प्रथमं मण्डलम् - सूक्तम् 53

11 ऋचः

ऋषिः: सव्य आंगिरसः देवता: इंद्रः छन्दः: जगती

सूक्तम् 1.53 - सम्पूर्णम्

1 / 11
ऋक्: 1.53.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
1.53.1
न्यू॒३॒᳚ षु वाचं॒ प्र म॒हे भ᳚रामहे॒ गिर॒ इन्द्रा᳚य॒ सद᳚ने वि॒वस्व᳚तः ।
नू चि॒द्धि रत्नं᳚ सस॒तामि॒वावि᳚द॒न्न दु᳚ष्टु॒तिर्द्र᳚विणो॒देषु᳚ शस्यते ॥
▶ पदपाठः (Word-by-word)
नि । ऊं॒ इति᳚ । सु । वाच᳚म् । प्र । म॒हे । भ॒रा॒म॒हे॒ । गिरः᳚ । इन्द्रा᳚य । सद᳚ने । वि॒वस्व᳚तः ।
नु । चि॒त् । हि । रत्न᳚म् । स॒स॒ताम्॑इ᳚व । अवि᳚दत् । न । दुः॒॑स्तु॒तिः । द्र॒वि॒णः॒॑देषु᳚ । श॒स्य॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

न्यू ष्वित्येकादशर्चं तृतीयं सूक्तम् । दशम्येकादश्यौ त्रिष्टुभौ । शिष्वा नव जगत्यः । सव्य ऋषिः । इंद्रो देवता । तथा चानुक्रांतं - न्यू ष्वेकादशांत्ये तिष्टुभाविति । अतिरात्रे प्रथमे पर्याये ब्राह्मणाच्छंसिनः शस्त्र एतत्सूक्तम् । तथा चासूत्रयदाचार्यः । न्यू षु वाचमप्सु धूतस्य हरिवः पिबेहेति याज्या । आश्व ६-४ इति ॥

महे महत इंद्राय सु वाचं शोभनां स्तुतिं नि प्र भरामहे । नितरा प्रयुंज्महे । उ इति पादपूरणः । यतो विवस्वतः परिचरतो यजमानस्य सदने यज्ञगृह इंद्राय गिरः स्तुतयः क्रियंते । हि यस्मात्स इंद्रो नू चित् क्षिप्रमेव रत्नं रमणीयमसुराणां धनमविदत् विंदति । तत्र दृष्टांतः । ससतामिव । यथा स्वपतां पुरुषाणां धनं चोरः क्षिप्रं लभते तद्वत् । अतोऽस्मभ्यं धनं दातुं शक्त इति भावः । द्रविणोदेषु धनस्य दातृषु पुरुषेषु दुष्टुतिरसमीचीना स्तुतिर्न शस्यते नाभिधीयते । अतः सुवाचं प्र भरामह इति पूर्वेण संबंधः ॥ न्यू षु इत्यस्योदात्तस्वरितयोर्यण इति स्वरितत्वम् । तत्रोदात्तपरत्वात्संहितायां कंप्यते । इकः सुञि (पा ६-३-१३४) इति दीर्घत्वम् । सुञ इति षत्वम् । महे । मह पूजायामित्यस्मात् क्विप्चेति क्विप् । सावेकाच इति विभक्तेरुदात्तत्वम् । यद्वा । महच्छब्दस्याच्छब्दलोपश्छांदसः । नू चित् । ऋषि तुनुघेत्यादिना । दीर्घः । ससतामिव । षस स्वप्ने । अस्माच्छत्रंतादंतोदात्तात्परस्या विभक्तेः शशुरनुमः इत्युदात्तत्वम् । इवेन विभक्त्यलोपः । पूर्वपदप्रकृतिस्वरत्वं च । पा २-१-४-२ । इति समासः । अविदत् । विद्लृ लाभे । छंदसि लुङ् लङ् लिट इति वर्तमाने लुङि पुषुदिद्युतादीति च्लेरङादेशः । अडागम उदात्तः । हि चेचि निघातप्रतिषेधः । द्रविणोदेषु । द्रविणानि धनानि ददातीति द्रविणोदाः । द्रु गतावित्यस्मात् द्रुदक्षिभ्यामिनन् (उ २-५०) इतीनन्प्रत्ययांतो द्रविणशब्दः । तस्मिन् कर्मण्युपपद आतोऽनुपसर्गे क इति कः । पूर्वपदस्य सुगागमश्छांदसः । कृदुत्तरपदप्रकृतिस्वरत्वम् । शस्यते । शस्सु स्तुतौ । यक्यनिदितामिति नलोपः ॥ १ ॥

1.53.2
दु॒रो अश्व᳚स्य दु॒र इ᳚न्द्र॒ गोर᳚सि दु॒रो यव᳚स्य॒ वसु᳚न इ॒नस्पति᳚ः ।
शि॒क्षा॒न॒रः प्र॒दिवो॒ अका᳚मकर्शन॒ः सखा॒ सखि᳚भ्य॒स्तमि॒दं गृ᳚णीमसि ॥
▶ पदपाठः (Word-by-word)
दु॒रः । अश्व᳚स्य । दु॒रः । इ॒न्द्र॒ । गोः । अ॒सि॒ । दु॒रः । यव᳚स्य । वसु᳚नः । इ॒नः । पतिः᳚ ।
शि॒क्षा॒॑न॒रः । प्र॒॑दिवः᳚ । अका᳚म॑कर्शनः । सखा᳚ । सखि᳚॑भ्यः । तम् । इ॒दम् । गृ॒णी॒म॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र त्वमश्वस्य दुरो दातासि । तथा गोः पश्वादेर्दुरो दातासि । तथा यवस्य यवादेर्धान्यजातस्य दुरो दातासि । वसुनो निवासहेतोर्ध स्येनः स्वामी पतिः सर्वेषां पालयिता शिक्षानरः । शिक्षतिर्दानकर्मा । शिक्षाया दानस्य नेतासि । प्रदिवः पुराणः । प्रगता दिवो दिवसा यस्मिन्स तथोक्तः अकामकर्शनः । कामान्कर्शयति नाशयतीति कामकर्शनः । न कामकर्शनोऽकामकर्शनः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । हविर्दत्तवताम् । यजमानानां कामानभिमतफलप्रदानेन पूरयतीत्यर्थः । सखिभ्यः समानख्यानेभ्य ऋत्विग्भ्यः सखा सखिवदत्यंतं प्रियः । एवंभूतो य इंद्रस्तं प्रसीदं स्तोत्र लक्षणं वचो गृणीमसि ब्रूमहे ॥ दुरः । डुदाञ् दाने । मंदिवाशिमथिचतिचंक्यंकिभ्य उरच् (उ १-३८) इति विधीयमान उरच् प्रत्ययो बहुलवचनादस्मादपि भवति । अत एवाकारलोपः । शिक्षानरः । शिक्ष विद्योपादाने । गुरोश्च हलः (पा ३-३-१०३) इत्यकारप्रत्ययः । ततष्टाप् । षष्ठीसमासः । समासस्येत्यंतोदात्तत्वम् । गृणीमसि । गृ शब्दे । क्रैयादिकः । प्वादीनां ह्रस्व इति ह्रस्वत्वम् । इदंतो मसिरिति मसेरिकारः ॥ २ ॥

1.53.3 समानपद
शची᳚व इन्द्र पुरुकृद्द्युमत्तम॒ तवेदि॒दम॒भित᳚श्चेकिते॒ वसु᳚ ।
अतः᳚ सं॒गृभ्या᳚भिभूत॒ आ भ᳚र॒ मा त्वा᳚य॒तो ज᳚रि॒तुः काम᳚मूनयीः ॥
▶ पदपाठः (Word-by-word)
शची᳚॑वः । इ॒न्द्र॒ । पु॒रु॒॑कृ॒त् । द्यु॒म॒त्॑त॒म॒ । तव᳚ । इत् । इ॒दम् । अ॒भितः᳚ । चे॒कि॒ते॒ । वसु᳚ ।
अतः᳚ । स॒म्॑गृभ्य᳚ । अ॒भि॒॑भू॒ते॒ । आ । भ॒र॒ । मा । त्वा॒॑य॒तः । ज॒रि॒तुः । काम᳚म् । ऊ॒न॒यीः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

शचीवः । शचीति प्रज्ञानाम । हे इंद्र शचीवः प्रज्ञावान् पुरुकृत् प्रभूतस्य वृत्रवधादेः कर्तः द्युमत्तमातिशयेन दीप्तिमन् अभितः सर्वत्र वर्तमानं वसु धनं यदस्ति तदिदम् । तवेत् तवैव स्वभूतमिति चेकिते भृशमस्माभिर्ज्ञायते । अतः कारणाद्धनं संगृभ्य सम्यक् गृहीत्वाभिभूते शत्रूणामभिभवितराभर । आस्मभ्यमाहर । देहीत्यर्थः । त्वायतस्त्वामात्मन इच्छतो जरितुः स्तोतुः काममभिलाषं मोनयीः । परिहीनं मा कार्षीः । पूरयेत्यर्थः ॥ शचीवः । मतुवसो रुरिति रुत्वम् । षाष्ठिकमामंत्रिताद्युदात्तत्वम् । इतरेष्वाष्वमिकं सर्वानुदात्तत्वम् । न चामंत्रितं पूर्वमविद्यमानवदित्यविद्यमानवत्त्वम् । नामंत्रिते समनाधिकरण इति निषेधात् । चेकिते । कित ज्ञाने । अस्माद्यङंताद्वर्तमाने लिट्यमंत्रे (पा ३-१-५३) इति निषेधादाम्प्रत्ययाभावे सति लिट आर्धधातुकत्वादतोलोपयलोपौ । संगृभ्य आभरेत्युभयत्र हैग्रहोर्भश्छंदसि पा ८-२-३२-१ । इति भत्वम् । त्वायतः । त्वामात्मन इच्छति । सुप आत्मनः क्यच् । प्रत्ययोत्तरपदयोश्चेति मपर्यंतस्य त्वादेशः । छांदसमात्वम् । क्यजंताल्लटः शतृ । तस्यादापदेशाल्लसार्वधातुक स्वरेणानुदात्तस्यैकादेशस्वरेणोदात्तत्वम् । एकादेशस्वरोऽंतरंगः सिद्धो भवतीति वक्तव्यम् । पा ८-२-६-१ । इति वचनात्तस्य सिद्धत्वे सति शतुरनुम इत्यजादिविभक्तेरुदात्तत्वम् । कामम् । कमु कांतावित्यस्माद्भावे घञ् । कर्षात्वत इत्यंतोदात्तत्वे प्राप्ते वृषादिषु पाठादाद्युदात्तत्वम् । ऊनयीः । ऊन परिहाणे । चुरादिः । लुङि णिश्रिद्रुस्रुभ्यः (पा ३-१-४८) इति च्लेश्चङादेशस्य नोनयतिध्वनयतीत्यादिना (पा ३-१-५१) प्रतिषेधः । ह्म्यंतक्षणेति (पा ७-२-५) सिचि वृद्धिप्रतिषेधः ॥ ३ ॥

1.53.4
ए॒भिर्द्युभि᳚ः सु॒मना᳚ ए॒भिरिन्दु᳚भिर्निरुन्धा॒नो अम᳚तिं॒ गोभि᳚र॒श्विना᳚ ।
इन्द्रे᳚ण॒ दस्युं᳚ द॒रय᳚न्त॒ इन्दु᳚भिर्यु॒तद्वे᳚षस॒ः समि॒षा र᳚भेमहि ॥
▶ पदपाठः (Word-by-word)
ए॒भिः । द्यु॑भिः᳚ । सु॒॑मनाः᳚ । ए॒भिः । इन्दु᳚॑भिः । नि॒॑रु॒न्धा॒नः । अम᳚तिम् । गोभिः᳚ । अ॒श्विना᳚ ।
इन्द्रे᳚ण । दस्यु᳚म् । द॒रय᳚न्तः । इन्दु᳚॑भिः । यु॒त॑द्वे᳚षसः । सम् । इ॒षा । र॒भे॒म॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र एभिरस्माभिर्दत्तैर्द्युभिर्दीप्तैश्चरुपुरोडाशादिभिः एभिरिंदुभिः पुरोवर्तिभिस्तुभ्यं दत्तैः सोमैश्च प्रीतस्त्वमस्माकममतिं दारिद्र्यं गोभिस्त्वया दत्तैः पशुभिरश्विनाश्वयुक्तेन धनेन च निरुंधानो निवर्तयन् सुमनाः शोभनमना भव । वयमिंदुभिरस्माभिर्दत्तैः सोमैः प्रीतेनेंद्रेण दस्युमुपक्षपयितारं शत्रुं दरयंतो हिंसंतोऽत एव युतद्वेषसः पृथग्भूतशत्रुका भूत्वेषेंद्रदत्तेनान्नेन सं रभेमहि । संरब्धा भवेम । संगच्छेमहीत्यर्थः ॥ सुमनाः । शोभनं मनो यस्य । सोर्मनसी अलोमोषसी इत्युत्तरपदाद्युदात्तत्वम् । निरुंधानः । रुधिर् आवरणे । स्वरितेत्त्वादात्मनेपदम् । श्नसोरल्लोप इत्यकारलोपः । चित इत्यंतोदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । अमतिम् । मंतव्या मतिरैश्वर्यम् । न मतिरमतिः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । न लोकाव्ययेति षष्ठीप्रतिषेधः । अश्विना । अश्वोऽस्यास्तीत्यश्वि धनम् । मत्वर्थीय इनिः ॥ ४ ॥

1.53.5
समि᳚न्द्र रा॒या समि॒षा र᳚भेमहि॒ सं वाजे᳚भिः पुरुश्च॒न्द्रैर॒भिद्यु᳚भिः ।
सं दे॒व्या प्रम᳚त्या वी॒रशु᳚ष्मया॒ गोअ᳚ग्र॒याश्वा᳚वत्या रभेमहि ॥
▶ पदपाठः (Word-by-word)
सम् । इ॒न्द्र॒ । रा॒या । सम् । इ॒षा । र॒भे॒म॒हि॒ । सम् । वाजे᳚भिः । पु॒रु॒॑च॒न्द्रैः । अ॒भिद्यु᳚॑भिः ।
सम् । दे॒व्या । प्र॑म᳚त्या । वी॒र॑शु᳚ष्मया । गो॑अ᳚ग्रया । अश्व᳚॑वत्या । र॒भे॒म॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र राया धनेन वयं सं रभेमहि । संगच्छेमहि ॥ तथेषान्नेन सं रभेमहि । तथा वाजेभिर्बलैः सं रभेमहि । कीदृशैर्वाजैः । पुरुश्चंद्रैः पुरूणां बहूनामाह्लादकैः अभिद्युभिरभितो दीप्यमानैः । किंच देव्या द्योतमानया प्रमत्या त्वदीयया प्रकृष्टबुद्ध्या सं रभेमहि । कीदृश्या । वीरशुष्मया । वीरं विशेषेण शत्रूणां क्षेपणसमर्थं शुष्मं बलं यस्याः सा तथोक्ता । गो अग्रया । स्तोतृभ्यो दानार्थमग्रे प्रमुखत एव गावो यस्याः सा तथोक्ताः । आश्वावत्याश्वैरुपेतया ॥ राया । ऊडिदमित्यादिना । विभक्तेरुदात्तत्वम् । पुरुश्चंद्रैः । ह्रस्वाच्चंद्रोत्तरपदे मंत्र इति सुट् । श्चुत्वेन शकारः । समासस्वरः । अभिद्युभिः । अभिगता द्यौर्दीप्तिर्येषाम् । आत्र दिव्यशब्दो दीप्तिं लक्षयति । अव्यय पूर्वपदप्रकृतिस्वरत्वम् । देव्या । उदात्तयण इति विभक्तेरुदात्तत्वम् । प्रमत्यातादौ नीतिति गतेः प्रकृतिस्वरत्वम् । उत्तरयोर्बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । सर्वत्र विभाषा गोः । पा सू ६-१-१२२ । इति गोअग्रयेत्यत्र प्रकृतिभावः । अश्ववत्या । मंत्रे सोमाश्वेंद्रियेति मतुपि दीर्घत्वं ॥ ५ ॥

1.53.6
ते त्वा॒ मदा᳚ अमद॒न्तानि॒ वृष्ण्या॒ ते सोमा᳚सो वृत्र॒हत्ये᳚षु सत्पते ।
यत्का॒रवे॒ दश᳚ वृ॒त्राण्य᳚प्र॒ति ब॒र्हिष्म᳚ते॒ नि स॒हस्रा᳚णि ब॒र्हयः᳚ ॥
▶ पदपाठः (Word-by-word)
ते । त्वा॒ । मदाः᳚ । अ॒म॒द॒न् । तानि᳚ । वृष्ण्या᳚ । ते । सोमा᳚सः । वृ॒त्र॒॑हत्ये᳚षु । स॒त्॑प॒ते॒ ।
यत् । का॒रवे᳚ । दश᳚ । वृ॒त्राणि᳚ । अ॒प्र॒ति । ब॒र्हिष्म᳚ते । नि । स॒हस्रा᳚णि । ब॒र्हयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सत्पते सतां पालयितरिंद्र वृत्रहत्येषु वृत्रहननेषु निमित्तभूतेषु सत्सु ते पूर्वोक्ता मदा मादका मरुतस्त्वा त्वाममदन् । अमदर्य । हर्षं प्रापयन् । तानि पूर्वोक्तानि वृष्ण्या वृष्णः सेचनसमर्थस्य तव संबंधीनि चरुपुरोडाशादीनि हवींषि त्वाममदन् । ते सोमासः प्रसिद्धाः सोमाश्च श्वाममदन् । यद्यदा कारवे स्तुतिकर्त्रे बर्हिष्मते यज्ञवते यजमानाय दश सहस्राण्यपरिमितानि वृत्राण्यावरकाण्युपद्रवजातान्यप्रति शत्रुभिरप्रगतिगतस्त्वं निबर्हयः न्यवधीः । तदानीमिति पूर्वेण संबंधः ॥ वृष्ण्या । शेश्छंदसि बहुलमिति शेर्लोपः । बर्हयः । बर्हयतिर्हिंसाकर्मा । लङि बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । शपः पित्त्वादनुदात्तत्वे णिच एव स्वरः शिष्यते । यद्वृत्तयोगादनिघातः ॥ ६ ॥

1.53.7
यु॒धा युध॒मुप॒ घेदे᳚षि धृष्णु॒या पु॒रा पुरं॒ समि॒दं हं॒स्योज᳚सा ।
नम्या॒ यदि᳚न्द्र॒ सख्या᳚ परा॒वति᳚ निब॒र्हयो॒ नमु᳚चिं॒ नाम᳚ मा॒यिन᳚म् ॥
▶ पदपाठः (Word-by-word)
यु॒धा । युध᳚म् । उप᳚ । घ॒ । इत् । ए॒षि॒ । धृ॒ष्णु॒॑या । पु॒रा । पुर᳚म् । सम् । इ॒दम् । हं॒सि॒ । ओज᳚सा ।
नम्या᳚ । यत् । इ॒न्द्र॒ । सख्या᳚ । प॒रा॒॑वति᳚ । नि॒॑ब॒र्हयः᳚ । नमु᳚चिम् । नाम᳚ । मा॒यिन᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र धृष्णुया शत्रूणां धर्षकस्त्वं युधा युद्धेन संबद्धं युद्धं युद्धमुप घेदेषि उपैव गच्छसि । सर्वदा युद्धशीलो भवसीत्यर्थः । घ इति पादपूरणः । शत्रूणामसुराणां पुरा पुरेण नगरेण सहेदं पुरोवर्ति पुरं शत्रुनगरमोजसा बलेन सं हंसि । सम्यग्विनाशयसि । शत्रूणां पुराण्यभैत्सीरित्यर्थः । हे इंद्र त्वं नम्या शत्रुषु नमनशीलेन सख्या सहायभूतेन वज्रेन परावति दूरदेशे नमुचिं नामानया संज्ञया प्रसिद्धं मायिनं मायाविनमसुरं यद्यस्मान्नि बर्हयः नितरामहिंसीः । आतस्त्वमेवं स्तूयस इत्यर्थः ॥ युधा । युध संप्रहारे । संपदादिलक्षणो भावे क्विप् । सावेकाच इति विभक्तेरुदात्तत्वम् । एषि । इण् गतौ । अदादित्वाच्छपोलुक् । धृष्णुया । ञिधृषा प्रागल्भ्ये । त्रसिगृधिधृषिक्षिपेः क्नुरिति क्नुप्रत्ययः । कित्त्वाद्गुणाभावः । सुपां सुलुगिति सोर्याजादेशः । चित इत्यंतोदात्तत्वम् । पुरा । पृ पालनपूरणयोः । पूरयति राज्ञामभिमतानीति । क्विप्चेति क्विप् । उदोष्ठ्यपूर्वस्येत्युत्वम् । सावेकाच इति विभक्तिरुदात्ता । हंसि । हंतेर्लट सिप्यदादित्वाच्भपो लुकि नश्चापदांतस्य झलि । पा सू ८-३-२४ । इत्यनुस्वारः । नम्या । णमु प्रह्वत्वे । औणादिक इन्प्रत्ययः । सुपां सुलुगिति तृतीयाया ड्यादेशः । टलोपः । सख्या । शेषो घ्यसखि । पा सू १-४-७ । इति घिसंज्ञाप्रतिषेधान्नाभावाभावे यणादेशः । नमुचिम् । इंद्रेण सह युद्धं न मुंचतीति नमुचिः । औणादिकः । क्विप्रत्ययः नभ्राण्नपादित्यादिना नञः प्रकृतिभावः । नञ् न गतिर्न च कारकमिति कृदुत्तरपदप्रकृतिस्वरत्वाभावेऽव्यय पूर्वपदप्रकृतिस्वरत्वम् । मायिनम् । मायाशब्दस्य व्रीह्यादिषु पाठात् मत्वर्थीय इनिः ॥

1.53.8 समानपद
त्वं कर᳚ञ्जमु॒त प॒र्णयं᳚ वधी॒स्तेजि᳚ष्ठयातिथि॒ग्वस्य᳚ वर्त॒नी ।
त्वं श॒ता वङ्गृ᳚दस्याभिन॒त्पुरो᳚॑नानु॒दः परि᳚षूता ऋ॒जिश्व᳚ना ॥
▶ पदपाठः (Word-by-word)
त्वम् । कर᳚ञ्जम् । उ॒त । प॒र्णय᳚म् । व॒धीः॒ । तेजि᳚ष्ठया । अ॒ति॒थि॒॑ग्वस्य᳚ । व॒र्त॒नी ।
त्वम् । श॒ता । वङ्गृ᳚दस्य । अ॒भि॒न॒त् । पुरः᳚ । अ॒न॒नु॒॑दः । परि᳚॑सूताः । ऋ॒जिश्व᳚ना ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र त्वं करंजमेतत्संज्ञ कमसुरमुतापि च पर्णयमेतन्नामानमसुरं चातिथिग्वस्यैतत्संज्ञस्य राज्ञः प्रयोजनाय तेजिष्ठयातिशयेन तेजस्विन्या वर्तनी वर्तन्या शत्रुप्रेरणकुशलया शक्त्या वधीः । हतवानसि । तथाननुदः । अनु पश्चाद्यति खंडयतीत्यनुदोऽनुचरः । तादृशोऽनुचररहित एक एव त्वमृजिश्वनैतत्संज्ञकेन राज्ञा परिषूताः परितोऽवष्टब्धाः शता शतानि शतसंख्याका वंगृदस्यैतत्संज्ञ कस्यासुरस्य पुरः पुराणि नगराण्यभिनत् । बिभिदिषे ॥ वधीः । हंतेर्लुङि सिपि लुङि चेति वधादेशः । तस्यादंतत्वाद्वृद्ध्यभावः (पा ७-३-३५) अत एवानेकाच्त्वादिट् प्रतिषेधाभावः (पा ७-२-१०) इट ईटीति सिचो लोपः । तेजिष्ठया । तेजस् शब्दादस्मायामेधेति मत्वर्थीयो विनिः । तस्मादातिशायनिक इष्ठनि विन्मतोर्लुगिति विनो लुक् । टेरिति टिलोपः । नित्त्वादाद्युदात्तत्वम् । वर्तनी । वृत्यते प्रेर्यतेऽनयेति वर्तनी । करणे ल्युट् । टित्त्वात् ङीप् (पा ४-१-१५) सुपां सुलुगिति विभक्तेः पूर्वसवर्णदीर्घत्वम् । व्यत्ययेनांतोदात्तत्वम् । अभिनत् । भिदिर् विदारणे । लङि सिपि रुधादित्वात् श्नम् । इतश्चेतीकारलोपः । हल्ङ्याब्भ्य इति सकार लोपः अननुदः । दो अवखंडने । आदेच इत्वम् । आतश्चोपसर्ग इति कप्रत्ययः । नास्त्यनुदोऽस्येति बहुव्रीहौ नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । संहितायां दीर्घश्छांदसः । परिषूताः । षू प्रेरणे । कर्मणि निष्ठा । गतिरनंतर इति गतेः प्रकृतिस्वरत्वं ॥ ८ ॥

1.53.9
त्वमे॒ताञ्ज᳚न॒राज्ञो॒ द्विर्दशा᳚ब॒न्धुना᳚ सु॒श्रव᳚सोपज॒ग्मुषः᳚ ।
ष॒ष्टिं स॒हस्रा᳚ नव॒तिं नव᳚ श्रु॒तो नि च॒क्रेण॒ रथ्या᳚ दु॒ष्पदा᳚वृणक् ॥
▶ पदपाठः (Word-by-word)
त्वम् । ए॒तान् । ज॒न॒॑राज्ञः᳚ । द्विः । दश᳚ । अ॒ब॒न्धुना᳚ । सु॒॑श्रव᳚सा । उ॒प॒॑ज॒ग्मुषः᳚ ।
ष॒ष्टिम् । स॒हस्रा᳚ । न॒व॒तिम् । नव᳚ । श्रु॒तः । नि । च॒क्रेण᳚ । रथ्या᳚ । दुः॒॑पदा᳚ । अ॒वृ॒ण॒क् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र श्रुतो विश्रुतः प्रख्यातस्त्वं द्विर्दश विंशतिसंख्याकानबंधुना बंधुरहितेन सहायरहितेन सुश्रवसैतत्संज्ञकेन राज्ञा युद्धार्थमुपजग्मुष उपगतवत एतानेवंविधान् जनराज्ञो जनपदानामधिपतीन् । षष्टिमित्यादिना तेषां राज्ञा मनुचरसंख्योच्यते । षष्टिं सहस्रां सहस्राणां षष्टिं नवतिं नव नवसंख्योत्तरां नवतिम् । तान् राज्ञ ईदृक्संख्याकाननुचरांश्च रथ्या रथसंबंधिना दुष्पदा दुष्ट्रपदनेन । शत्रुभिः प्राप्तुमशक्येनेत्यर्थः । ईदृशेन चक्रेण न्यवृणक् न्यवर्जयः । त्वां स्तुवतः सुश्रवसो जयार्थं त्वमागत्य तदीयान् शत्रूनजैषीरित्यर्थः ॥ जनराज्ञः समासांतविधेरनित्यत्वाट्वच् प्रत्ययाभावः (पा ५-४-९१) परि ८४ । राजन् शब्दो राजृ दीप्तावित्यस्मात्कनिन्प्रत्ययांत आद्युदात्तः । कृदुत्तरपदप्रकृतिस्वरत्वेन स एव शिष्यते । अबंधुना । नञ् सुभ्यामित्यत्तरपदांतोदात्तत्वम् । सुश्रवसा । शोभनं श्रवोऽन्नं यस्य । आद्युदात्तं द्व्यच्छंदसीत्युत्तरपदाद्युदात्तत्वम् । उपजग्मुषः । गमेर्लिटः क्वसुः । शसि भंसज्ञायां वसोः संप्रसारणमिति संप्रसारणम् । परपूर्वत्वम् । गमहनमित्यादिनोपधालोपः । शासिवसिघसीनां चेति षत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वेन क्वसोरेव स्वरः शिष्यते । रथ्या । रथस्येदं रथ्यम् । रथाद्यत् (पा ४-३-१२१) इति यत् । यतोऽनाव इत्याद्युदात्तत्वम् । सुपां सुलुगिति विभक्तेराकारः । दुष्पदा । पद गतौ ईषद्दु सुष्विति खल् । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । पूर्ववद्विभक्तेराकारः । अवृणक् । वृजी वर्जनॆ । रौधादिकः लङि मध्यमैकवचने हल्ङ्याब्भ्य इति सिपो लोपः । चोःकुरिति कुत्वं ॥ ९ ॥

1.53.10 समानपद
त्वमा᳚विथ सु॒श्रव᳚सं॒ तवो॒तिभि॒स्तव॒ त्राम᳚भिरिन्द्र॒ तूर्व᳚याणम् ।
त्वम᳚स्मै॒ कुत्स᳚मतिथि॒ग्वमा॒युं म॒हे राज्ञे॒ यूने᳚ अरन्धनायः ॥
▶ पदपाठः (Word-by-word)
त्वम् । आ॒वि॒थ॒ । सु॒॑श्रव᳚सम् । तव᳚ । ऊ॒ति॑भिः᳚ । तव᳚ । त्राम᳚॑भिः । इ॒न्द्र॒ । तुर्व᳚याणम् ।
त्वम् । अ॒स्मै॒ । कुत्स᳚म् । अ॒ति॒थि॒॑ग्वम् । आ॒युम् । म॒हे । राज्ञे᳚ । यूने᳚ । अ॒र॒न्ध॒ना॒यः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र त्वं तवोतिभिस्त्वदीयैः पालनैः सुश्रवसं पूर्वोक्तं राजानमाविथ ररक्षिथ । तथा तूर्वयाणमेतन्नामानं राजानं तव त्रामभिस्त्वदीयैस्त्रायकैः । पालकैर्बलैराविथेति शेषः । किंच त्वं महे महते यूने तरुणायास्मै सुश्रवसे राज्ञे कुत्सादींस्त्रीन्राज्ञोरंधनायः । वशमनयः । रध्यतिर्वशगमने (नि ६-२२) इति यास्कः ॥ त्रामभिः । त्रैङ् पालने । आदेच इत्यात्वम् । आतो मनि न्निति मनिन् । नित्व्वादाद्युदात्तत्वम् । अरंधनायः । रंधनं वशीकरणं करोति रंधनयति । तत्करोति । सू ३-१-२६-५ । इति णिच् । इष्ठवण्णौ प्रातिपदिकस्य । सू ६-४-१५५-१ । इतीष्ठवद्भावाट्वलोपः । लङि सिपि दीर्घश्छांदसः ॥ १० ॥

1.53.11 समानपद
य उ॒दृची᳚न्द्र दे॒वगो᳚पा॒ः सखा᳚यस्ते शि॒वत᳚मा॒ असा᳚म ।
त्वां स्तो᳚षाम॒ त्वया᳚ सु॒वीरा॒ द्राघी᳚य॒ आयु᳚ः प्रत॒रं दधा᳚नाः ॥
▶ पदपाठः (Word-by-word)
ये । उ॒त्॑ऋचि᳚ । इ॒न्द्र॒ । दे॒व॑गो᳚पाः । सखा᳚यः । ते॒ । शि॒व॑त᳚माः । असा᳚म ।
त्वाम् । स्तो॒षा॒म॒ । त्वया᳚ । सु॒॑वीराः᳚ । द्राघी᳚यः । आयुः᳚ । प्र॒॑त॒रम् । दधा᳚नाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र ये वयं उदृच्युदर्के यज्ञसमाप्तौ वर्तमाना देवगोपा देवैः पालितास्के तव सखायः सखिवदत्यंतं प्रिया अत एव शिवतमा असमा अतिशयेन कल्याणा अभूम, ते वयं यज्ञसमाप्त्युत्तरकालमपि त्वां स्तोषायस्तवाम । अस्माभिः स्तुतेन त्वया सुवीराः शोभनपुत्रवंतः संतो द्राघीयोऽतिशयेन दीर्घमायुर्जीवनं प्रतरं प्रकृष्टतरं यथा भवति तथा दधाना धारयंतो भूयास्म ॥ देवगोपाः । देवा गोपा येषाम् । बहुव्रीहौ पूर्व पदप्रकृतिस्वरत्वम् । असमा । अस भुवि । लुङर्थे लोट्याडुत्तमस्य पिच्चेति पिद्वद्भावात्पिच्च ङिन्नेति ञित्त्वाभावे श्नसोरल्लोप इत्यकारलोपाभावः । पित्त्वादेव तिङोऽनुदात्तत्वे धातुस्वरः शिष्यते । स्तोषाम । स्तौतेर्लोट सिब्बहुलं लेटेति बहुलग्रहणात् लोट्यपि सिप् । तस्य पित्त्वाद्गुणः । सुवीराः । वीरवीर्यौ चेत्युत्तरपदाद्युदात्तत्वम् । द्राघीयः । दीर्घशब्दादीयसुनि प्रियस्थिरेत्यादिना (पा ६-४-१५७) द्राघादेशः । नित्त्वादाद्युदात्तत्वम् । प्रतरं प्रशब्दात्तरप्यमु च च्छंदसि । पा सू ५-४-१२ । इत्यद्रव्यप्रकर्षेऽमुप्रत्ययः । प्रत्ययस्वरेणांतोदात्तत्वम् । दधानाः । दधातेः शानच्यभ्यस्तानामादिरित्याद्युदात्तत्वं ॥ ११ ॥