श्रवणम्

1.53.5
समि᳚न्द्र रा॒या समि॒षा र᳚भेमहि॒ सं वाजे᳚भिः पुरुश्च॒न्द्रैर॒भिद्यु᳚भिः ।
सं दे॒व्या प्रम᳚त्या वी॒रशु᳚ष्मया॒ गोअ᳚ग्र॒याश्वा᳚वत्या रभेमहि ॥
▶ पदपाठः (Word-by-word)
सम् । इ॒न्द्र॒ । रा॒या । सम् । इ॒षा । र॒भे॒म॒हि॒ । सम् । वाजे᳚भिः । पु॒रु॒॑च॒न्द्रैः । अ॒भिद्यु᳚॑भिः ।
सम् । दे॒व्या । प्र॑म᳚त्या । वी॒र॑शु᳚ष्मया । गो॑अ᳚ग्रया । अश्व᳚॑वत्या । र॒भे॒म॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र राया धनेन वयं सं रभेमहि । संगच्छेमहि ॥ तथेषान्नेन सं रभेमहि । तथा वाजेभिर्बलैः सं रभेमहि । कीदृशैर्वाजैः । पुरुश्चंद्रैः पुरूणां बहूनामाह्लादकैः अभिद्युभिरभितो दीप्यमानैः । किंच देव्या द्योतमानया प्रमत्या त्वदीयया प्रकृष्टबुद्ध्या सं रभेमहि । कीदृश्या । वीरशुष्मया । वीरं विशेषेण शत्रूणां क्षेपणसमर्थं शुष्मं बलं यस्याः सा तथोक्ता । गो अग्रया । स्तोतृभ्यो दानार्थमग्रे प्रमुखत एव गावो यस्याः सा तथोक्ताः । आश्वावत्याश्वैरुपेतया ॥ राया । ऊडिदमित्यादिना । विभक्तेरुदात्तत्वम् । पुरुश्चंद्रैः । ह्रस्वाच्चंद्रोत्तरपदे मंत्र इति सुट् । श्चुत्वेन शकारः । समासस्वरः । अभिद्युभिः । अभिगता द्यौर्दीप्तिर्येषाम् । आत्र दिव्यशब्दो दीप्तिं लक्षयति । अव्यय पूर्वपदप्रकृतिस्वरत्वम् । देव्या । उदात्तयण इति विभक्तेरुदात्तत्वम् । प्रमत्यातादौ नीतिति गतेः प्रकृतिस्वरत्वम् । उत्तरयोर्बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । सर्वत्र विभाषा गोः । पा सू ६-१-१२२ । इति गोअग्रयेत्यत्र प्रकृतिभावः । अश्ववत्या । मंत्रे सोमाश्वेंद्रियेति मतुपि दीर्घत्वं ॥ ५ ॥