प्रथमं मण्डलम् - सूक्तम् 109

8 ऋचः

ऋषिः: कुत्स आंगिरसः देवता: इंद्राग्नी छन्दः: त्रिष्टुप्

सूक्तम् 1.109 - सम्पूर्णम्

1 / 8
ऋक्: 1.109.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
1.109.1 समानपद
वि ह्यख्यं॒ मन᳚सा॒ वस्य᳚ इ॒च्छन्निन्द्रा᳚ग्नी ज्ञा॒स उ॒त वा᳚ सजा॒तान् ।
नान्या यु॒वत्प्रम᳚तिरस्ति॒ मह्यं॒ स वां॒ धियं᳚ वाज॒यन्ती᳚मतक्षम् ॥
▶ पदपाठः (Word-by-word)
वि । हि । अख्य᳚म् । मन᳚सा । वस्यः᳚ । इ॒च्छन् । इन्द्रा᳚ग्नी॒ इति᳚ । ज्ञा॒सः । उ॒त । वा॒ । स॒॑जा॒तान् ।
न । अ॒न्या । यु॒वत् । प्र॑म᳚तिः । अ॒स्ति॒ । मह्य᳚म् । सः । वा॒म् । धिय᳚म् । वा॒ज॒॑यन्ती᳚म् । अ॒त॒क्ष॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्राग्नी वस्यः प्रशस्तं धनमिच्छन् कामयमानोऽहं ज्ञासो ज्ञातीन् उत वापि वा सजातान् । समानजन्मानो ज्ञातिव्यतिरिक्ता बांधवा तांश्च मनसा बुद्ध्यावि ह्यख्यम् । युवामेव ज्ञातिरूपेण बंधुरूपेण च व्यज्ञासिषम् । ते हि धनस्य दातारो भवंति । अपि च युवद्युवाभ्यामन्यान्येन केनचिन्मह्यं दत्ता प्रमतिः प्रकृष्टा बुद्धिर्नास्ति । मदीया यैषा प्रकृष्टा बुद्धिः सा युवाभ्यामेव दत्ता । स तादृश्या बुद्ध्या युक्तोऽहं वां युवयोः संबंधिनीं वाजयंतीमन्नमस्मभ्यमिच्छंतीं धियं ध्यानेन निष्पन्नां स्तुतिमतक्षम् । अकार्षं ॥ अख्यं लुङ्यस्यतिवक्तिख्यातिभ्योऽङिति च्लेरङादेशः । वस्यः । वसुशब्दादीयसुन् । टीरिति टलोपः । छांदस ईकारलोपः । ज्ञासः । सुखदुःखादिकं साम्येन जानंतीति ज्ञासो ज्ञातयः । ज्ञा अवबोधने । औणादिकोऽसुन् । व्यत्ययेन विभक्तेरुदात्तत्वम् । युवत् । सुपां सुलुगिति विभक्तेर्लुक् । द्व्यर्थाभिधायकत्वाद्युवावौ द्विवचने (पा ७-२-९२) इति युष्मदो मपर्यंतस्य युवादेशः ॥ १ ॥

1.109.2
अश्र᳚वं॒ हि भू᳚रि॒दाव᳚त्तरा वां॒ विजा᳚मातुरु॒त वा᳚ घा स्या॒लात् ।
अथा॒ सोम᳚स्य॒ प्रय᳚ती यु॒वभ्या॒मिन्द्रा᳚ग्नी॒ स्तोमं᳚ जनयामि॒ नव्य᳚म् ॥
▶ पदपाठः (Word-by-word)
अश्र᳚वम् । हि । भू॒रि॒दाव᳚त्॑तरा । वा॒म् । वि॑जा᳚मातुः । उ॒त । वा॒ । घ॒ । स्या॒लात् ।
अथ᳚ । सोम᳚स्य । प्र॑य᳚ती । यु॒व॑भ्या᳚म् । इन्द्रा᳚ग्नी॒ इति᳚ । स्तोम᳚म् । ज॒न॒या॒मि॒ । नव्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्राग्नी वां युवां भूरिदावत्तरातिशयेन बहुधनस्य दातारावित्यश्रम हि । अश्रौषं खलु । कस्मात्पुरुषात् । विजामातुः । श्रुताभिरूप्यादिभिर्गुणैर्विहीनो जामाता यथा कन्यावते बहु धनं प्रयच्छति कन्यालाभार्थं ततोऽप्यतिशयेन दाताराविंद्राग्नी इत्यर्थः । उत वापि च स्यालात् । स्यं शूर्पम् । तस्माल्लाजानावपति विवाहकाल इति स्यालः कन्याभ्राता । स यथा भगिनीप्रीत्यर्थं बहु धनं प्रयच्छति कन्यालाभार्थं ततोऽप्यतिशयेन दाताराविंद्राग्नी इत्यर्थः । उत वापि च स्यालात् । स्यं शूर्पम् । तस्माल्लाजानावपति विवाहकाल इति स्यालः कन्याभ्राता । स यथा भगिनीप्रीत्यर्थं बहु धनं प्रयच्छति ततोऽप्यतिशयेन दाताराविंद्राग्नी । घेति पादपूरणः । तथा च सत्यथानंतरं हे इंद्राग्नी युवाभ्यां सोमस्य प्रयती अभिषुतस्य सोमस्य प्रदानेन सह नव्यं नवतरं प्रत्यग्रं स्तोमं स्तोत्रं जनयामि । निष्पादयामि । अत्र निरुक्तम् । अश्रौषं हि बहुदात्ततरौ वां विजामातुरसुसमाप्ताज्जामातुः । विजामातेति शश्वद्दाक्षिणाजाः क्रीतापतिमाचक्षतेऽसुसमाप्त इव वरोऽभिप्रेतो जामाता जा अपत्यं तन्निर्माता । उत वा घा स्यालादपि च स्यालात् स्याल आसन्नः संयोगेनेति नैदानाः । स्याल्लाजानावपतीति वा । लाजा लाजतेः स्यं शूर्पं स्यतेः । शूर्पमशनपवनं शृणातेः । शम्नातेर्वा । अथ सोमस्य प्रदानेन युवाध्यामिंद्राग्नी स्तोमं जनयामि नव्यं नवतरम् । सि ६-९ इति ॥ अश्रवम् । श्रु श्रवणे । लङ्युत्तमपुरुषैकवचने बहुलं छंदसीति विकरणस्य लुक् । भूरिदावत्तरा । डुदाञ् दाने । आतो मनिन्निति वनिप् । अतिशयेन भूरिदावा भूरिदावत्तरः । भूरिदाव्नस्तुड्वक्तव्यः । पा ८-२-१७-२ । इति तरपस्तुट् । पद संज्ञायां नलोपः । सुपां सुलुगिति विभक्तेराकारः । घः । ऋचि तुनुघेत्यादिना संहितायां दीर्घत्वम् । अथ । निपातस्य चेति । प्रयती । यम उपरमे । क्तिन्यनुदात्तोपदेशेत्यादिनानुनासिकलोपः । तादौ चेति गतेः प्रकृतिस्वरत्वम् । युवभ्याम् । सर्वे विधयश्छंदसि विकल्प्यंत इति युष्मदस्मदोरनादेश इत्यात्वाभावः । शेषे लोप इति दकारलोपः ॥ २ ॥

1.109.3
मा च्छे᳚द्म र॒श्मी{4}रिति॒ नाध᳚मानाः पितॄ॒णां श॒क्तीर᳚नु॒यच्छ᳚मानाः ।
इ॒न्द्रा॒ग्निभ्यां॒ कं वृष᳚णो मदन्ति॒ ता ह्यद्री᳚ धि॒षणा᳚या उ॒पस्थे᳚ ॥
▶ पदपाठः (Word-by-word)
मा । छे॒द्म॒ । र॒श्मीन् । इति᳚ । नाध᳚मानाः । पि॒तॄ॒णाम् । श॒क्तीः । अ॒नु॒॑यच्छ᳚मानाः ।
इ॒न्द्रा॒ग्नि॑भ्या᳚म् । कम् । वृष᳚णः । म॒द॒न्ति॒ । ता । हि । अद्री॒ इति᳚ । धि॒षणा᳚याः । उ॒प॑स्थे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

रश्मीन् । रश्मिशब्दो रज्जुवाची । यथा रश्मयो दीर्घा अविच्छिन्ना भवंति । एवमविच्छिन्नान्पुत्रपौत्रादीन् मा छेद्म मा विच्छिन्नान्कुर्मेति बुद्द्या नाधमाना इंद्राग्न्योः सकाशात्तथाविधान्पुत्रादीन्याचमानाः । तदनंतरं पितृणां शक्तीः शक्त्युत्पादकान्वीर्योत्पादकांस्तान्पुत्रादीननुयच्छमाना अनुक्रमेण नियतान् कुर्वंतो वृषणः सेक्तारः पुत्रोत्पादनसमर्थाः । सपत्नीका इत्यर्थः । एवंभूता यजमाना इंद्राग्निभ्यां कं सुखं यथा भवति तथा मदंति । स्तुवंति । हि यस्मादद्री शत्रूनादृणंतौ हिंसंतौ विदारयंतौ ताविंद्राग्नी धिषणायाः स्तुत्या उपस्थ उपस्थाने समीपे भवतः । तस्मात्तत्सान्विध्याय स्तुवंतीति भावः । यद्वा निपातानामनेकार्थत्वात् हिशब्दो यदेत्यर्थः । यदा ताविंद्राग्नी उद्दिश्याद्री अभिषवसाधनभूता ग्रावाणो धिषणाया उपस्थे । धिषणाधिषवण चर्म । तस्योपरिष्ठादिंद्राग्न्यर्थं सोममभिषुण्वंति । तदा तदा यजमाना स्तुवंतीति योजनीयं ॥ छेद्म । छिदिर् द्वैधीकरणे । लङि बहुलं छंदसीति विकरणस्य लुक् । छंदस्युभयथेत्यार्धधातुकत्वेन ङित्त्वाभावाल्लघूपधगुणः । न माङ्योग इत्यडभावः । रश्मीन् । दीर्घादट समानपाद इति संहितायां नकारस्य रुत्वम् । अत्रानुनासिकः पूर्वस्य तु वेतीकारः सानुनासिकः । नाधमानाः । णादृ याज्ञायाम् । पितृणाम् । नामन्यतरस्यामिति नाम उदात्तत्वम् । मदंति । मदि स्तुतौ । आगमानुशासनस्यानित्यत्वान्नुमभावः । व्यत्ययेन परस्मैपदं ॥ ३ ॥

1.109.4
यु॒वाभ्यां᳚ दे॒वी धि॒षणा॒ मदा॒येन्द्रा᳚ग्नी॒ सोम᳚मुश॒ती सु᳚नोति ।
ताव᳚श्विना भद्रहस्ता सुपाणी॒ आ धा᳚वतं॒ मधु᳚ना पृ॒ङ्क्तम॒प्सु ॥
▶ पदपाठः (Word-by-word)
यु॒वाभ्या᳚म् । दे॒वी । धि॒षणा᳚ । मदा᳚य । इन्द्रा᳚ग्नी॒ इति᳚ । सोम᳚म् । उ॒श॒ती । सु॒नो॒ति॒ ।
तौ । अ॒श्वि॒ना॒ । भ॒द्र॒॑ह॒स्ता॒ । सु॒पा॒णी॒ इति᳚ सु॑पाणी । आ । धा॒व॒त॒म् । मधु᳚ना । पृ॒ङ्क्तम् । अ॒प्॑सु ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्राग्नी युवाभ्यां मदाय युवयोर्हर्षाय देवी द्योतमानोशती युवां कामयमाना दिषणा मंत्ररूपा वाक् सोममभिषुणोति । यद्वा । धिषणाधिषवणचर्म । द्योतमानं तद्युवयोर्मदं कामयमानं सत्सोममभिषुणोति । ग्रावभिः स्वस्मिन्नभिषवात्तस्याभिषवकर्तृत्वम् । अश्विनाश्ववंतौ भद्रहस्ता शोभनदोर्दंडौ सुपाणी । मणिबंधादूर्द्द्वभागः पाणि । शोभनपाणी एवंभूतौ हे इंद्राग्नी तौ युवामा धावतम् । शीघ्रमागच्छतम् । अगत्य चाप्सूदकेषु वर्तमानेन मधुना माधुर्योपेतेन सारांशेन पृंक्तम् । अस्मदीयं सोमं संयोजयतम् । यद्वा । अप्सु वसतीवरीषु मधुना माधुर्यं संयोजयतम् । विभक्तिव्यत्ययः ॥ युवाभ्याम् । षष्ठ्यर्थे चतुर्थी । उशती । वश कांतौ । अदादित्वाच्छपो लुक् । ग्रहिज्यादिना संप्रसारणम् । उगितश्चेति ङीप् । शतुरनुम इति नद्या उदात्तत्वम् । पृंक्तम् । पृची संपर्के । रौधादिकः । लोट थसस्तम् । श्नसोरल्लोपः । अनुस्वारपरसवर्णौ । न चाचः परस्मिन्नित्यल्लोपस्य स्धानिवत्त्वं न पदांतेत्यादिना निषेधात् ॥ ४ ॥

1.109.5
यु॒वामि᳚न्द्राग्नी॒ वसु᳚नो विभा॒गे त॒वस्त᳚मा शुश्रव वृत्र॒हत्ये᳚ ।
तावा॒सद्या᳚ ब॒र्हिषि᳚ य॒ज्ञे अ॒स्मिन्प्र च᳚र्षणी मादयेथां सु॒तस्य᳚ ॥
▶ पदपाठः (Word-by-word)
यु॒वाम् । इ॒न्द्रा॒ग्नी॒ इति᳚ । वसु᳚नः । वि॒॑भा॒गे । त॒वः॑त᳚मा । शु॒श्र॒व॒ । वृ॒त्र॒॑हत्ये᳚ ।
तौ । आ॒॑सद्य᳚ । ब॒र्हिषि᳚ । य॒ज्ञे । अ॒स्मिन् । प्र । च॒र्ष॒णी॒ इति᳚ । मा॒द॒ये॒था॒म् । सु॒तस्य᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्राग्नी वसुनो धनस्य विभागे स्तोतृभ्यो दातुं विभजने तात्पर्येण वर्तमानौ युवां वृत्रहत्ये वृत्रस्यासुरस्य हनने तवस्तमातिशयेन बलिनौ प्रवृद्थतमौ वा शुश्रव । अश्रौषम् । हे चर्षणी सर्वस्य द्रष्टाराविंद्राग्नी तौयुवामस्मदीयेऽस्मिन्यज्ञे बर्हिषि वेद्यामास्तीर्णे दर्भ आसद्योपविश्य सुतस्याभिषुतस्य सोमस्य पानेन प्रमायेथाम् । प्रकर्षेण तृप्तौ भवतं ॥ विभागे । भज सेवायाम् । भावे घञ् । चचोः कु घिण्ण्यतोरिति कुत्वम् । थाथादिनोत्तरपदांतोदा त्तत्वम् । तवस्तमा । तव इति बलनाम । लुप्तमत्वर्थीयादेतस्मादातिशायनिकस्तमप् । यद्वा । तवतिर्वृद्ध्यर्थः । सौत्रो धातुः । तस्मादौणादिकः कर्तर्यसिप्रत्ययः । सुपां सुलुगिति विभक्तेः पूर्वसवर्णदीर्घत्वम् । वृत्रहत्ये । हनस्त चेति हंतेर्भावे क्यप् । तत्सन्नियोगेन तकारांतादेशश्च । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ ५ ॥

1.109.6
प्र च᳚र्ष॒णिभ्य᳚ः पृतना॒हवे᳚षु॒ प्र पृ᳚थि॒व्या रि᳚रिचाथे दि॒वश्च᳚ ।
प्र सिन्धु᳚भ्य॒ः प्र गि॒रिभ्यो᳚ महि॒त्वा प्रेन्द्रा᳚ग्नी॒ विश्वा॒ भुव॒नात्य॒न्या ॥
▶ पदपाठः (Word-by-word)
प्र । च॒र्ष॒णि॑भ्यः᳚ । पृ॒त॒ना॒॑हवे᳚षु । प्र । पृ॒थि॒व्याः । रि॒रि॒चा॒थे॒ इति᳚ । दि॒वः । च॒ ।
प्र । सिन्धु᳚॑भ्यः । प्र । गि॒रि॑भ्यः᳚ । म॒हि॒॑त्वा । प्र । इ॒न्द्रा॒ग्नी॒ इति᳚ । विश्वा᳚ । भुव᳚ना । अति᳚ । अ॒न्या ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऐंद्राग्नस्य पशोर्हविषः प्र चर्षणिभ्य इत्येषा याज्या । प्रदानानामिति खंडे सूत्रितम् । प्र चर्षणिभ्यः पृतनाहवेष्टा देवो यातु सविता सुरत्नः (आ ३-७) इति ॥

पृतनाहवेषु पृतनासु संग्रामेषु रक्षणार्थमाह्वानेषु सत्सु हे इंद्राग्नी आगतवंतौ युवां चर्षणिभ्यः सर्वेभ्योऽपि मनुष्येभ्यो महित्वा महत्त्वेन प्र रिरिचाथे । अतिरिच्येथे । सर्वाधिकौ भवथ इत्यर्थः । अत्रोपसर्गवशाद्धातुः स्वाभिधेयविपरीतमर्थमाचष्टे यथा प्रस्मरणं प्रस्थानमिति । तथा पृथिद्याः सर्वस्या भूमेश्च प्ररिरिचाथे । एवं द्युप्रभृतिभ्योऽपि । सिंधवः संद्यनशीला आपः । गिरयः पर्वताः । अपि च हे इंद्राग्नी विश्वा भुवना सर्वाणि भूतजातान्यन्योक्तव्यतिरिक्तानि यानि संति तान्यतीत्य प्ररिरिचाथे । अधिकौ भवथः ॥ पृतनाहवेषु । पृतनासु हवः पृतनाहवः । ह्वेञो भावेऽनुपसर्गस्येत्यप् । संप्रसारणं च । व्यत्ययेन थाथादिस्वराभावे कृदुत्तरपदप्रकृतिस्वरत्वम् । रिरिचाथे । रिचिर् विरेचने । छंदसि लुङ् लिङ् लिट इति वर्तमाने लिट् । यद्वा । लट्येव बहुलं छंदसीति विकरणस्य श्लुः । महित्वा । मह पूजायाम् । औणादिक इन्प्रत्ययः । तस्य भावो महित्वम् । सुपां सुलुगिति तृतीयायाडादेशः ॥ ६ ॥

1.109.7
आ भ᳚रतं॒ शिक्ष᳚तं वज्रबाहू अ॒स्मा{4} इ᳚न्द्राग्नी अवतं॒ शची᳚भिः ।
इ॒मे नु ते र॒श्मय॒ः सूर्य᳚स्य॒ येभि᳚ः सपि॒त्वं पि॒तरो᳚ न॒ आस᳚न् ॥
▶ पदपाठः (Word-by-word)
आ । भ॒र॒त॒म् । शिक्ष᳚तम् । व॒ज्र॒बा॒हू॒ इति᳚ वज्र॑बाहू । अ॒स्मान् । इ॒न्द्रा॒ग्नी॒ इति᳚ । अ॒व॒त॒म् । शची᳚भिः ।
इ॒मे । नु । ते । र॒श्मयः᳚ । सूर्य᳚स्य । येभिः᳚ । स॒॑पि॒त्वम् । पि॒तरः᳚ । नः॒ । आस᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वोक्त एव पशावा भरतमित्येषा पुरोडाशस्यानुवाक्या । सूत्रितं च । आ भरतं शिक्षतं वज्रबाहू उभा वामिंद्राग्नी आहुवध्यै ॥ आ ३-७ । इति ॥

हे वज्रबाहू वज्रहस्ताविंद्राग्नी अ भरतम् । अस्मदर्थं धनमाहरतम् । आहृत्य च शिक्षतम् । अस्मभ्यं दत्तम् । शिक्षतिर्दानकर्मा । अपि चास्माननुष्ठातॄन् शचीभिः । कर्मनामैतत् । आत्मीयैः कर्मभिरवतम् । रक्षतम् । किं च सूर्यात्मन इंद्रस्य येभी रश्मिभिर्यैरर्चिभिर्नोऽस्माकं पितरः पूर्वपुरुषाः सपित्वं सहस्राप्तव्यं स्थानमासन् ब्रह्मलोकमगच्चन् । अर्चिरादिमार्गेण हि ब्रह्मलोकमुपासका गच्छंति । तथा च श्रूयते । तेऽर्चिषमभिसंभवंत्यर्चिषोऽहरिति । यद्वा । येभी रश्मिभिः सपित्वम् । समवेतत्वमध्यगच्छन् । ते रश्मय इमे नु इदानीमस्माभिर्दृश्यमाना एत एव खलु । सूर्यात्मन इंद्रस्य ये रश्मयस्त एवाग्नेरपि । तथा च श्रूयते । अग्निं वावादित्यः सायं प्रविशति तस्मादग्निर्दूरान्नक्तं ददृशे । तै ब्रा २-१-२-९ । इति । तस्मात्सूर्यस्य रश्मीनां स्तवनेनेंद्राग्न्योरुभयोरपि स्तुतिः सिद्धा ॥ भरतम् । हृग्रहोर्भ इति भत्वम् । शिक्षतम् । शिक्ष विद्योपादाने । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे शपः पित्त्वादनुदात्तत्वम् । धातुस्वरः शिष्यते । तिङः परत्वान्निघाताभावः । सपित्वम् । अप्लृ व्याप्तौ । अस्मात्सशब्दोपपदात्कृत्यार्थे तवैकेनिति त्वन्प्रत्ययः । पृषोदरादित्वाद्धातोः पिभावः । यद्वा । षप समवाये । इन्सर्वधातुभ्य इतीन् । सषेर्भावः सपित्वम् । असन् । अस गतिदीप्त्यादानेषु । लङ्याडागम उदात्तः । यद्वृत्तान्नित्यमिति निघाताभावः ॥ ७ ॥

1.109.8
पुरं᳚दरा॒ शिक्ष᳚तं वज्रहस्ता॒स्मा{4} इ᳚न्द्राग्नी अवतं॒ भरे᳚षु ।
तन्नो᳚ मि॒त्रो वरु᳚णो मामहन्ता॒मदि᳚ति॒ः सिन्धु᳚ः पृथि॒वी उ॒त द्यौः ॥
▶ पदपाठः (Word-by-word)
पुर᳚म्॑दरा । शिक्ष᳚तम् । व॒ज्र॒॑ह॒स्ता॒ । अ॒स्मान् । इ॒न्द्रा॒ग्नी॒ इति᳚ । अ॒व॒त॒म् । भरे᳚षु ।
तत् । नः॒ । मि॒त्रः । वरु᳚णः । म॒म॒ह॒न्ता॒म् । अदि᳚तिः । सिन्धुः᳚ । पृ॒थि॒वी । उ॒त । द्यौः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वज्रहस्ता हस्तेन गृहीतवज्रौ । पुरंदरासुरपुराणां दारयिताराविंद्राग्नी शिक्षतम् । अस्मदपेक्षितं धनं प्रयच्छतम् । अपि च भरेषु संग्रामेष्वस्मानवतम् । रक्षतम् । यदनेन सूक्तेन प्रार्थितं तदस्मदीयं मित्रादयो ममहंताम् । पूजयंतां ॥ पुरंदरा । पूःसर्वयोर्दारिसहोः (पा ३-२-४१) इति खच् । वाचंयमपुरंदरौ च (पा ६-३-६९) इति निपातनादम् । सुपां सुलुगिति विभक्तेराकारः ॥ ८ ॥