प्रथमं मण्डलम् - सूक्तम् 33

15 ऋचः

ऋषिः: हिरण्यस्तूप आंगिरसः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 1.33 - सम्पूर्णम्

1 / 15
ऋक्: 1.33.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (15)
1.33.1 समानपद
एताया॒मोप᳚ ग॒व्यन्त॒ इन्द्र᳚म॒स्माकं॒ सु प्रम᳚तिं वावृधाति ।
अ॒ना॒मृ॒णः कु॒विदाद॒स्य रा॒यो गवां॒ केतं॒ पर᳚मा॒वर्ज᳚ते नः ॥
▶ पदपाठः (Word-by-word)
आ । इ॒त॒ । अया᳚म । उप᳚ । ग॒व्यन्तः᳚ । इन्द्र᳚म् । अ॒स्माक᳚म् । सु । प्र॑म᳚तिम् । व॒वृ॒धा॒ति॒ ।
अ॒ना॒मृ॒णः । कु॒वित् । आत् । अ॒स्य । रा॒यः । गवा᳚म् । केत᳚म् । पर᳚म् । आ॒॑वर्ज᳚ते । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवाः परस्परमेवं कथयंति । हे देवा गव्यंतः पणिनामकेनासुरेणापहृता अस्मदीया गाः प्राप्तुमिच्छंतो यूयमेत । आगच्छत । युष्माभिः सहिता वयमिंद्रं गवानयनक्षममुपायाम । प्राप्नुवाम । स चेंद्रोऽनामृणो हिंसकरहितः सन्नस्माकं देवानां प्रमतिं गोलाभेन हर्षयित्वा प्रकृष्टां बुद्धिं सु ववृधाति । सुष्टु वर्धयति । आदनंतरं स इंद्रोऽस्य रायो धनस्य गवां गोरूपस्य संबंधि परं केतमुत्कष्टं ज्ञानं नोऽस्माकं कुविदावर्जते । अधिकं प्रापयति ॥ इत । इण् गतौ अदादित्वाच्छपो लुक् । अयाम । एतेर्लोडुत्तमबहुवचन आडुत्तमस्य पिच्चेत्याडागमः । पिद्वद्भावात्सार्वधातुकलक्षणे गुणेऽयादेशः । न चेणो यण् (पा ६-४-८१) इति यणादेशः । मध्येऽपवादाः पूर्वान्विधीन्बाधंते । परि ६० । इति वचनात्तस्येयङादेशापवादत्वात् । अतः परत्वाद्गुणेन यणादेशो बाध्यते । पिद्वद्भावात्प्रत्ययस्यानुदात्तत्वे धातुस्वरेणाद्युदात्तत्वम् । गव्यंतः । गा आत्मन इच्छंतः । सुप आत्मनः क्यजिति गोशब्दात्कर्मणः क्यच् । वांतो यि प्रत्यये (पा ६-१-७९) इत्यवादेशः । प्रत्ययांताद्धातोर्लिटः शतृ । तस्यादुपदेशाल्लसार्वधातुकानुत्तत्वे धातुस्वरः । प्रमतिम् । मन्यतेः क्तिन्यनुदात्तोपदेशेत्यादिनानुनासिकलोपः । तादौ चेति गतेः प्रकृतिस्वरत्वम् । ववृधाति । वृधु वृद्धौ । लेट्याडागमः । बहुलं छंदसीति शपः श्लुः । संहितायामभ्या

सस्य दीर्घश्छांदसः । अनामृणः । मृण हिंसायाम् । मृणंति हिंसंतीति मृणाः । इगुपधलक्षणः कः । न संत्यामृणा अस्येति बहुव्रीहौ नञ् सुभ्यामित्युत्तरपदांतोत्तत्वम् । अस्य रायः । ऊडिदमित्युभयत्र विभक्तेरुदात्तत्वम् । गवाम् । सावेकाच इति प्राप्तस्य विभक्त्युदात्तस्य न गोश्वन्साववर्णेति प्रतिषेधः । केतम् । कित ज्ञाने । घञंत आद्युदात्तः । आवर्जते । वृजी वर्जने । अदादित्वाच्छवो लुकि प्राप्ते बहुलं छंदसीति तदभावः । शपः पित्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकत्वेन धातुस्वरः । तिङि चोदात्तवतीति गतेरनुदात्तत्वम् । कुविद्योगान्निपातैर्यद्यदिहंतेत्यादिना निघातप्रतिषेधः ॥ १ ॥

1.33.2
उपेद॒हं ध᳚न॒दामप्र᳚तीतं॒ जुष्टां॒ न श्ये॒नो व᳚स॒तिं प᳚तामि ।
इन्द्रं᳚ नम॒स्यन्नु᳚प॒मेभि᳚र॒र्कैर्यः स्तो॒तृभ्यो॒ हव्यो॒ अस्ति॒ याम᳚न् ॥
▶ पदपाठः (Word-by-word)
उप᳚ । इत् । अ॒हम् । ध॒न॒॑दाम् । अप्र᳚ति॑इतम् । जुष्टा᳚म् । न । श्ये॒नः । व॒स॒तिम् । प॒ता॒मि॒ ।
इन्द्र᳚म् । न॒म॒स्यन् । उ॒प॒॑मेभिः᳚ । अ॒र्कैः । यः । स्तो॒तृ॑भ्यः᳚ । हव्यः᳚ । अस्ति᳚ । याम᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

य इंद्रः स्तोतृभ्यः स्तोतृणा मनुष्ठातृणामनुग्रहार्थं यामन् तदीयशत्रुभिः सह प्रवृत्ते युद्धे हव्योऽस्ति तैराह्वातव्यो भवति तमिंद्रमहमनुष्ठातोपेत्पातामि । उपाप्नोम्येव । किं कुर्वन् । उपमेभिरुपमानस्थानीयैरुत्तमैरर्कृः स्तोत्रैः सह नमस्यन् पूजयन् । कीदृशमिंद्रम् । धनदां धनप्रदं अप्रतीतमप्रतिगतम् । बलिभिरतिरस्कृतमित्यर्थः । इंद्रप्राप्तौ दृष्टांतः । जुष्टां पूर्वैः सेवितां वसतिं स्वकीयनीडरूपां निवासभूमिं श्यॆनो न । यथा श्येननामको वेगवान्पक्षि स्वकीयस्थानं प्रत्यादरेण धावतित द्वदहमिंद्रं त्वरया प्पाप्नोमि ॥ धनदाम् । धनं ददातीति धनदाः । आतो मनिन्नित्यादिना विच् । अप्रतीतम् । शत्रुभिर्न प्रतिगतम् । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । जुष्टाम् । जुषी प्रीतिसेवनयोः । श्वीदितो निष्ठायाम् (पा ७-२-१४) इतीट् प्रतिषेधः । नित्यं मंत्रे (पा ६-१-२१०) इत्याद्युदात्तत्वम् । पतामि । लेट्याडागमः । नमस्यन् । नुमस्शब्दात्पूजार्थे । नमोवरिवः (पा ३-१-१९) इति क्यच् । प्रत्ययस्वरः । अदुपदेशाल्लसार्वधातुकानुदात्तस्यैकादेशस्वरेणोदात्तत्वम् । उपमीयंत एभिरित्युपमाः । माङ् माने । घञर्थॆ कविधानम् । पा ३-३-५८-४ । इति कः । बहुलं छंदसीति भिस ऐसादेशाभावः । कृदुत्तरपदप्रकृतिस्वरत्वम् । हव्यः ह्वेञो बहुलं छंदसीति संप्रसारणम् । अचो यदिति यत् । गुणो धातोस्तन्निमित्तस्यैव (पा ६-१-८०) इत्यवादेशः । यतोऽनाव इत्याद्युदात्तत्वम् । यामन् । या प्रापणे । मनिनो नित्त्वादाद्युदात्तत्वम् । सुपां सुलुगिति सप्तम्या लुक् ॥ २ ॥

1.33.3 समानपद
नि सर्व᳚सेन इषु॒धी{4}र᳚सक्त॒ सम॒र्यो गा अ᳚जति॒ यस्य॒ वष्टि᳚ ।
चो॒ष्कू॒यमा᳚ण इन्द्र॒ भूरि᳚ वा॒मं मा प॒णिर्भू᳚र॒स्मदधि᳚ प्रवृद्ध ॥
▶ पदपाठः (Word-by-word)
नि । सर्व᳚॑सेनः । इ॒षु॒॑धीन् । अ॒स॒क्त॒ । सम् । अ॒र्यः । गाः । अ॒ज॒ति॒ । यस्य᳚ । वष्टि᳚ ।
चो॒ष्कू॒यमा᳚णः । इ॒न्द्र॒ । भूरि᳚ । वा॒मम् । मा । प॒णिः । भूः॒ । अ॒स्मत् । अधि᳚ । प्र॒॑वृ॒द्ध॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सर्वसेनः कृत्स्नसेनायुक्त इषुधीन्बाणानामाधारभूतान्निषंगान्न्यसक्त । नितरां पृष्ठभागे संयोजितवान् । अर्यः स्वामिरूप इंद्रो यस्य देवस्य वष्टि असुरेणापहृता गाः प्रदातुं कामयते तस्य देवस्य गृहे ता गाः समजति । सम्यक् । प्रापयति । हे प्रवृद्ध प्रकृष्टवृद्धियुक्तेंद्र भूरि वामं प्रभूतं गोरूपं धनं चोष्कूयमाणोऽस्मभ्यं प्रयच्छन् अस्मदध्यस्मासु पणिर्मा भूः । व्यवहारी मा भूयाः गवां मूल्यं मा याचस्वेत्यर्थः ॥ सर्वसेनः । इनेन सह वर्तत इति सेना । वोपसर्जनस्येति सभावः । सर्वा सरणशीला सेना यस्येति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । प्रत्ययलक्षणेनाप्ययम् । स्वर इष्यते । का ६-१-१९१ । इति वचनात्प्रत्ययलक्षणेन सर्वस्य सुपि (पा ६-१-१९१) इति सर्वशब्द आद्युदात्तः । इषुधीन् । इषव एषु धीयंत इतीषुधयः । कर्मण्यधिकरणे च (पा ३-३-९३) इति किप्रत्ययः । संहितायां दीर्घादटीत्यादीना नकारस्य रुत्वम् । अत्रानुनासिकः पूर्वस्य तु वा (पा ८-३-२) इति पूर्वस्वरोऽनुनासिकः । असक्तः । षच समवाये । बहुलं छंदसीति शपो लुक् । अर्यः । अर्यःस्वामिवैश्ययोः पा ३-१-१०३ । इति यत्प्रत्ययांतो निपातितः । अर्यस्य स्वाम्याख्या चेत् (फि १-१८) इत्यंतोदात्तत्वम् । अजति । अज गतिक्षेपणयोः । वष्टि । वश कांतौ । अदादित्वाच्छपो लुक् । व्रश्चादिषत्वे ष्टुत्वम् । चोष्कूयमाणः । स्कुञ् आप्रवणे । धातोरेकाच इति यङ् । अकृत्सार्वधातुकयोर्दीर्घः । द्विर्वचने शर्पूर्वाः खयः (पा ७-४-६१) इति ककारः शिष्यते । सकारो लुप्यते । कुहोश्चुरिति चुत्वे गुणो यङ् लुकोरिति गुणः । सुषामादित्वात् षत्वम् । यङंताल्लटः शानच् । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । भूः । गातिस्थेति सिचो लुक् ॥ ३ ॥

1.33.4
वधी॒र्हि दस्युं᳚ ध॒निनं᳚ घ॒नेन{4}॒ एक॒श्चर᳚न्नुपशा॒केभि᳚रिन्द्र ।
धनो॒रधि᳚ विषु॒णक्ते व्या᳚य॒न्नय᳚ज्वानः सन॒काः प्रेति᳚मीयुः ॥
▶ पदपाठः (Word-by-word)
वधीः᳚ । हि । दस्यु᳚म् । ध॒निन᳚म् । घ॒नेन᳚ । एकः᳚ । चर᳚न् । उ॒प॒॑शा॒केभिः᳚ । इ॒न्द्र॒ ।
धनोः᳚ । अधि᳚ । वि॒षु॒णक् । ते । वि । आ॒य॒न् । अय᳚ज्वानः । स॒न॒काः । प्र॑इ᳚तिम् । ई॒युः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र धनिनं बहुधनोपेतं दस्युं चोरं वृत्रं घनेन कठिनेन वज्रेण वधीर्हि । त्वं हतवान्खलु । धनित्वं वाजसनेयिनोऽपि स्पष्टमामनंति । वृत्रस्यांतः सर्वे देवाः सर्वाश्च विद्याः सर्वाणि हवींषि चासन्निति । उपशाकेभिः समीपवर्तिभिः शक्तियुक्तैर्मरुद्भिः सहितो भूत्वैकश्चरन् । प्रहर्तुं स्वयमेक एव गच्छन् । यद्यपि मरुतः समीपे वर्तंते तथापि ते प्रोत्साहयंत्येव न तु वृत्रं प्रहरंति । प्रहर्ता तु स्वयमेक एव । तथा च ब्राह्मणे समाम्नातम् । मरुतो हैनं नाजहुः प्रहर भगवो वीरयस्वेत्येवैनमेतां वाचं वदंत उपातिष्ठंत । ऐ ब्रा ३-२० । इति । धनोरधि इंद्रसंबंधिनो धनुष उपरि विषुणक् विविधं नाशमुद्धिश्य यद्वा विष्टक् सर्वतस्ते वृत्रानुचरा व्यायन् । विविधमागच्छन् । आगत्य चायज्वानो यज्वविरोधिनः संतः सनका एतन्नामका वृत्रानुचराः प्रेतिमीयुः । मरणं प्राप्ताः ॥ वधीः । हन हिंसागत्योः । लुङि च (पा २-४-४३) इति वधादेशः । स चादंतः । तस्यातो लोप इति लोपे सति स्थानिवद्भावादतो हलादेः (पा ७-२-७) इति वृद्ध्यभावः । इट ईट (पा ८-२-२८) इति सिचो लोपः । आगमानुदात्तत्वे धात्वकारस्योदात्तत्वम् । घनेन एकः । ईषा अक्षादिषु च्छंदसि प्रकृतिभावमात्रं वक्तव्यम् । पा ६-१-१२७-२ । इति संहितायां प्रकृतिभावः । अनुनासिक-श्छांदसः । उपशाकेभिः । उपशक्तं कुर्वंतीत्युपशाकाः । शक्लृ शक्तौ । अस्माद्धेतुमण्यंतात्पचाद्यच् । थाथादिस्वरेणोत्तरपदांतोदात्तत्वम् । विषुणक् । विषुपूर्वान्नशेः । संपदादिलक्षणः क्विप् । नशेर्वा (पा ८-२-६३) इति कुत्वम् । यद्वा । विषुपूर्वस्यांचतेर्नुडागमः । सनका इत्यसुराणां नाम । षणुदाने । सन्वंति ददातीति सना दातारः । पचाद्यच् । सनान्कायंति शब्दयंतीति सनकाः । आतोऽनुपसर्गे कः । आतो लोप इट चेत्याकारलोपः । कृदुत्तरपदप्रकृतिस्वरत्वम् । प्रेतिम् । तादौ च नितीति गतेः प्रकृतिस्वरत्वम् । ईयुः । एतेरुसिपरत्वादिणो यणिति यणादेशे द्विर्वचनेऽचीति स्थानिवद्भावादिकारस्य द्विर्वचनम् । दीर्घ इणः किति (पा ७-४-६९) इत्यभ्यासस्य दीर्घत्वं ॥ ४ ॥

1.33.5
परा᳚ चिच्छी॒र्षा व᳚वृजु॒स्त इ॒न्द्राय᳚ज्वानो॒ यज्व᳚भि॒ः स्पर्ध᳚मानाः ।
प्र यद्दि॒वो ह᳚रिवः स्थातरुग्र॒ निर᳚व्र॒ता{4} अ᳚धमो॒ रोद᳚स्योः ॥
▶ पदपाठः (Word-by-word)
परा᳚ । चि॒त् । शी॒र्षा । व॒वृ॒जुः॒ । ते । इ॒न्द्र॒ । अय᳚ज्वानः । यज्व᳚॑भिः । स्पर्ध᳚मानाः ।
प्र । यत् । दि॒वः । ह॒रि॒॑वः॒ । स्था॒तः॒ । उ॒ग्र॒ । निः । अ॒व्र॒तान् । अ॒ध॒मः॒ । रोद᳚स्योः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र ते वृत्रानुचराः शीर्षा स्वकीयानि शिरांसि परा चित् पराज्मुखान्येव कृत्वा ववृजुः । गतवंतः । कीदृशास्ते । अयज्वानः स्वयं यागरहिताः प्रत्युत यज्वभिर्यागानुष्ठातृभिः सह स्पर्धमानाः । हे हरिवो हरिनामकाश्वयुक्त स्थातः स्थितियुक्त युद्धे पलायनरहित उग्र शौर्ययुक्तेंद्र यद्यदा दिवोंऽतरिक्षाद्रोदस्योर्द्यावापृथिव्योः सकाशाच्चाव्रतान्व्रतरहितान्वृत्रानुचरान्निष्प्राधमो निःशेषेण धमनं कृतवानसि । तदानीं त्वदीयमुखवायुना नुन्नाः संतो ववृजुरिति पूर्वत्रान्वयः ॥ शिर्षा । शेश्छंदसि बहुलमिति शेर्लोपः । ववृजुः । वृजी वर्जने । असंयोगाल्लिट् कित् (पा १-२-५) इति कित्त्वाद्गुणाभावः । अयज्वानः । यजतेः सुयजोर्ङ्वनिप् (पा ३-२-१०३) इति भूते ङ्वनिप्प्रत्ययस्य पित्वादनुदात्तत्वे धातुस्वसेणाद्युदात्तत्वम् । नञ् समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । दिवः । ऊडिदमिति विभक्तेरुदात्तत्वम् । हरिवः । हरी अस्य स्त इति हरिवान् । छंदसीर इति मतुपो वत्वम् । संबुद्धौ मतुवसोरिति रुत्वम् । अव्रतान् । बहुव्रीहौ नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । दीर्घादटीति संहितायां नकारस्य रुत्वम् । आतोऽट नित्यमिति सानुनासिक आकारः । अधमः । ध्मा शब्दाग्निसंयोगयोः । लङि सिपि शपि पाघ्रेत्यादिना धमादेशः ॥ १ ॥ ५ ॥

1.33.6
अयु᳚युत्सन्ननव॒द्यस्य॒ सेना॒मया᳚तयन्त क्षि॒तयो॒ नव᳚ग्वाः ।
वृ॒षा॒युधो॒ न वध्र᳚यो॒ निर᳚ष्टाः प्र॒वद्भि॒रिन्द्रा᳚च्चि॒तय᳚न्त आयन् ॥
▶ पदपाठः (Word-by-word)
अयु᳚युत्सन् । अ॒न॒व॒द्यस्य᳚ । सेना᳚म् । अया᳚तयन्त । क्षि॒तयः᳚ । नव᳚॑ग्वाः ।
वृ॒ष॒॑युधः᳚ । न । वध्र᳚यः । निः॑अ᳚ष्टाः । प्र॒वत्॑भिः᳚ । इन्द्रा᳚त् । चि॒तय᳚न्तः । आ॒य॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनवद्यस्य गर्हणीयदोषरहितस्येंद्रस्य सेनां प्रत्ययुयुत्सन् । वृत्रस्यानुचरा योद्धुमैच्छन् । तदानीं नवग्वा नवनीयगतयः स्तोतव्यचरित्राः । यद्वा । अंगिरसां सत्रमासीनानां मध्ये ये नवभिर्मासैरवाप्तफला उत्थितास्तेषां नवग्वा इति संज्ञा । नवग्वासः सुतसोमास इद्रम् । ऋग्वे ५-२९-१२ । इत्यादिषु तथाभिहितत्वात् । क्षितयो मनुष्या अंगिरःप्रभृतयः । क्षितयः कृष्टय इति तन्नामसु पाठात् । अयातयंत । युध्धार्थमिंद्रं नानाविधैर्मंत्रै प्रोत्साहितवंतः । इंद्रे योद्धुं गते सति निरष्टास्तेनेंद्रण निराकृता वृत्रानुचराश्चितयंतः स्वकीयामशक्तिं ज्ञापयंत इंद्रादिंद्रस्य सकाशात्प्रवद्भिः प्रवणैः पालयितुं सुशकैर्मार्गैरायन् । दूरे गतवंतः । तत्र दृष्टांतः । वृषायुधो वृषेण सेचनसमर्थेन पुंस्त्वयुक्तेन शूरेण सह युद्धं कुर्वंतो वध्रयो न नपुंसका इव । निसर्गपंडो वध्रिश्चेत्यादिस्मृतिषु प्रयोगात् । ते यथा प्रबलेन दूरे निराकृता भवंति तद्वत् ॥ अयुयुत्सन् । युध संप्रहारे । सनि हलंताच्च (पा १-२-१०) इति सनः कित्त्वाद्गुणाभावः । एकाच उपदेशेऽनुदात्तात् (पा ७-२-१०) इतीट् प्रतिषेधः । व्यत्ययेन परस्मैपदम् । सेनाम् । इनेन सह वर्तत इति सेना वोपसर्जनस्येति सहशब्दस्य सभावः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । आयातयंत । यती प्रयत्ने । हेतुमति चेति णिच् । क्षितयः । क्षि निवासगत्योः । क्षियंति गच्छंतीति क्षितयो मनुष्याः । क्तिच् क्तौ च संज्ञायामिति क्तिच् । नवग्वाः । नवभिर्मासैर्गच्छंतीति नवग्वाः । गमेरौणादिको ड्वप्रत्ययः । यद्वा । क्विपि गमः क्तौ (पा ६-४-४०) इत्यनुनासिकलोप ऊ च गमादीनामिति वक्तव्यम् । पा ६-४-४०-२ । इत्यकारस्य ऊकारः । जस्योः सुपि (पा ६-४-८३) इति यणादेशः । दीर्घश्चांदसः । वृषायुधः । क्विप्चेति क्विप् । क्विप्चेत्यत्र सोमपदेभ्यो निरुपपदेभ्यः । का ३-२-७६ । इत्युक्तत्वादत्र सोपपदेभ्यः क्विप् । अन्येषामपि दृश्यत इति पूर्वपदस्य संहितायां दीर्घः । निरष्टाः । अशू व्याप्तौ । भावे निष्ठा । यस्य विभाषेतीट् प्रतिषेधः । व्रश्चादिना षत्वे ष्टुत्वम् । निसा च बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । यद्वा । निरस्ता इत्यत्र सकारस्य षत्वं छांदसम् । तदानीमस्ता इत्येतत्कर्मणि निष्ठेति गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । प्रवद्भिः । वन षण संभक्तौ । अस्मात्प्रपूर्वात् क्विप् । गमादीनामिति वक्तव्यम् । पा ६-४-४०-१ । इत्यनुनासिकलोपः । ततस्तुक् । कृदुत्तरपदप्रकृतिस्वरत्वम् । चितयंतः । चिती संज्ञाने । अस्माण्यंताल्लटः शतृ । शप् अनित्यमागमशासनमिति वचनाल्लघूपधगुणाभावः ॥ ६ ॥

1.33.7
त्वमे॒तान्रु᳚द॒तो जक्ष᳚त॒श्चायो᳚धयो॒ रज᳚स इन्द्र पा॒रे ।
अवा᳚दहो दि॒व आ दस्यु᳚मु॒च्चा प्र सु᳚न्व॒तः स्तु᳚व॒तः शंस᳚मावः ॥
▶ पदपाठः (Word-by-word)
त्वम् । ए॒तान् । रु॒द॒तः । जक्ष᳚तः । च॒ । अयो᳚धयः । रज᳚सः । इ॒न्द्र॒ । पा॒रे ।
अव᳚ । अ॒द॒हः॒ । दि॒वः । आ । दस्यु᳚म् । उ॒च्चा । प्र । सु॒न्व॒तः । स्तु॒व॒तः । शंस᳚म् । आ॒वः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र त्वं रुदतो रोदनं कुर्वतो जक्षतो भक्षणं हसनं वा कुर्वतश्चैतान् द्विविधानपि वृत्रानुचरान्रजसः पारेऽंतरिक्षस्य परभागे । रजः शब्दोंऽतरिक्षवाची लोका रजांस्युच्यंते (नि ४-१९) इत्युक्तत्वात् । अयो धयः युद्धमकरोः । युद्धेन मारितवानित्यर्थः । दस्युमुपक्षयितारं वृत्रं दिव आ द्युलोकादानीयोच्चोत्कर्षेणावादहः । दग्धवानसि । वृत्रं सपरिवारं विनाश्य तत ऊर्ध्वं सुन्वतः सोमभिषवं कुर्वतः स्तुवतः स्तोत्रं कुर्वतो यजमानस्य शंसं स्तुतिप्रावः । प्रकर्षेण रक्षितवानसि ॥ रुदतः । रुदिर् अश्रुविमोचने । लटः शतृ । अदादित्वाच्छपो लुक् । प्रत्ययस्वरेणांतोगात्तत्वम् । शतुरनुम इति शस उदात्तत्वम् । जक्षतः । जक्ष भक्षहसनयोः । पूर्ववच्छपो लुक् । जक्षित्यादयः षट् । पा ६-१-६ ॥ इत्यभ्यस्तसंज्ञा । अतोऽभ्यस्तानामादिरित्याद्युदात्तत्वंसुन्वतः । सुनोतेः शतरि स्वादिभ्यः श्नुः । हुश्नुवोरित्यादिना यणादेशः । शतुरनुम इति विभक्तेरुदात्तत्वम् । स्तुवतः । ष्टुञ् स्तुतौ । अदादित्वाच्छपो लुक् । उवङादेशः । पूर्ववत्स्वरः ॥ ७ ॥

1.33.8
च॒क्रा॒णासः᳚ परी॒णहं᳚ पृथि॒व्या हिर᳚ण्येन म॒णिना॒ शुम्भ᳚मानाः ।
न हि᳚न्वा॒नास᳚स्तितिरु॒स्त इन्द्रं॒ परि॒ स्पशो᳚ अदधा॒त्सूर्ये᳚ण ॥
▶ पदपाठः (Word-by-word)
च॒क्रा॒णासः᳚ । प॒रि॒॑नह᳚म् । पृ॒थि॒व्याः । हिर᳚ण्येन । म॒णिना᳚ । शुम्भ᳚मानाः ।
न । हि॒न्वा॒नासः᳚ । ति॒ति॒रुः॒ । ते । इन्द्र᳚म् । परि᳚ । स्पशः᳚ । अ॒द॒धा॒त् । सूर्ये᳚ण ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये वृत्रानुचराः पृथिव्या भूमेः परीणहमाच्छादनं सर्वतो व्याप्तिं चक्राणासः कुर्वाणा हिरण्येन हिरण्ययुक्तेन मणिना कंठबाह्वादिगतेन मण्याद्याभरणेन शुंभमानाः शोभमाना हिन्वानासो वर्धमानाः संतो वर्तंते ते तथाविधा वृत्रानुचरा इंद्रं युद्धायोद्यंतं न तितिरुः । जेतुं न समर्था आसन् । तदानीं स इंद्रः स्पशो बाधकान्वृत्वानुचरान् सूर्येणादित्येन पर्यदधात् । परिहितान् व्यवहितानकरोत् । तथा च ब्राह्मणम् । आदित्यो ह्येवोद्यन् पुरस्ता द्रक्षांस्यपहंतीति ॥ चक्राणासः । करोतेश्छंदसि लिडिति वर्तमाने लिटः कानच् । ततोऽसुक् । चित इत्यंतोदात्तत्वम् । परीणहम् । परिणहनं परीणत् । परिपूर्वान्न ह्यतेर्भावे क्विपि नहिवृतीत्यादिना (पा ६-३-११६) पूर्वपदस्य दीर्घः । पृथिव्याः । उदात्तयण इति विभक्तेरुदात्तत्वम् । हिन्वानासः । हि गतौ वृद्धौ च । ताच्छीलिकश्चानश् । तितिरुः । तिरतिर्गत्यर्थः ॥ ८ ॥

1.33.9
परि॒ यदि᳚न्द्र॒ रोद᳚सी उ॒भे अबु᳚भोजीर्महि॒ना वि॒श्वतः᳚ सीम् ।
अम᳚न्यमाना{4} अ॒भि मन्य᳚मानै॒र्निर्ब्र॒ह्मभि᳚रधमो॒ दस्यु᳚मिन्द्र ॥
▶ पदपाठः (Word-by-word)
परि᳚ । यत् । इ॒न्द्र॒ । रोद᳚सी॒ इति᳚ । उ॒भे इति᳚ । अबु᳚भोजीः । म॒हि॒ना । वि॒श्वतः᳚ । सी॒म् ।
अम᳚न्यमानान् । अ॒भि । मन्य᳚मानैः । निः । ब्र॒ह्म॑भिः᳚ । अ॒ध॒मः॒ । दस्यु᳚म् । इ॒न्द्र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र यद्यदा रोदसी उभे द्युलोकभूलोकावुभौ महिना त्वदीयेन महिम्ना विश्वतः सीं सर्वतः परिगृह्य पर्यबुभोजीः परितो भुक्तवानसि । तदानीं त्वममन्यमानान् मंत्रार्थमनुध्यातुमशक्तानपि केवलपाठकान्यजमानानभि मन्यमानैरस्मदीया एते यजमाना रक्षणीया इत्यभिमानं कुर्वद्भिर्ब्रह्मभिर्मंत्रैर्दस्युं चोरं वृत्रादिरूपमसुरं निरधमः । निःसारितवानसि । धमतिर्गतिकर्मा (नि ६-२) इति यास्कः । अबुभोजीः । भुज पालनाभ्यवहारयोः । लङि सिपि बहुलं छंदसि (पा २-४-७६) इति विकरणस्य श्लुः । बहुलं छंदसि (पा ७-३-९७) इतीडागमः । आडुदात्तः । यद्वृत्तयोगादनिघातः । महिना । महिम्ना । महच्छब्दात्पृथ्वादिलक्षणो भावे इमनिच् । टीरिति टलोपः । तृतीयै कवचनेऽल्लोपे सत्युदात्तनिवृत्तिस्वरेणोदात्तत्वम् । मलोपश्छांदसः । आमन्यमानान् । मन्यंते जानंतीति मन्यमानाः । मन ज्ञाने । दिवादिभ्यः श्यन् । श्यनो नित्त्वादाद्युदात्तत्वम् । समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । संहितायां रुत्वानुनासिकावुक्तौ ॥ ९ ॥

1.33.10 समानपद
न ये दि॒वः पृ᳚थि॒व्या अन्त᳚मा॒पुर्न मा॒याभि᳚र्धन॒दां प॒र्यभू᳚वन् ।
युजं॒ वज्रं᳚ वृष॒भश्च᳚क्र॒ इन्द्रो॒ निर्ज्योति᳚षा॒ तम᳚सो॒ गा अ᳚दुक्षत् ॥
▶ पदपाठः (Word-by-word)
न । ये । दि॒वः । पृ॒थि॒व्याः । अन्त᳚म् । आ॒पुः । न । मा॒याभिः᳚ । ध॒न॒॑दाम् । प॒रि॒॑अभू᳚वन् ।
युज᳚म् । वज्र᳚म् । वृ॒ष॒भः । च॒क्रे॒ । इन्द्रः᳚ । निः । ज्योति᳚षा । तम᳚सः । गाः । अ॒धु॒क्ष॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये जलविशेषा दिवो द्युलोकात्पृथिव्या अंतं भूमेः स्थानं नापुर्न प्राप्ताः । मेघरूपमापन्नेन वृत्रेण निरुद्धत्वात् । अत एव भूमिप्राप्त्यभावाद्धनदां धनप्रदां भूमिं मायाभिः सस्योपकारादिभिः कर्मभिर्न पर्यभूवन् । परितो न व्याप्ताः । जलपानसस्याभिवृद्ध्याद्युपकारं न चक्रुरित्यर्थः । तदानीमयमिंद्रो मेघभेदनाय वज्रं युजं स्वहस्तयुक्तं चक्रे । ततो ज्योतिषा द्योतमानेन वज्रेण तमस अंधकाररूपान्मेघाद्गा गमनशीलान्युदकानि निरधुक्षत् । निःशेषेण दुग्धवान् । मेघं भित्वा जलं वृष्टवानित्यर्थः ॥ दिवः । ऊडिदमिति षष्ठ्या उदात्तत्वम् । आपुः । आप्लृ व्याप्तौ । लिट्युसि रूपम् । यद्वृत्तयोगादनिघातः । पर्यभूवन् । आत्रापि यच्छब्धस्यानुषंगान्निघाताभावः । युजम् । युजिर् योगे । ऋत्विगित्यादिना क्विन् । अनित्यमागमशासनमिति वचनान्नुमभावः । अधुक्षत् । दुह प्रपूरणे । लुङि शलइगुपधादनिटः क्सः (पा ३-१-४५) इति च्लेः क्सादेशः । दादेर्धा तोर्घः (पा ८-२-३२) इति घत्वम् । एकाचो बश इत्यादिना (पा ८-३-३७) भष्भावः । संहितायां भष्भावाभावश्छांदसः ॥ २ ॥ १० ॥

1.33.11 समानपद
अनु᳚ स्व॒धाम᳚क्षर॒न्नापो᳚ अ॒स्याव᳚र्धत॒ मध्य॒ आ ना॒व्या᳚नाम् ।
स॒ध्री॒चीने᳚न॒ मन᳚सा॒ तमिन्द्र॒ ओजि᳚ष्ठेन॒ हन्म᳚नाहन्न॒भि द्यून् ॥
▶ पदपाठः (Word-by-word)
अनु᳚ । स्व॒धाम् । अ॒क्ष॒र॒न् । आपः᳚ । अ॒स्य॒ । अव᳚र्धत । मध्ये᳚ । आ । ना॒व्या᳚नाम् ।
स॒ध्री॒चीने᳚न । मन᳚सा । तम् । इन्द्रः᳚ । ओजि᳚ष्ठेन । हन्म᳚ना । अ॒ह॒न् । अ॒भि । द्यून् ॥
▶ सायणभाष्यम् (Sayana Commentary)

आपो जलान्यस्येंद्रस्य स्वधामन्नं व्रीह्यादिरूपमनुलक्ष्याक्षरन् । मेघाद्वृष्टा अभवन् । तदानीमयं वृत्रो नाव्यानां नावा तरणयोग्यानां बह्वीनामपा मध्ये आ समंतादवर्धत । वृद्धिं प्राप्तः । प्रभूतजले वर्तमानोऽपि न ममार । किंत्वभिवृद्ध एव । तदानीमिंद्रः सध्रीचेनेन सहगच्छता मनसा युक्तं तं वृत्रमोजिष्ठेनातिबलयुक्तेन हन्मना हननसाधनेन वज्रेणाभि द्यून् कतिचिद्दिवसानभिलक्ष्याहन् । तेषु दिवसेषु हतवान् । जलमध्ये पतितस्यापि वृत्रस्य मनो यत्रेंद्रस्तिष्ठति तत्रैव सह गच्छति तादृसमभिज्ञाय स हतवानित्यर्थः ॥ अक्षरन् । क्षर संचलने । नाव्यानाम् । नावा तार्याणाम् । नौवयोधर्मेत्यादिना (पा ४-४-९१) यत् । वांतो यि प्रत्यये (पा ६-१-७९) इत्यावादेशः । अनाव इति पर्युदा सात् (पा ६-१-२१३) तित्स्वरितमिति प्रत्ययस्वरितत्वम् । सध्रीचीनेन सहांचतीति सध्र्यङ् । सहस्य सध्रीः (पा ६-३-९५) इति सध्र्यादेशः । विभाषांचेरदिक्स्त्रियाम् (पा ५-४-७८) इति स्वार्थे खप्रत्ययः । तस्यायन्नित्यादिना ईनादेशः । अच इत्यकारलोपे चाविति दीर्घत्वम् । खादेशस्योपदेशिवद्वचनादीकार उदात्तः । ओजिष्ठेन । ओजोऽस्यास्तीत्योजस्वी । अस्मायामेधेति विनिः । तत आतिशायनिक इष्ठन् । विन्मतोर्लुगिति विनो लुक् । टेरिति टलोपः । नित्त्वादाद्युदात्तत्वम् । हन्मना । हन्यतेऽनेनेति हन्म । अन्येभ्योऽपि दृश्यंत इति दृशिग्रहणात्करणेऽपि मनिन् । नित्त्वादाद्युदात्तत्वम् । तृतीयैकवचनेऽल्लोपे प्राप्ते न संयोगाद्वमंतात् (पा ६-४-१३७) इति प्रतिषेधः ॥ ११ ॥

1.33.12 समानपद
न्या᳚विध्यदिली॒बिश᳚स्य दृ॒ळ्हा वि शृ॒ङ्गिण᳚मभिन॒च्छुष्ण॒मिन्द्र᳚ः ।
याव॒त्तरो᳚ मघव॒न्याव॒दोजो॒ वज्रे᳚ण॒ शत्रु᳚मवधीः पृत॒न्युम् ॥
▶ पदपाठः (Word-by-word)
नि । अ॒वि॒ध्य॒त् । इ॒ली॒बिश᳚स्य । दृ॒ळ्हा । वि । शृ॒ङ्गिण᳚म् । अ॒भि॒न॒त् । शुष्ण᳚म् । इन्द्रः᳚ ।
याव᳚त् । तरः᳚ । म॒घ॒॑व॒न् । याव᳚त् । ओजः᳚ । वज्रे᳚ण । शत्रु᳚म् । अ॒व॒धीः॒ । पृ॒त॒न्युम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इलीबिशस्य इलाया भूमेर्बिले शयानस्य वृत्रस्य संबंधीनि । इलाबिलशयस्येति यास्कः (नि ६-१९) दृळ्हा दृंहितान्यसुरेण निरुद्धानि प्रभूतान्युदकानींद्रो न्यविध्यत् । नितरां विद्धवान् । यद्वा । दृळ्हानि प्रबलानि सैन्यानि नितरां विद्धवान् । तत ऊर्ध्वं शृंगिणं गोमहिषादिशृंगसमानैरायुधैरुपेतं शुष्णं जगतः शोषकं वृत्रं व्यभिनत् । विविधं ताडितवान् । हे मघवन् धनयुक्तेंद्र तव यावत्तरो यावान्वेगोऽस्ति यावदोचो यावद्बलमस्ति तेन सर्वेण युक्तस्त्वं पृतन्युं पृतनां युद्धमिच्छंतं शत्रुं वृत्रं वज्रेणावधीः । हतवानसि ॥ अविध्यत् । व्यध ताडने । श्यनि ग्रहिज्येत्यादिना संप्रसारणम् । तिङ्ङतिङ इति निघात उदात्तस्वरितयोर्यण इति संहितायामडागमस्य स्वरितत्वम् । इलीबिशस्य । पृषोदरादित्वादभिमतरूपस्वरसिद्धिः । दृळ्हा । दृंहेर्निष्ठायां दृढः स्थूलबलयोः (पा ७-२-२०) इति निपात्यते । शेश्छंदसि बहुलमिति शेर्लोपः । अभिनत् । भिदिर् । विदारणे । लङि रुधादिभ्यः श्नम् । इतश्चेतीकारलोपे हल्द्याब्भ्य इति तिलोपः । शुष्णम् । शुष शोषणे । शोषयतीति शुष्णः । तृषिशुषिरसिभ्यः किच्च (उ ३-१२) इति न प्रत्ययः । निदित्यनुवृत्तेराद्युदात्तत्वम् । अवधीः । लुङि चेति हंतेर्वधादेशः । पृतन्युम् । पृतनाशब्यात्क्यचि कव्यध्वर पृतनस्येत्यंत्यलोपः । काच्छंदसीत्युप्रत्ययः ॥ १२ ॥

1.33.13 समानपद
अ॒भि सि॒ध्मो अ᳚जिगादस्य॒ शत्रू॒न्वि ति॒ग्मेन᳚ वृष॒भेणा॒ पुरो᳚॑भेत् ।
सं वज्रे᳚णासृजद्वृ॒त्रमिन्द्र॒ः प्र स्वां म॒तिम᳚तिर॒च्छाश᳚दानः ॥
▶ पदपाठः (Word-by-word)
अ॒भि । सि॒ध्मः । अ॒जि॒गा॒त् । अ॒स्य॒ । शत्रू᳚न् । वि । ति॒ग्मेन᳚ । वृ॒ष॒भेण᳚ । पुरः᳚ । अ॒भे॒त् ।
सम् । वज्रे᳚ण । अ॒सृ॒ज॒त् । वृ॒त्रम् । इन्द्रः᳚ । प्र । स्वाम् । म॒तिम् । अ॒ति॒र॒त् । शाश᳚दानः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्येंद्रस्य सिध्मः साधको वज्रः शत्रूनभि इंद्रवैरिणोऽभिलक्ष्याजिगात् । गतवान् । जिगातिर्गतिकर्मा । गाति जिगातीति गतिकर्मसु पाठात् । स चेंद्रस्तिग्मेन तीक्ष्णेन वृषभेण श्रेष्ठेनायुधेन तेन वज्रेण पुरो वृत्रस्य पुराणि व्यभेत् । विविधं भिन्नवान् । ततः स इंद्रो वज्रेन स्वकीयेन वृत्रं समसृजत् । संयोजितवान् । संयोज्य च शाशदानो वृत्रं हिंसन् स्वां मतिं स्वकीयां हर्षोपेतां बुद्धिं प्रातिरत् । प्रकर्षेण वर्धितवान् ॥ सिध्मः । षिधु संराध्धौ । अस्मादौणादिको मक् । कित्त्वादगुणः । प्रत्ययस्वरः । अजिगात् । गा स्तुतौ । अत्र तु गत्यर्थः । जुहोत्यादित्वात् श्लुः । द्विर्भावे बहुलं छंदसीत्यभ्यासस्येत्वम् । तिग्मेन । युजिरुचितिजां कुश्च (उ १-१४५) इति मक् । कुत्वम् । वृषभेण । ऋषिवृषिभ्यां कित् (उ ३-१२३) इत्यनेनाभच् । अभेत् । भिदिर् विदारणे । श्नमि प्राप्ते व्यत्ययेन शप् । तस्य बहुलं छंदसीति लुक् । लघूपधगुणे हल्ङ्याब्भ्य इति लोपः । यद्वा । लुङि च्लेर्लुक् । आतिरत् । प्रपूर्वस्तिरतिव र्धनार्थः । यद्वा । तरतेर्व्यत्ययेन शः । ऋत इद्धातोरितीत्वम् । शाशदानः । शद्लृ शातने । अस्माद्यङंताच्छानच् । तस्य छंदस्युभयथेत्यार्धधातुकत्वादतोलोपयलोपौ । सार्वधातुकत्वादभ्यस्तानामादिरित्याद्युदात्तत्वं ॥ १३ ॥

1.33.14
आव॒ः कुत्स᳚मिन्द्र॒ यस्मि᳚ञ्चा॒कन्प्रावो॒ युध्य᳚न्तं वृष॒भं दश᳚द्युम् ।
श॒फच्यु᳚तो रे॒णुर्न᳚क्षत॒ द्यामुच्छ्वै᳚त्रे॒यो नृ॒षाह्या᳚य तस्थौ ॥
▶ पदपाठः (Word-by-word)
आवः᳚ । कुत्स᳚म् । इ॒न्द्र॒ । यस्मि᳚न् । चा॒कन् । प्र । आ॒वः॒ । युध्य᳚न्तम् । वृ॒ष॒भम् । दश᳚॑द्युम् ।
श॒फ॑च्यु᳚तः । रे॒णुः । न॒क्ष॒त॒ । द्याम् । उत् । श्वै॒त्रे॒यः । नृ॒॑सह्या᳚य । त॒स्थौ॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र कुत्समेतन्नामकं गोत्रप्रवर्तकमृषिमावः । रक्षितवानसि । यस्मिन्कुत्से चाकन् स्तुतिं कामयमानो वर्तसे । तं कुत्समिति पूर्वत्रान्वयः । तथा दशद्युमेतन्नामकं दशसु दिक्षु दीप्यमानमृषिं प्रावः । प्रकर्षेणः रक्षितवानसि ॥ कीदृशम् । युद्ध्यंतं स्वकीयैः शत्रुभिः सह युध्धं कुर्वंतं वृषभं गुणैः श्रेष्ठम् । शफच्युतस्त्वदीयाश्वस्य शफात्पतितो रेणुर्धूलिद्यां द्युलोकं नक्षत । प्राप्नोति । श्वैत्रेयः । श्वित्राख्याया योषितः पुत्रः पुरा शत्रुभयाज्जले मग्नः सन् त्वदनुग्रहान्नृसह्याय नृभिः पुरुषैः सोढव्यायोत्तस्थौ । जलादुत्थितवान् ॥ चाकन् । चक तृप्तौ । अस्माण्यंताच्छतृ । छंदस्युभयथेत्यार्धधातुकत्वाणिलोपः शबभावश्च । प्रत्ययस्वरेणांतोदात्त्तत्वम् । यद्वा । कमु कांतावित्यस्माद्यङ् लुगंताल्लङि सिप्यभ्यासस्य नुमभावश्छांदसः । दीर्घोऽकित इति दीर्घत्वम् । सिलोपे मो नो धातोः (पा ८-२-६४) इति मकारस्य नकारः । धातुस्वरः । यद्वृत्तयोगादनिघातः । युध्यंतम् । व्यत्ययेन परस्मैपदम् । दशद्युम् । दीव्यतेः प्रकाशार्थात्संपदादिलक्षणः क्विप् । फ्वोः शूडित्यूट् । दशसु दिक्षु दुर्यस्यासौ दशद्युः । छांदसं ह्रस्वत्वम् । यद्वा । द्युशबोऽहर्नामसु पठितः । तेन प्रवृत्तिनिमित्तभूतः प्रकाशो लक्ष्यते । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । शफच्युतः शफेन च्युतः । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम् । नक्षत । नक्ष गतौ । व्यत्ययेनात्मनेपदम् । श्वैत्रेयः । श्वित्राया अपत्यम् । स्त्रीभ्यो ढक् (पा ४-१-१२०) नृसह्याय शक्तिसहोश्च (पा ३-१-९९) इति कर्मणि यत् । यतोऽनाव इत्याद्युदात्तत्वम् । समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । पूर्वपदात् (पा ८-३-१०६) इति षत्वम् । संहितायां दीर्घश्छांदसः ॥ १४ ॥

1.33.15
आव॒ः शमं᳚ वृष॒भं तुग्र्या᳚सु क्षेत्रजे॒षे म᳚घव॒ञ्छ्वित्र्यं॒ गाम् ।
ज्योक्चि॒दत्र᳚ तस्थि॒वांसो᳚ अक्रञ्छत्रूय॒तामध᳚रा॒ वेद᳚नाकः ॥
▶ पदपाठः (Word-by-word)
आवः᳚ । शम᳚म् । वृ॒ष॒भम् । तुग्र्या᳚सु । क्षे॒त्र॒॑जे॒षे । म॒घ॒॑व॒न् । श्वित्र्य᳚म् । गाम् ।
ज्योक् । चि॒त् । अत्र᳚ । त॒स्थि॒॑वांसः᳚ । अ॒क्र॒न् । श॒त्रु॒॑य॒ताम् । अध᳚रा । वेद᳚ना । अ॒क॒रित्य᳚कः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मघवन् धनवन्निंद्र श्वित्र्यं श्वित्रायाः पुत्रं पूर्वोक्तं पुरुषमावः । रक्षितवानसि । किमर्थम् । क्षेत्रजेषे शत्रुभिः सह युद्धवेलायां क्षेत्रप्राप्त्यर्थम् । कीदृशम् । शमं त्वदीयपरिपालनेन चित्तव्याकुलतां परित्यज्य शांतं वृषभं गुणैः श्रेष्ठं तुग्र्यासु गां जलेषु गतम् । मग्नमित्यर्थः । तुग्र्या बुर्बुरमित्युदकनामसु पठितत्वात् । अत्रास्माभिः सह युद्धे ज्योक् चित् चिरकालमपि तस्थिवांसोऽवस्थिताः संतोऽक्रन् । ये वैरिणः शत्रुत्वमकुर्वन् शत्रूयतां शत्रूनात्मन इच्छतां तेषामधरा वेदना निकृष्टानि दुःखानि त्वमकः । कुरु ॥ तुग्रशब्दोंऽतरिक्षवचनः । तत्र भवास्तुग्रियाः तुग्राद्घन् (पा ४-४-११५) इति घन् । तस्येयादेशः । इकारलोपश्छांदसः । नित्त्वादाद्युदात्तत्वम् । क्षेत्रजेषे । जेषृ णेषृ एषृ प्रेषृ गतौ । अस्मात्संपदादिलक्षणः क्विप् । क्षेत्रस्य जेट् क्षेत्रचेट् । समासांतोदात्तत्वम् । अंतोदात्तादात्तरपदादित्यादिना (पा ६-१-१६९) विभक्तेरुदात्तत्वम् । श्वित्र्यम् । श्वित्रायां भवः । भवे छंदसीति यत् । यतोऽनाव इत्याद्युदात्तत्वम् । तस्थिवांसः । तिष्ठतेः क्वसुः वस्वेकाजाद्घसामितीडागमः । अक्रन् । करोतेर्लुङि मंत्रे घसेत्यादिना च्लेर्लुक् । शत्रूयताम् । शत्रूनात्मन इच्छंतीति शत्रूयंतः । सुपआत्मनः क्यजिति क्यच् । तदंताच्छतृ । तस्य लसार्वधातुकानुदात्तत्व एकादेशस्वरेणोदात्तत्वम् । तस्य च पूर्वत्रासिद्धत्वं नेष्यते । पा ८-२-६-१ । इत्युक्तत्वाच्छत्रंतमंतोदात्तत्वमिति शतुरनुमो नद्यजादी इति विभक्तेरुदात्तत्वम् । अधरा वेदनेत्युभयत्र शेश्छंदसि बहुलमिति शेर्लोपः । अकः । करोतेर्लुङि मंत्रे घसेत्यादिना चेर्लुक् गुणः ॥ ३ ॥ १५ ॥