प्रथमं मण्डलम् - सूक्तम् 177

5 ऋचः

ऋषिः: अगस्त्यो मैत्रावरुणिः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 1.177 - सम्पूर्णम्

1 / 5
ऋक्: 1.177.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
1.177.1
आ च᳚र्षणि॒प्रा वृ᳚ष॒भो जना᳚नां॒ राजा᳚ कृष्टी॒नां पु᳚रुहू॒त इन्द्र᳚ः ।
स्तु॒तः श्र᳚व॒स्यन्नव॒सोप᳚ म॒द्रिग्यु॒क्त्वा हरी॒ वृष॒णा या᳚ह्य॒र्वाङ् ॥
▶ पदपाठः (Word-by-word)
आ । च॒र्ष॒णि॒॑प्राः । वृ॒ष॒भः । जना᳚नाम् । राजा᳚ । कृ॒ष्टी॒नाम् । पु॒रु॒॑हू॒तः । इन्द्रः᳚ ।
स्तु॒तः । श्र॒व॒स्यन् । अव᳚सा । उप᳚ । म॒द्रिक् । यु॒क्त्वा । हरी᳚ । वृष᳚णा । आ । या॒हि॒ । अ॒र्वाङ् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमिन्द्रः चर्षणिप्राः चर्षणयोमनुष्याः तेषांधनादिना प्रीणयिता जनानां सर्वेषां वृषभः कामानांवर्षिता तथाकृष्टिनां मनुष्यनामैतत् मनुष्याणांराजास्वामीपुरुहूतः बहुभिराहूतईदृ- शइन्द्रोस्मानाजानात्वाच्छतुवा उत्तरार्धःपरोक्षवादः हेइन्द्र स्तुतोस्माभिः श्रवस्यन् हविर्ल- क्षणान्नमिच्छन् अवसाअस्मद्रक्षणेनतर्पणेनवायुक्तःसन् मद्रिक् मदभिमुखमञ्चन् वृषणावर्ष कौयुवानौ हरीअश्वौयुक्त्वारथेयोजयित्वा अर्वाङ् अस्मदभिमुकमायाहि आगच्छ ॥ १ ॥

1.177.2
ये ते॒ वृष᳚णो वृष॒भास᳚ इन्द्र ब्रह्म॒युजो॒ वृष᳚रथासो॒ अत्या᳚ः ।
ता{4} आ ति᳚ष्ठ॒ तेभि॒रा या᳚ह्य॒र्वाङ्हवा᳚महे त्वा सु॒त इ᳚न्द्र॒ सोमे᳚ ॥
▶ पदपाठः (Word-by-word)
ये । ते॒ । वृष᳚णः । वृ॒ष॒भासः᳚ । इ॒न्द्र॒ । ब्र॒ह्म॒॑युजः᳚ । वृष᳚॑रथासः । अत्याः᳚ ।
तान् । आ । ति॒ष्ठ॒ । तेभिः᳚ । आ । या॒हि॒ । अ॒र्वाङ् । हवा᳚महे । त्वा॒ । सु॒ते । इ॒न्द्र॒ । सोमे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र तेतवसबन्धिनोवृषणोवर्षकायुवानः वर्षणवन्तोवा वृषभासः श्रॆष्ठाः ब्रह्मयुजः परिवृढे- नमन्त्रेणयुज्यमानाः वृषरथासः वर्षणरथवन्तः तत्रनियुक्ताइत्यर्थः ईदृशाःअत्याः अश्वाः येसन्ति- तानातिष्ठ आश्रय आरोह तेभिस्तैःअर्वाङ् अस्मदभिमुखमायाहि आगच्छ वयंच हेइन्द्र सोमेसुते- सति त्वात्वांहवामहे आह्वयामः ॥ २ ॥

1.177.3
आ ति᳚ष्ठ॒ रथं॒ वृष᳚णं॒ वृषा᳚ ते सु॒तः सोम॒ः परि᳚षिक्ता॒ मधू᳚नि ।
यु॒क्त्वा वृष᳚भ्यां वृषभ क्षिती॒नां हरि᳚भ्यां याहि प्र॒वतोप᳚ म॒द्रिक् ॥
▶ पदपाठः (Word-by-word)
आ । ति॒ष्ठ॒ । रथ᳚म् । वृष᳚णम् । वृषा᳚ । ते॒ । सु॒तः । सोमः᳚ । परि᳚॑सिक्ता । मधू᳚नि ।
यु॒क्त्वा । वृष᳚॑भ्याम् । वृ॒ष॒भ॒ । क्षि॒ती॒नाम् । हरि᳚॑भ्याम् । या॒हि॒ । प्र॒॑वता᳚ । उप᳚ । म॒द्रिक् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वंरथमातिष्ठ आश्रय यज्ञगमनार्थं कीदृशंरथं वृषणंवर्षकंकामानां किमर्थमिति चेदुच्यते- तेत्वदर्थंवृषावर्षकः सोमः सुतोभिषुतः तथामधूनिमधुराणिघृतक्षीरादीनिपरिषिक्तापरितः सिक्ता- निसंपादितानि यद्वा मधूनिमधुराः सोमरसाः चमसेषुपूरिताः आगमनप्रकारउच्यते हेवृषभवर्षकेन्द्र वृषभ्यांवर्षकाभ्यांहरिभ्यांयुक्त्वारथंयोजयित्वाक्षितीनांकर्मसुनिवसतांयजमानानामस्माकमनुग्रहाय क्षितीनांवृषभेतिवायोज्यं प्रवतावेगवतारथेनमद्रिक् दभिमुखमञ्चन् मदाभिमुख्येनोपयाहि ॥ ३ ॥

1.177.4
अ॒यं य॒ज्ञो दे᳚व॒या अ॒यं मि॒येध᳚ इ॒मा ब्रह्मा᳚ण्य॒यमि᳚न्द्र॒ सोमः᳚ ।
स्ती॒र्णं ब॒र्हिरा तु श᳚क्र॒ प्र या᳚हि॒ पिबा᳚ नि॒षद्य॒ वि मु᳚चा॒ हरी᳚ इ॒ह ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । य॒ज्ञः । दे॒व॒॑याः । अ॒यम् । मि॒येधः᳚ । इ॒मा । ब्रह्मा᳚णि । अ॒यम् । इ॒न्द्र॒ । सोमः᳚ ।
स्ती॒र्णम् । ब॒र्हिः । आ । तु । श॒क्र॒ । प्र । या॒हि॒ । पिब᳚ । नि॒॑सद्य᳚ । वि । मु॒च॒ । हरी॒ इति᳚ । इ॒ह ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र अयंयज्ञोदेवयाः देवानगच्छन्नवतितथायंयज्ञोमियेधः मेधः पशुः पशुर्वैमेधइतिहिश्रुतेः । इमाइमानिब्रह्माणिमन्त्राः अयंसुतः सोमः स्तीर्णंबर्हिः आसनायास्तृतादर्भाः एतेपदार्थास्त्वदुचिता- एवंसंपादिताः हेशक्रशकेन्द्र तुपुनः किमित्युक्ते आप्रयाहिप्रकर्षेणशीघ्रमागच्छ आगत्यचनिषद्यबर्हि- ष्युपविश्यपिबसोमं तदर्थं इहास्मिन्देवयजनेहरीअश्वौविमुच वियोजय छान्दसोनुमभावः ॥ ४ ॥

1.177.5
ओ सुष्टु᳚त इन्द्र याह्य॒र्वाङुप॒ ब्रह्मा᳚णि मा॒न्यस्य᳚ का॒रोः ।
वि॒द्याम॒ वस्तो॒रव᳚सा गृ॒णन्तो᳚ वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ॥
▶ पदपाठः (Word-by-word)
ओ इति᳚ । सु॑स्तु᳚तः । इ॒न्द्र॒ । या॒हि॒ । अ॒र्वाङ् । उप᳚ । ब्रह्मा᳚णि । मा॒न्यस्य᳚ । का॒रोः ।
वि॒द्याम᳚ । वस्तोः᳚ । अव᳚सा । गृ॒णन्तः᳚ । वि॒द्याम᳚ । इ॒षम् । वृ॒जन᳚म् । जी॒र॑दा᳚नुम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र सुष्टुतः अस्माभिः सम्यक् स्तुतःसन् अर्वाङ् अस्मदभिमुखमायाहि आगच्छैव माविलंबय किमुद्दिश्यमान्यस्यमाननीयस्यकारोः स्तोतुः होतुः कर्तुर्यजमानस्यवाब्रह्माणिमन्त्रान् उपउपलक्ष्य- गृणन्तः स्तुवन्तः अभिमतंशब्दयन्तोवावयं अवसात्वद्रक्षणेनरक्षिताः सन्तोवस्तोर्वस्तुंसुखेनसंस्थातुं अहनिवा सर्वेष्वहस्सुअन्नादिकंविद्याम लभेमहि विद्यामेत्यादिव्याख्यातम् ॥ ५ ॥

यद्धस्येतिपञ्चर्चंचतुर्दशंसूक्तं आगस्त्यमैन्द्रंत्रैष्टुभं यद्धस्येत्यनुक्रमणिका विशेषविनियोगः पूर्ववत् ।