ताव᳚श्विना भद्रहस्ता सुपाणी॒ आ धा᳚वतं॒ मधु᳚ना पृ॒ङ्क्तम॒प्सु ॥
पदपाठः (Word-by-word)
तौ । अ॒श्वि॒ना॒ । भ॒द्र॒॑ह॒स्ता॒ । सु॒पा॒णी॒ इति᳚ सु॑पाणी । आ । धा॒व॒त॒म् । मधु᳚ना । पृ॒ङ्क्तम् । अ॒प्॑सु ॥
सायणभाष्यम् (Sayana Commentary)
हे इंद्राग्नी युवाभ्यां मदाय युवयोर्हर्षाय देवी द्योतमानोशती युवां कामयमाना दिषणा मंत्ररूपा वाक् सोममभिषुणोति । यद्वा । धिषणाधिषवणचर्म । द्योतमानं तद्युवयोर्मदं कामयमानं सत्सोममभिषुणोति । ग्रावभिः स्वस्मिन्नभिषवात्तस्याभिषवकर्तृत्वम् । अश्विनाश्ववंतौ भद्रहस्ता शोभनदोर्दंडौ सुपाणी । मणिबंधादूर्द्द्वभागः पाणि । शोभनपाणी एवंभूतौ हे इंद्राग्नी तौ युवामा धावतम् । शीघ्रमागच्छतम् । अगत्य चाप्सूदकेषु वर्तमानेन मधुना माधुर्योपेतेन सारांशेन पृंक्तम् । अस्मदीयं सोमं संयोजयतम् । यद्वा । अप्सु वसतीवरीषु मधुना माधुर्यं संयोजयतम् । विभक्तिव्यत्ययः ॥ युवाभ्याम् । षष्ठ्यर्थे चतुर्थी । उशती । वश कांतौ । अदादित्वाच्छपो लुक् । ग्रहिज्यादिना संप्रसारणम् । उगितश्चेति ङीप् । शतुरनुम इति नद्या उदात्तत्वम् । पृंक्तम् । पृची संपर्के । रौधादिकः । लोट थसस्तम् । श्नसोरल्लोपः । अनुस्वारपरसवर्णौ । न चाचः परस्मिन्नित्यल्लोपस्य स्धानिवत्त्वं न पदांतेत्यादिना निषेधात् ॥ ४ ॥