श्रवणम्

1.53.6
ते त्वा॒ मदा᳚ अमद॒न्तानि॒ वृष्ण्या॒ ते सोमा᳚सो वृत्र॒हत्ये᳚षु सत्पते ।
यत्का॒रवे॒ दश᳚ वृ॒त्राण्य᳚प्र॒ति ब॒र्हिष्म᳚ते॒ नि स॒हस्रा᳚णि ब॒र्हयः᳚ ॥
▶ पदपाठः (Word-by-word)
ते । त्वा॒ । मदाः᳚ । अ॒म॒द॒न् । तानि᳚ । वृष्ण्या᳚ । ते । सोमा᳚सः । वृ॒त्र॒॑हत्ये᳚षु । स॒त्॑प॒ते॒ ।
यत् । का॒रवे᳚ । दश᳚ । वृ॒त्राणि᳚ । अ॒प्र॒ति । ब॒र्हिष्म᳚ते । नि । स॒हस्रा᳚णि । ब॒र्हयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सत्पते सतां पालयितरिंद्र वृत्रहत्येषु वृत्रहननेषु निमित्तभूतेषु सत्सु ते पूर्वोक्ता मदा मादका मरुतस्त्वा त्वाममदन् । अमदर्य । हर्षं प्रापयन् । तानि पूर्वोक्तानि वृष्ण्या वृष्णः सेचनसमर्थस्य तव संबंधीनि चरुपुरोडाशादीनि हवींषि त्वाममदन् । ते सोमासः प्रसिद्धाः सोमाश्च श्वाममदन् । यद्यदा कारवे स्तुतिकर्त्रे बर्हिष्मते यज्ञवते यजमानाय दश सहस्राण्यपरिमितानि वृत्राण्यावरकाण्युपद्रवजातान्यप्रति शत्रुभिरप्रगतिगतस्त्वं निबर्हयः न्यवधीः । तदानीमिति पूर्वेण संबंधः ॥ वृष्ण्या । शेश्छंदसि बहुलमिति शेर्लोपः । बर्हयः । बर्हयतिर्हिंसाकर्मा । लङि बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । शपः पित्त्वादनुदात्तत्वे णिच एव स्वरः शिष्यते । यद्वृत्तयोगादनिघातः ॥ ६ ॥