवज्वारो नूतनः संतापो न भवत्वितिशेषः । मार्गे गच्छता मस्माकामिदानींतनः क्लेशः कोऽपि मा भूदित्यर्थः । गतार्थमन्यत् । सूयवसम् । शोभनं यवसं यस्मिन्देशे स सूयवसो देशः । निपातस्य चेति पूर्वपदस्य दीर्घत्वम् । परादिश्छंदसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । क्रत्वादिर्वा द्रष्टव्यः । नवज्वारः । ज्वर रोगे । भावे घञ् । नवश्चासौ ज्वारो नवज्वारः । थाथादिनोत्तरपदांतोदात्तत्वं ॥ ८ ॥