त्वां स्तो᳚षाम॒ त्वया᳚ सु॒वीरा॒ द्राघी᳚य॒ आयु᳚ः प्रत॒रं दधा᳚नाः ॥
पदपाठः (Word-by-word)
त्वाम् । स्तो॒षा॒म॒ । त्वया᳚ । सु॒॑वीराः᳚ । द्राघी᳚यः । आयुः᳚ । प्र॒॑त॒रम् । दधा᳚नाः ॥
सायणभाष्यम् (Sayana Commentary)
हे इंद्र ये वयं उदृच्युदर्के यज्ञसमाप्तौ वर्तमाना देवगोपा देवैः पालितास्के तव सखायः सखिवदत्यंतं प्रिया अत एव शिवतमा असमा अतिशयेन कल्याणा अभूम, ते वयं यज्ञसमाप्त्युत्तरकालमपि त्वां स्तोषायस्तवाम । अस्माभिः स्तुतेन त्वया सुवीराः शोभनपुत्रवंतः संतो द्राघीयोऽतिशयेन दीर्घमायुर्जीवनं प्रतरं प्रकृष्टतरं यथा भवति तथा दधाना धारयंतो भूयास्म ॥ देवगोपाः । देवा गोपा येषाम् । बहुव्रीहौ पूर्व पदप्रकृतिस्वरत्वम् । असमा । अस भुवि । लुङर्थे लोट्याडुत्तमस्य पिच्चेति पिद्वद्भावात्पिच्च ङिन्नेति ञित्त्वाभावे श्नसोरल्लोप इत्यकारलोपाभावः । पित्त्वादेव तिङोऽनुदात्तत्वे धातुस्वरः शिष्यते । स्तोषाम । स्तौतेर्लोट सिब्बहुलं लेटेति बहुलग्रहणात् लोट्यपि सिप् । तस्य पित्त्वाद्गुणः । सुवीराः । वीरवीर्यौ चेत्युत्तरपदाद्युदात्तत्वम् । द्राघीयः । दीर्घशब्दादीयसुनि प्रियस्थिरेत्यादिना (पा ६-४-१५७) द्राघादेशः । नित्त्वादाद्युदात्तत्वम् । प्रतरं प्रशब्दात्तरप्यमु च च्छंदसि । पा सू ५-४-१२ । इत्यद्रव्यप्रकर्षेऽमुप्रत्ययः । प्रत्ययस्वरेणांतोदात्तत्वम् । दधानाः । दधातेः शानच्यभ्यस्तानामादिरित्याद्युदात्तत्वं ॥ ११ ॥