श्रवणम्

1.109.6
प्र च᳚र्ष॒णिभ्य᳚ः पृतना॒हवे᳚षु॒ प्र पृ᳚थि॒व्या रि᳚रिचाथे दि॒वश्च᳚ ।
प्र सिन्धु᳚भ्य॒ः प्र गि॒रिभ्यो᳚ महि॒त्वा प्रेन्द्रा᳚ग्नी॒ विश्वा॒ भुव॒नात्य॒न्या ॥
▶ पदपाठः (Word-by-word)
प्र । च॒र्ष॒णि॑भ्यः᳚ । पृ॒त॒ना॒॑हवे᳚षु । प्र । पृ॒थि॒व्याः । रि॒रि॒चा॒थे॒ इति᳚ । दि॒वः । च॒ ।
प्र । सिन्धु᳚॑भ्यः । प्र । गि॒रि॑भ्यः᳚ । म॒हि॒॑त्वा । प्र । इ॒न्द्रा॒ग्नी॒ इति᳚ । विश्वा᳚ । भुव᳚ना । अति᳚ । अ॒न्या ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऐंद्राग्नस्य पशोर्हविषः प्र चर्षणिभ्य इत्येषा याज्या । प्रदानानामिति खंडे सूत्रितम् । प्र चर्षणिभ्यः पृतनाहवेष्टा देवो यातु सविता सुरत्नः (आ ३-७) इति ॥

पृतनाहवेषु पृतनासु संग्रामेषु रक्षणार्थमाह्वानेषु सत्सु हे इंद्राग्नी आगतवंतौ युवां चर्षणिभ्यः सर्वेभ्योऽपि मनुष्येभ्यो महित्वा महत्त्वेन प्र रिरिचाथे । अतिरिच्येथे । सर्वाधिकौ भवथ इत्यर्थः । अत्रोपसर्गवशाद्धातुः स्वाभिधेयविपरीतमर्थमाचष्टे यथा प्रस्मरणं प्रस्थानमिति । तथा पृथिद्याः सर्वस्या भूमेश्च प्ररिरिचाथे । एवं द्युप्रभृतिभ्योऽपि । सिंधवः संद्यनशीला आपः । गिरयः पर्वताः । अपि च हे इंद्राग्नी विश्वा भुवना सर्वाणि भूतजातान्यन्योक्तव्यतिरिक्तानि यानि संति तान्यतीत्य प्ररिरिचाथे । अधिकौ भवथः ॥ पृतनाहवेषु । पृतनासु हवः पृतनाहवः । ह्वेञो भावेऽनुपसर्गस्येत्यप् । संप्रसारणं च । व्यत्ययेन थाथादिस्वराभावे कृदुत्तरपदप्रकृतिस्वरत्वम् । रिरिचाथे । रिचिर् विरेचने । छंदसि लुङ् लिङ् लिट इति वर्तमाने लिट् । यद्वा । लट्येव बहुलं छंदसीति विकरणस्य श्लुः । महित्वा । मह पूजायाम् । औणादिक इन्प्रत्ययः । तस्य भावो महित्वम् । सुपां सुलुगिति तृतीयायाडादेशः ॥ ६ ॥