प्रथमं मण्डलम् - सूक्तम् 120

12 ऋचः

ऋषिः: कक्षीवान् दैर्घतमस औशिजः देवता: अश्विनौ छन्दः: गायत्री

सूक्तम् 1.120 - सम्पूर्णम्

1 / 12
ऋक्: 1.120.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (12)
1.120.1
का रा᳚ध॒द्धोत्रा᳚श्विना वां॒ को वां॒ जोष᳚ उ॒भयो᳚ः ।
क॒था वि᳚धा॒त्यप्र᳚चेताः ॥
▶ पदपाठः (Word-by-word)
का । रा॒ध॒त् । होत्रा᳚ । अ॒श्वि॒ना॒ । वा॒म् । कः । वा॒म् । जोषे᳚ । उ॒भयोः᳚ ।
क॒था । वि॒धा॒ति॒ । अप्र᳚॑चेताः ॥
▶ सायणभाष्यम् (Sayana Commentary)

का राधदिति द्वादशर्चं पंचमं सूक्तम् । अत्रानुक्रम्यते । का राधद्द्वादशांत्या दुःस्वप्ननाशन्याद्या गायत्री द्वितीया ककुप् तृतीयाचतुर्थ्यौ काविराण्नष्टरूप्यौ पंचमी तनुशिरा षष्ठ्यक्षरैरुष्टिग्विष्टारबृहती कृतिर्विराट् तिस्रो गायत्र्य इति । अस्यायमर्थः । अनुवृत्तेरौशिजो दैर्घतमसः कक्षीवानृषिः । आद्या गायत्री । विद्वांसावित्येषा ककुप् मध्यमपादस्य द्वादशाक्षरत्वात् । मध्यमश्चेत्ककुप् । अनु ५-३ । इति हि तल्लक्षणम् । तृतीया ता विद्वांसेत्येषा काविराट् । नवकयोर्मध्ये जागतः काविराट् । अनु ६-५ । इत्युक्तलक्षणोपेतत्वात् । चतुर्थी वि पृच्छामीत्येषा नष्टरूपी । नववैराजत्रयोदशैर्नष्टरूपी । अनु ६-६ । इत्युक्तलक्षणोपेतत्वात् । प्र या घोष इत्येषा पंचमी तनुशिरा । एकादशिनोः परः षट्कस्तनुशिरा । अनु ५-५ । इत्युक्तलक्षणोपेतत्वात् । श्रुतं गायत्रमित्येषां षष्ठी यद्यपि पादसंख्य योष्णिङ्न भवति तथाप्यक्षरसंख्ययोष्मिक् । युवं हीति सप्तमी विष्टारबृहती । अष्टिनोर्मध्ये दशकौ विष्टारबृहती । अनु ७-५ । इति तल्लक्षणोपेतत्वात् । मा कस्मा इत्यष्टमी कृतिः । जागतावष्टकश्च कृतिः । अनु ६-अ । इत्युक्तलक्षणसद्भावात् । दुहीयन्निति नवमी विराट् । दशम्याद्यास्तिस्रो गायत्र्यः आश्विनं वै इति वैशब्द प्रयोगात्तुह्यादिपरिभाषयेदमपि सूक्तमाश्विनम् । आध स्वप्नस्येत्यंत्यया दुःस्वप्ननाशनं प्रतिपाद्यते । अतो या तेनोच्यते सा देवता । अनु २-५ । इति न्यायेन तदेव देवता ॥ सूक्तविनियोगो लैंगिकः । घर्माभिष्टव आदितो नवर्चो विनियुक्ताः । सूत्र्यते हि । का राधद्धोत्राश्विना वामिति नवा भात्यग्निः । अ ४-६ । इति ॥ का राधद्धोत्राश्विना वामिन नव विच्छंदसः । ऐ । ब्रा । १-२१ । इत्यादिकं ब्राह्मणमनुसंधेयं ॥

अश्विना हे अश्विनौ वां युवां का होत्रा । वाङ्नामैतत् । कीदृशी स्तुतिलक्षणा वाग्राधत् । आराधयति । प्रीतौ करोति । युवयोर्माहात्म्यानुरूपा स्तुतिर्नास्तीत्यर्थः । किंच वां युवयोरुभयोर्जोषे जोषणे सेवने प्रीपने वा समर्थः कः स्तोता विद्यते । यष्मद्गुणाभिज्ञः कश्चिदपि नास्तीत्यर्थः । अप्रचेता युवयोर्माहात्म्यमजानंश्च कथा केन प्रकारेण विधाति । युवां परिचरति । युष्मद्विषयं परिचरणमपि न कर्तुं शक्यमित्यर्थः ॥ राधत् । राधसाध संसिद्धौ । लेट्यडागमः । जोषे । जुषी प्रीतिसेवनयोः । भावे घञ् । ञित्त्वादाद्युदात्तत्वम् । कथा । था हेतौ च छंदसीति किंशब्दात्प्रकारवचने था प्रत्ययः । किमः क इति कादेशः । विधाति । विध विधाने । तौदादिकः । लेट्याडागमः । अप्रचेताः । प्रकृष्टं चेतो यस्यासौ प्रचेताः । नञ्समासेऽव्ययपूर्वपद प्रकृतिस्वरत्वं ॥ १ ॥

1.120.2
वि॒द्वांसा॒विद्दुरः᳚ पृच्छे॒दवि᳚द्वानि॒त्थाप᳚रो अचे॒ताः ।
नू चि॒न्नु मर्ते॒ अक्रौ᳚ ॥
▶ पदपाठः (Word-by-word)
वि॒द्वांसौ᳚ । इत् । दुरः᳚ । पृ॒च्छे॒त् । अवि᳚द्वान् । इ॒त्था । अप᳚रः । अ॒चे॒ताः ।
नु । चि॒त् । नु । मर्ते᳚ । अक्रौ᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इत्थेत्थमनेन पूर्वोक्तप्रकारेणाविद्वानज्ञः स्तोता विद्वांसावित् सर्वज्ञावश्विनावेव दुरो द्वाराणि स्तुतिपरिचरणयोरुपायभूतान्मार्गान्पृच्छेत् । प्रष्टुमर्हति । अपरोऽश्विभ्यामन्यः सर्वोऽप्यचेताः । चेतसा ज्ञानेन रहितः । तस्मादश्विनावेव पृच्छेदित्यर्थः । तौ चाक्रौ शत्रुभिरनाक्रांतावश्विनौ नू चित् क्षिप्रमेव मर्ते मनुष्ये स्तोतरि भक्तानुग्राहकतया सनिं धत्त इति वाक्यशेषः ॥ इत्था । था हेतौ च छंदसीति थाप्रत्ययः । इदम इश् । एतेतौ रथोः (पा ५-३-४) इतीद्भावः । यदि था हेतौ चेत्यत्रेदंशब्दस्य नानुवृत्तिस्तदानीमिदमस्थमुः । एतदंतात्परस्या विभक्तेर्व्यत्ययेन सुपां सुलुगिति विभक्तेर्डादेशः । अक्रौ । क्रमु पादविक्षेपे । अस्मान्न ञ्युपपदे कृत्यल्युटो बहुलमिति बहुलवचनात्कर्मण्यपि जनसनखनक्रमगमो विडिति विट् । विड्वनोरनुनासिकस्यादित्यात्वम् । नञ्स् मासेऽव्ययपूर्वपदप्रकृतिस्वरत्वं ॥ २ ॥

1.120.3
ता वि॒द्वांसा᳚ हवामहे वां॒ ता नो᳚ वि॒द्वांसा॒ मन्म᳚ वोचेतम॒द्य ।
प्रार्च॒द्दय᳚मानो यु॒वाकु᳚ः ॥
▶ पदपाठः (Word-by-word)
ता । वि॒द्वांसा᳚ । ह॒वा॒म॒हे॒ । वा॒म् । ता । नः॒ । वि॒द्वांसा᳚ । मन्म᳚ । वो॒चे॒त॒म् । अ॒द्य ।
प्र । आ॒र्च॒त् । दय᳚मानः । यु॒वाकुः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ विद्वांसा सर्वज्ञौ ता वां तौ युवां हवामहे । आह्वयामहे । तावाहूतौ विद्वांसाभिज्ञौ युवां नोऽस्मभ्यं मन्म मननीयं ज्ञातव्यं स्तोत्रमद्यास्मिन्काले वो चेतम् । ब्रुवाणौ भूयास्तम् । स चाहं युवाकुर्युवां कामयमानः स्तुत्या संयोजयन्वा दयमानो युवाभ्यां हविः प्रयच्छन् प्रार्चत् । प्रार्चम् । प्रकर्षेण स्तौमि ॥ ता । सुपां सुलुगिति विभक्तेराकारः । वोचेतम् । ब्रूञ् व्यक्तायां वाचि । ब्रुवो वचिः । लिङ्शाशिष्यङ् । वच उमित्युमागमः । अर्चत् । अर्च पूजायाम् । भौवादिकः । तिङां तिङो भवंतीति मिपस्तिबादेशः । दयमानः । दय दानगतिरक्षणहिंसादानेषु । शपः पित्त्वादनुदात्तत्वम् । शानचो लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । युवाकुः । युवां कामयत इति युवाकुः । मितद्र्वादिभ्य उपसंख्यानम् । पा ३-२-१८०-१ । इति डुप्रत्ययः । अविभक्तावपि व्यत्ययेन युवावौ द्विवचन इति युवादेश आत्वं च । यद्वा । यु मिश्रणे । औणादिकः काकुप्रत्ययः ॥ ३ ॥

1.120.4
वि पृ᳚च्छामि पा॒क्या॒३॒᳚ न दे॒वान्वष᳚ट्कृतस्याद्भु॒तस्य᳚ दस्रा ।
पा॒तं च॒ सह्य᳚सो यु॒वं च॒ रभ्य᳚सो नः ॥
▶ पदपाठः (Word-by-word)
वि । पृ॒च्छा॒मि॒ । पा॒क्या᳚ । न । दे॒वान् । वष᳚ट्॑कृतस्य । अ॒द्भु॒तस्य᳚ । द॒स्रा॒ ।
पा॒तम् । च॒ । सह्य᳚सः । यु॒वम् । च॒ । रभ्य᳚सः । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ युवां वि पृच्छामि । विशेषेण प्रष्टुमिच्छामि । पाक्या न पक्तव्यप्रज्ञान् स्वपरिपक्वमतीनन्यान्देवान्न पृच्छामि । किंतु युवामेव सर्वज्ञौ पृच्छामीत्यर्थः । हे दस्रा दर्शनीयौ तौ युवां वषट्कतस्यृ वषट्कारेणाग्नौ हुतस्याद्भुतस्याश्चर्यभूतस्य महतः सह्यसोऽतिशयेन बलवशो बलोत्पादकस्य सोमस्य स्वांशलक्षणमेकदेशं पातं च । नोऽस्मांश्च रभ्यसोऽतिशयेन रभस्विनः प्रौढोद्यमान्कुरुतं ॥ पाक्का । पचेर्ऋहलोर्ण्यत् । चचोः कु घिण्ण्यतोरिति कुत्वम् । तित्स्वरः । सुपां सुलुगिति विभक्तेर्डादेशः । वषट्कृतस्य । वषट् शब्दस्योर्यादित्वेन गतित्वाद्गतिरनंतर इति गतेः पृकृतिस्वरत्वम् । पातम् । पा पाने । बहुलं छंदसीति शपो लुक् । सह्यसः । सहतेऽभिभवत्यनेनेति सहो बलम् । असुन् तदस्यास्तीति सहस्वी । मत्वर्थीयो विनिः । तत आतिशायनिक ईयसुन् । विन्मतोर्लुक् । छांदस ईकारलोपः । रभ्यसः । रभ राभस्ये । राभस्यं कार्योपक्रमः । पूर्ववत्प्रक्रियोन्नेया ॥ ४ ॥

1.120.5
प्र या घोषे॒ भृग᳚वाणे॒ न शोभे॒ यया᳚ वा॒चा यज᳚ति पज्रि॒यो वा᳚म् ।
प्रैष॒युर्न वि॒द्वान् ॥
▶ पदपाठः (Word-by-word)
प्र । या । घोषे᳚ । भृग᳚वाणे । न । शोभे᳚ । यया᳚ । वा॒चा । यज᳚ति । प॒ज्रि॒यः । वा॒म् ।
प्र । इ॒ष॒॑युः । न । वि॒द्वान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ प्र भवति समर्था भवति सा वाक् या वाग्युष्मत्स्तुतिरूपा घोषे घोषाख्यायाः पुत्रे सुहस्त्याख्यं ऋषौ भृगवाणे न भृगौ च शोभे शोभते । यया च स्तुतिलक्षणया वाचा पज्रियः । पज्रा अंगिरसः । तेषां कुलोत्पन्नः । कक्षीवान्वां युवां यजति पूजयति स्तौति । सापि शोभत इत्यर्थः । इषयुर्न इषमन्नमात्मनः कामयमानश्च विद्वान् स्तुत्यभिज्ञः कक्षीवानृषिः प्र भवतु । युष्मदनुग्रहात्संपूर्णकामो भवत्वित्यर्थः ॥ घोषे । घोषा नाम काचिद्ब्रह्मवादिनी कक्षीवतः पुत्री । अत्रोपचारात्तद्वाचकं प्रातिपदिकं पुत्रे वर्तते । भृगवाणे । चिरंतनो भृगुरिवाचरति । सर्वप्रातिपदिकेभ्य इति क्विप् । धातुसंज्ञायां व्यत्ययेन लटः शानच् । शबादि । आगमानुशासनस्यानित्यत्वान्मुगभावः । वृषादिः । शोभे । शुभ दीप्तौ । लोपस्त आत्मनेपदेष्विति तलोपः । इषयुः । इष गतौ । इष्यति गच्छतीतीषमन्नम् । इगुपधलक्षणः कः । यद्वा । इषु इच्छायाम् । इष्यते सर्वैः प्राणिभिरितीषमन्नम् । व्यत्ययेन कर्मणि कर्तृप्रत्ययः । प्रशब्देन संहितायां प्रादूहोढोढ्येषैष्येषु वृद्धिर्वक्तव्या । पा ६-१-८९-४ । इति वृद्धिः ॥ ५ ॥

1.120.6
श्रु॒तं गा᳚य॒त्रं तक᳚वानस्या॒हं चि॒द्धि रि॒रेभा᳚श्विना वाम् ।
आक्षी शु᳚भस्पती॒ दन् ॥
▶ पदपाठः (Word-by-word)
श्रु॒तम् । गा॒य॒त्रम् । तक᳚वानस्य । अ॒हम् । चि॒त् । हि । रि॒रेभ᳚ । अ॒श्वि॒ना॒ । वा॒म् ।
आ । अ॒क्षी इति᳚ । शु॒भः॒ । प॒ती॒ इति᳚ । दन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनावश्विनौ गायत्रं गातव्यं गायत्रीयुक्तं गायत्रसाम्ना निष्पाद्यं वा स्तोत्रं तकवानस्य स्खलद्गतेरंधस्य ऋज्राश्वस्य संबंधि श्रुतम् । अशृुणुतम् । अहं चिदहमिव वां युवां स हि रिरेभ । स्तुतवान् । किं कुर्वन् हे शुभस्पती शोभनस्य कर्मणः पालयितारौ जलस्य वा स्वामिनौ अक्षी युवाभ्यां दत्ते चक्षुषी आ दन् आददानः । तस्मा इव मह्यमप्यभिमतफलं प्रयच्छतमिति भावः ॥ श्रुतम् । श्रु श्रवणे । लङ् बहुलं छंदसीति विकरणस्य लुक् । तकवानस्य । तक गतौ । अत्र गतिसामान्यवाचिना तद्विशेषो मंदगतिर्लक्ष्यते । औणादिक उप्रत्ययः । भृगवाण इतिवत् प्रक्रियोन्नेया । रिरेभ । रेभृ शब्दे । आक्षी । ई च द्विवचन इत्यक्षिशब्दस्य ईकारांतादेशः स चोदात्तः । शुभस्पती । सुबामंत्रिते परांगवत्स्वर इति षष्ठ्यंतस्य परांगवद्भावा त्पदद्वयसमुदायस्याष्टमिकामंत्रितानुदात्तत्वम् । दन् । आङ् पूर्वाद्ददातेराङोदोऽनास्यविहरणे (पा १-३-२०) इत्यात्मनेपदम् । व्यत्ययेन शतृ । जुहोत्यादित्वात् श्लुः । द्विर्वचनप्रकरणे छंदसि वेति वक्तव्यमिति वचनाद्विर्वचनाभावः । छंदस्युभयथेत्युभयथाश्रयणात् शतुः । सार्वधातुकत्वेन ङित्त्वम् । आर्धधातुतत्वादातो लोप इटि चेत्याकारलोपः ॥ ६ ॥

1.120.7 समानपद
यु॒वं ह्यास्तं᳚ म॒हो रन्यु॒वं वा॒ यन्नि॒रत᳚तंसतम् ।
ता नो᳚ वसू सुगो॒पा स्या᳚तं पा॒तं नो॒ वृका᳚दघा॒योः ॥
▶ पदपाठः (Word-by-word)
यु॒वम् । हि । आस्त᳚म् । म॒हः । रन् । यु॒वम् । वा॒ । यत् । निः॒॑अत᳚तंसतम् ।
ता । नः॒ । व॒सू॒ इति᳚ । सु॒॑गो॒पा । स्या॒त॒म् । पा॒तम् । नः॒ । वृका᳚त् । अ॒घ॒॑योः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ महो महतो धनस्य रन् रातारौ दातारौ युवं युवां कंचनास्तम् । ॥॥॥॥निरततंसतम् । धनानि निरगमयतम् । रक्षकौ विनाशकावपि युवमेवेत्यर्थः । हे वसू वासयितारावश्विनौ ता तादृशौ युवां नोऽस्माकं सुगोपा सुष्ठु गोपायितारौ रक्षितारौ स्यातम् । भवतम् । अपि च नोऽस्मानघायोरघं पापफलमस्माकमिच्छतो वृकात्स्तेनात्पातम् । रक्षतं ॥ महः । महतः । छांसोऽच्छब्दलोपः । रन् । रन्नितिवत्प्रक्रियोन्नेया । व्यत्ययेनैकवचनम् । निरततंसतम् । तसि अलंकारे । अस्माण्ण्यंताल्लुङि णिश्रिद्रुस्रुभ्य इति च्लेश्चङ् द्विर्वचनादि च । गरुसं ज्ञाया लङुसंज्ञाया बाधितत्वात्सन्वद्भावाभावः । सुगोपा । सुपां सुलुगिति विभक्तेर्लुक् । अघायोः । अघं परेषामिच्छति । छंदसि परेच्छायामिति क्यच् । अश्वाघस्यादित्यात्वम् । क्याच्छंदसीत्युप्रत्ययः ॥ ७ ॥

1.120.8
मा कस्मै᳚ धातम॒भ्य᳚मि॒त्रिणे᳚ नो॒ माकुत्रा᳚ नो गृ॒हेभ्यो᳚ धे॒नवो᳚ गुः ।
स्त॒ना॒भुजो॒ अशि᳚श्वीः ॥
▶ पदपाठः (Word-by-word)
मा । कस्मै᳚ । धा॒त॒म् । अ॒भि । अ॒मि॒त्रिणे᳚ । नः॒ । मा । अ॒कुत्र᳚ । नः॒ । गृ॒हेभ्यः᳚ । धे॒नवः᳚ । गुः॒ ।
स्त॒न॒॑भुजः᳚ । अशि᳚श्वीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ अमित्रिणे । आमित्रं मित्रराहित्यम् । तद्वते कस्मै चिदपि शत्रवे नोऽस्मान्माभि धातम् । आभिमुख्येन मा स्थापयतम् । अपि च नोऽस्माकं गृहेभ्यः सकाशात्स्तनाभुजः स्तनैर्वत्सान्मनुष्यांश्च पालयंत्यो धेनवो गावोऽशिश्वेः शिशना वत्सेन विरहिता अस्मदीये गृहेऽशयाना वा सत्योऽकुत्र चिदस्माभिरगम्ये प्रदेशे मा गुः । मा गच्छंतु ॥ धातम् । धाञो माङि लुङि गातिस्थेति सिचो लुक् । न माङ्योग इत्यडभावः । अकुत्र । परादिश्छंदसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । गुः । इण् गतौ । इणो गा लुङीति गादेशः । गातिस्थेति सिचो लुक् । आत इति झेर्जुस् । स्तनाभुजः । भुज पालनाभ्यवहारयोः । स्तनैर्भुंजंति पालयंतीति स्तनाभुजः । क्विप् । अन्येषामपि दृश्यत इति सांहितिको दीर्घः । अशिश्वीः । सख्यशिश्वीति भाषायाम् (पा ४-१-६२) इति छंदस्यपि व्यत्ययेन निपातनं द्रष्टव्यम् । यद्वा । शिशुरस्यास्तीति शश्वी । छंदसीवनिपाविति मत्वर्थीय ईकारः । नञ्समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । वा छंदसीति पूर्वसवर्णदीर्घः । अथवा । शीङ् स्वप्ने । उत्सर्गश्छंदसीति किप्रत्ययः । द्विर्वचनह्रस्वते । एरनेकाच इति यण् । छांदसो वकारः । पूर्ववत्समासस्वरौ ॥ ८ ॥

1.120.9
दु॒ही॒यन्मि॒त्रधि᳚तये यु॒वाकु᳚ रा॒ये च᳚ नो मिमी॒तं वाज᳚वत्यै ।
इ॒षे च᳚ नो मिमीतं धेनु॒मत्यै᳚ ॥
▶ पदपाठः (Word-by-word)
दु॒ही॒यन् । मि॒त्र॑धि᳚तये । यु॒वाकु᳚ । रा॒ये । च॒ । नः॒ । मि॒मी॒तम् । वाज᳚॑वत्यै ।
इ॒षे । च॒ । नः॒ । मि॒मी॒त॒म् । धेनु॒॑मत्यै᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ युवाकु युवां कामयमानाः स्तुतिभिर्यावयितारः संयोजयितारो वा स्तोतारो मित्रधितये मित्राणां बंधुजनानां धारणार्थं दुहीयन् । युष्मत्सकाशाद्धनानि दुहंति प्राप्नुवंति । अतो नोऽस्मानपि वाजवत्यै वाजयुक्ताय च राये धनाय मिमीतम् । कुरुतम् । तथा धेनुमत्यै धेनुभिर्यु क्तायेषेऽन्नाय च नोऽस्मान्मिमीतम् । कुरुतम् । अस्मभ्यं स्तोतृभ्यो बलयुक्तं धनं गोयुक्तमन्नं च प्रयच्छतमित्यर्थः ॥ दुहीयन् । दुह प्रपूरणे । दुहिर्दोहः । इगुपधात्कित् (उ ४-११९) इति भाव इप्रत्ययः । दुहिमात्मन इच्छति दुहीयति । सुप आत्मनः क्यच् । दुहीयतेर्लेट्यडागमः । इतश्च लोप इतीकारलोपः । यद्वा । दुहेर्लिङि झस्य रन् (पा ३-४-१०५) इति व्यत्ययेन रनादेशाभावे । रूपमेतत् । छांदसोंऽत्यलोपः । यद्वा । रनादेशे कृते छांदसो रेफस्य यकारः । अत एव व्युत्पत्त्य नवधारणान्नावगृण्हंति । युवाकु । सुपां सुलुगिति जसो लुक् । मिमीतम् । माङ् माने शब्दे च । जौहोत्यादिकः । व्यत्ययेन परस्मैपदम् । भृञामिदित्यभ्यासस्येत्वम् । चवायोगे प्रथमेति निघात प्रतिषेधः ॥ ९ ॥

1.120.10
अ॒श्विनो᳚रसनं॒ रथ᳚मन॒श्वं वा॒जिनी᳚वतोः ।
तेना॒हं भूरि᳚ चाकन ॥
▶ पदपाठः (Word-by-word)
अ॒श्विनोः᳚ । अ॒स॒न॒म् । रथ᳚म् । अ॒न॒श्वम् । वा॒जिनी᳚॑वतोः ।
तेन᳚ । अ॒हम् । भूरि᳚ । चा॒क॒न॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वाजिनीवतोः । वाजोऽन्नं बलं वा । तद्वत्क्रियावतोरश्विनोरनश्वमश्वरहितमश्वराहित्येऽपि सामर्थ्यातिशयेन गच्छंतं रथमसनम् । आहं स्तोता समभजम् । तेन च रथेन भूरि प्रभूतं श्रेयश्चाकन । कामये ॥ असनम् । वन षण संभक्तौ । लङ् । चाकन । कन दीप्ति कांतिगतिषु । छांदसो लिट् । णलुत्तमो वा (पा ७-१-९१) इति णित्त्वस्य विकल्पनाद्वृद्ध्यभावः । तुजादित्वादभ्यासदीर्घत्वं ॥ १० ॥

1.120.11
अ॒यं स᳚मह मा तनू॒ह्याते॒ जना{4}॒ अनु᳚ ।
सो॒म॒पेयं᳚ सु॒खो रथः᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । स॒म॒ह॒ । मा॒ । त॒नु॒ । ऊ॒ह्याते᳚ । जना᳚न् । अनु᳚ ।
सो॒म॒॑पेय᳚म् । सु॒॑खः । रथः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे समह धनेन सहित हे रथ अयं पुरूवर्ती त्व मा मां तनु । विस्तारय । पुत्रपौत्रधनादिभिः समृद्धं कुरु । यद्वा । अयमयमानं त्वां प्राप्नुवंतं मामिति योज्यम् । स च सुखं शोभनावकाशः सुखहेतुर्वा रथो जनाननु स्तोतृजनेषु सोमपेयं सोमपानं प्रत्यूह्याते । उह्यते । अश्विभ्यां नीयते । अतोऽश्विभ्यां यद्दीयते तत्सर्वं रथ एव ददाद्दीति रथं संबोध्य प्रार्थना ॥ अयम् । इदोऽय् पुंसि (पा ७-२-१११) यद्वा । अय पय गतौ । पचाद्यच् । समह । मघमिति धननाम । मघेन सह वर्तत इति समघॆ । छांदसो वर्णविकारः । यद्वा । मह पूजायाम् । महयति पूजयतीति महो धनम् । पचाद्यच् । ऊह्याते । वह प्रापणे । कर्मणि लेट्याडागमः । यजादित्वात्संप्रसारणम् । तस्य छांदसो दीर्घः । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे यक एव स्वरःशिष्यते । सोमपेयम् । पा पाने । अचो यदिति भावे यत् । ईद्यतीति ईकारादेशः । यतोऽनाव इत्याद्युदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ ११ ॥

1.120.12
अध॒ स्वप्न᳚स्य॒ निर्वि॒दे॑भु᳚ञ्जतश्च रे॒वतः᳚ ।
उ॒भा ता बस्रि᳚ नश्यतः ॥
▶ पदपाठः (Word-by-word)
अध᳚ । स्वप्न᳚स्य । निः । वि॒दे॒ । अभु᳚ञ्जतः । च॒ । रे॒वतः᳚ ।
उ॒भा । ता । बस्रि᳚ । न॒श्य॒तः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अधेदानीं प्रभातसमये स्वप्नस्य स्वप्नं प्रति निर्विदे । निर्विण्णोऽस्मि । तथा भुंजतः परानरक्षतो धनवतश्च पुरुषस्य एवंभूतं पुरुषं प्रत्यपि निर्विण्णोऽस्मि । यतस्तावुभौ बस्रि क्षिप्रं नश्यतः नाशं प्राप्नुतः । स्वप्नदृष्टः पदार्थः प्रातर्नोपलभ्यते कदर्यसेव धनमभुक्तमदत्तं सत् क्षिप्रमेप नश्यति । तदुभयविषयो निर्वेदो मां बाधत इत्यर्थः । अत्र स्वप्नमात्रस्यासत्त्वप्रतिपादनेन दुःस्वप्नस्याप्य सद्भावः प्रतिपादितः । अत एषा दुःस्वप्ननाशनीति युज्यते ॥ स्वप्नस्य । क्रियाग्रहणं कर्तव्यमिति कर्मणः संप्रदानत्वाच्चतुर्थ्यथे षष्ठी । विदे । विद्लृलाभे । आगमानुशासनस्यानित्यत्वान्नुमभावः । रेवतः । रयिशब्दान्मतुप् । रयेर्मतौ बहुलमिति संप्रसारणम् । छंदसीर इति मतुपो वत्वम् । देशब्दाच्च मतुप उदात्तत्वमिति तस्योदात्तत्वम् । उभा ता उभयत्र सुपां सुपां सुलुगित्याकारः ॥ १२ ॥