श्रवणम्

1.109.5
यु॒वामि᳚न्द्राग्नी॒ वसु᳚नो विभा॒गे त॒वस्त᳚मा शुश्रव वृत्र॒हत्ये᳚ ।
तावा॒सद्या᳚ ब॒र्हिषि᳚ य॒ज्ञे अ॒स्मिन्प्र च᳚र्षणी मादयेथां सु॒तस्य᳚ ॥
▶ पदपाठः (Word-by-word)
यु॒वाम् । इ॒न्द्रा॒ग्नी॒ इति᳚ । वसु᳚नः । वि॒॑भा॒गे । त॒वः॑त᳚मा । शु॒श्र॒व॒ । वृ॒त्र॒॑हत्ये᳚ ।
तौ । आ॒॑सद्य᳚ । ब॒र्हिषि᳚ । य॒ज्ञे । अ॒स्मिन् । प्र । च॒र्ष॒णी॒ इति᳚ । मा॒द॒ये॒था॒म् । सु॒तस्य᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्राग्नी वसुनो धनस्य विभागे स्तोतृभ्यो दातुं विभजने तात्पर्येण वर्तमानौ युवां वृत्रहत्ये वृत्रस्यासुरस्य हनने तवस्तमातिशयेन बलिनौ प्रवृद्थतमौ वा शुश्रव । अश्रौषम् । हे चर्षणी सर्वस्य द्रष्टाराविंद्राग्नी तौयुवामस्मदीयेऽस्मिन्यज्ञे बर्हिषि वेद्यामास्तीर्णे दर्भ आसद्योपविश्य सुतस्याभिषुतस्य सोमस्य पानेन प्रमायेथाम् । प्रकर्षेण तृप्तौ भवतं ॥ विभागे । भज सेवायाम् । भावे घञ् । चचोः कु घिण्ण्यतोरिति कुत्वम् । थाथादिनोत्तरपदांतोदा त्तत्वम् । तवस्तमा । तव इति बलनाम । लुप्तमत्वर्थीयादेतस्मादातिशायनिकस्तमप् । यद्वा । तवतिर्वृद्ध्यर्थः । सौत्रो धातुः । तस्मादौणादिकः कर्तर्यसिप्रत्ययः । सुपां सुलुगिति विभक्तेः पूर्वसवर्णदीर्घत्वम् । वृत्रहत्ये । हनस्त चेति हंतेर्भावे क्यप् । तत्सन्नियोगेन तकारांतादेशश्च । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ ५ ॥