प्रथमं मण्डलम् - सूक्तम् 38

15 ऋचः

ऋषिः: कण्वो घौरः देवता: मरुतः छन्दः: गायत्री

सूक्तम् 1.38 - सम्पूर्णम्

1 / 15
ऋक्: 1.38.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (15)
1.38.1
कद्ध᳚ नू॒नं क᳚धप्रियः पि॒ता पु॒त्रं न हस्त᳚योः ।
द॒धि॒ध्वे वृ᳚क्तबर्हिषः ॥
▶ पदपाठः (Word-by-word)
कत् । ह॒ । नू॒नम् । क॒ध॒॑प्रि॒यः॒ । पि॒ता । पु॒त्रम् । न । हस्त᳚योः ।
द॒धि॒ध्वे । वृ॒क्त॒॑ब॒र्हि॒षः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतः कद्ध कदा खलु नूनमवश्यं हस्तयोर्दधिध्वे । यूयमस्मान्हस्ते धारयथ । तत्र दृष्टांतः । पिता पुत्रं न हस्तयोः । यथा लोके पिता हस्तयोः स्वकीयं पुत्रं धारयति तद्वत् । कीदृशा मरुतः । कधप्रियः स्तुतिप्रीताः वृक्तबर्हिषः वृक्तं छिन्नं बर्हिर्दर्भो येषां मरुतां यजमानाय ते मरुतस्तथाविधाः ॥ कत् । कदा । द्वौ चापरौ वर्णविकारनाशौ । का ६-३-१०९ । इत्युक्तत्वादाकारलोपः । कधप्रियः । कथा स्तुतिः । तया प्रीणंतीति कधप्रियः । प्रीञ् प्रीतौ । क्विप् । पूर्वपदस्य ङ्यापोः संज्ञाच्छंदसोर्बहुलम् (पा ६-३-६३) इति ह्रस्वत्वम् । धकारश्छांदसः । आमंत्रितनिघातः । दधिध्वे । दधातेश्छंदसि लुङ् लङ् लिट इति वर्तमाने लिट् । क्रादिनियमादिट् । प्रत्ययस्वरः । वृक्तबर्हिषः । आमंत्रितनिघातः ॥ १ ॥

1.38.2
क्व᳚ नू॒नं कद्वो॒ अर्थं॒ गन्ता᳚ दि॒वो न पृ᳚थि॒व्याः ।
क्व᳚ वो॒ गावो॒ न र᳚ण्यन्ति ॥
▶ पदपाठः (Word-by-word)
क्व᳚ । नू॒नम् । कत् । वः॒ । अर्थ᳚म् । गन्ता᳚ । दि॒वः । न । पृ॒थि॒व्याः ।
क्व᳚ । वः॒ । गावः᳚ । न । र॒ण्य॒न्ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतो नून मिदानीं क्व । यूयं कुत्र स्थिताः । कत् कदा वो युप्माकमर्थमरणं देवयजनदेशे गमनम् । विलंबं मा कुरुतेत्यर्थः । दिवो गंत । द्युलोकाद्गच्छथ । पृथिव्या न गंत । भूलोकान्मा गच्छत । वो युष्णान् क्व रण्यंति । देवयजनरूपायाः पृथिव्या अन्यत्र कुत्र शब्दयंति । यजमानाः स्तुवंति । तत्र दृष्टांतः । गावो न । यथा गावो रणंति । शब्दयंति । तद्वत् ॥ क्व । किं शब्दात्सप्तम्यंतात्किमोऽत् (पा ५-३-१२) इत्यत्प्रत्ययः । क्वाति (पा ७-२-१०५) इति किमः क्वादेशः । तित्स्वरित इति स्वरितत्वम् । अर्थम् । ऋ गतौ । उषिकुषिगार्तिभ्यस्थन् (उ २-४) इति भावे थन् । नित्त्वादाद्युदात्तत्वम् । गंत । गमेर्लोट बहुलं छंदसीति शपो लुक् । थादेशस्य तस्य तप्तनप्तनथनाश्चेति तबादेशः । अत एव ङत्त्वाभावादनुदात्तोपदेशेत्यादिनानुसिकलोपो न भवति । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः । द्व्यचोऽतस्तिङ इति संहितायां दीर्घत्वम् । दिवः । ऊडिदमिति विभक्तेरुदात्तत्वम् । पृथिव्याः । उदात्तयणो हल्पूर्वादिति विभक्तेरुदात्तत्वम् । रण्यंति । रणतिः शब्दार्थः । व्यत्ययेन श्यन् ॥ २ ॥

1.38.3
क्व᳚ वः सु॒म्ना नव्यां᳚सि॒ मरु᳚त॒ः क्व᳚ सुवि॒ता ।
क्वो॒३॒᳚ विश्वा᳚नि॒ सौभ᳚गा ॥
▶ पदपाठः (Word-by-word)
क्व᳚ । वः॒ । सु॒म्ना । नव्यां᳚सि । मरु᳚तः । क्व᳚ । सु॒वि॒ता ।
क्वो॒३॒᳚ इति᳚ । विश्वा᳚नि । सौभ᳚गा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतो वो युष्माकं संबंधीनि नव्यांसि नवतराणि सुम्ना प्रजापशुरूपाणि धनानि । प्रजा वै पशवः सुम्नम् । तै । सं ५-४-६-६ । इति श्रुत्यंतरात् । क्व कुत्र वर्तंते । तथा सुविता शोभनानि प्राप्याणि मणिमुक्तादीनि भवदीयानि क्व कुत्र वर्तंते । विश्वानि सर्वाणि सौभगा सौभाग्यरूपाणि गजाश्वादीनि क्वो कुत्र वा वर्तंते । भवदीयैः सुम्नादिभिः सर्वैः सहागंतव्यमित्यर्थः ॥ सुम्ना । शेश्छंदसि बहुलमिति शेर्लोपः । नव्यांसि । नवशब्दादीयसुनीकारलोपश्छांदसः । सुविता । सुष्ठु इतानि सुवितानि । तन्वादीनां छंदसि बहुलमुपसंख्यानम् । पा ६-४-७७-१ । इत्युवङादेशः । सौभगा । सुभगान्मंत्र इति तस्य भाव इत्यर्थेऽञ् । पूर्ववच्छेर्लोपः ॥ ३ ॥

1.38.4
यद्यू॒यं पृ᳚श्निमातरो॒ मर्ता᳚स॒ः स्यात᳚न ।
स्तो॒ता वो᳚ अ॒मृतः᳚ स्यात् ॥
▶ पदपाठः (Word-by-word)
यत् । यू॒यम् । पृ॒श्नि॒॑मा॒त॒रः॒ । मर्ता᳚सः । स्यात᳚न ।
स्तो॒ता । वः॒ । अ॒मृतः᳚ । स्यात् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पृश्निनामकधेनुपुत्रा मरुतो यूयं यद्यपि मर्तासो मनुष्याः स्यातन भवेत तथापि वो युष्माकं स्तोता यजमानोऽमृतः स्यात् । देवो भवेत् ॥ पृश्निमातरः । पृश्निर्माता येषां ते । समासांतविधेरनित्यत्वान्नद्यृतश्च (पा ५-४-१५३) इति कबभावः । मर्तासः । असिहसीत्यादिना । म्रियतेस्तन्प्रत्ययः । आज्जसेरसुक् । स्यातन । अस्तेर्लिङि तस्य । तप्तनप्तनथनाश्चेति तनादेशः । यासुट उदात्तत्वम् । अमृतः । नञो जरमरमित्रमृता इत्युत्तरपदाद्युदात्तत्वं ॥ ४ ॥

1.38.5
मा वो᳚ मृ॒गो न यव᳚से जरि॒ता भू॒दजो᳚ष्यः ।
प॒था य॒मस्य᳚ गा॒दुप᳚ ॥
▶ पदपाठः (Word-by-word)
मा । वः॒ । मृ॒गः । न । यव᳚से । ज॒रि॒ता । भू॒त् । अजो᳚ष्यः ।
प॒था । य॒मस्य᳚ । गा॒त् । उप᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतो वो युष्माकं जरिता स्तोताजोष्योऽसेव्यो मा भूत् । तत्र दृष्टांतः । मृगो न यवसे । यथा तृणे भक्षणीये मृगः कदाचिदप्यसेव्यो न भवति किंतु सर्वदा तृणं भक्षयति तद्वत् । किंच स स्तोता यमस्य पथा यम लोकसंबंधिमार्गेण मोप गात् । मा गच्छतु । तस्य मरणं मा भूदित्यर्थः । जरिता जृष् वयोहानौ । स्तुतिकर्मेति यास्कः । नि १०-८ । तृचीडागमः । चित्त्वादंतोदात्तत्वं भूत् । लुङि गातिस्थेति सिचो लुक् । न माङ्योग इत्यडभावः । अजोष्यः । जुषी प्रीतिसेवनयोः । ऋहलोर्ण्यदिति कर्मणि ण्यत् । नञ् समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । पथा । तृतीयैकवचने भस्य टीर्लोपः (पा ७-१-८८) इति टलोपः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । गात् । एतेर्लुङीणो गा लुङीति गादेशः । गातिस्थेति सिचो लुक् । पूर्ववदडभावः ॥ १५ ॥ ५ ॥

1.38.6
मो षु ण॒ः परा᳚परा॒ निरृ᳚तिर्दु॒र्हणा᳚ वधीत् ।
प॒दी॒ष्ट तृष्ण᳚या स॒ह ॥
▶ पदपाठः (Word-by-word)
मो इति᳚ । सु । नः॒ । परा᳚॑परा । निः॑ऋ᳚तिः । दुः॒॑हना᳚ । व॒धी॒त् ।
प॒दी॒ष्ट । तृष्ण᳚या । स॒ह ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतो नोऽस्मान् निर्ऋतिः रक्षोजातिदेवता मो षु वधीत् । सर्वथा वधं मा कार्षीत् । कीदृशी । परापरा उत्कृष्टादप्युत्कृष्टा । अतिबलेत्यर्थः । अत एव दुर्हणा केनापि हंतुं दुःशक्या । सानिर्ऋतिस्तृष्णया सह पदीष्ट । पततु । अस्मदीया तृष्णाबाधिका निर्ऋतिश्च विनश्यत्वित्यर्थः ॥ मो षु णः । सुञ इति षत्वम् । नश्च धातुस्थोरुषभ्य इति णत्वम् । दुर्हणा । ईषद्दुः सुष्वित्यादिना हंते कर्मणि खल् । लित्स्वरेण प्रत्ययात्पूर्वस्योदात्तत्वम् । वधीत् । लुङि हंतेर्लुङि च (पा २-४-४३) इति वधादेशः । सचीडागमः । वधादेशस्यादंतत्वादेकाच उपदेश इतीट् प्रतिषेधो न भवति । अतो लोपे सति तस्य स्थानिवत्त्वादतो हलादेः (पा ७-२-७) इति वृद्ध्यभावः । इट ईट (पा ८-२-२८) इति सिचो लोपः । पदीष्ट । पद गतौ आशीर्लिङि छंदस्युभयथेति सार्वधातुकत्वात्सलोपः । अर्धधातुकत्वात्सुडागमः । प्रत्ययस्वरः । तृष्णया । ञितृषा पिपासायाम् । तृषिशुषिरसिभ्यः किच्च (उ ३-१२) इति नप्रत्ययः । निदित्यनुवृत्तेराद्युदात्तत्वं ॥ ६ ॥

1.38.7
स॒त्यं त्वे॒षा अम᳚वन्तो॒ धन्व᳚ञ्चि॒दा रु॒द्रिया᳚सः ।
मिहं᳚ कृण्वन्त्यवा॒ताम् ॥
▶ पदपाठः (Word-by-word)
स॒त्यम् । त्वे॒षाः । अम᳚॑वन्तः । धन्व᳚न् । चि॒त् । आ । रु॒द्रिया᳚सः ।
मिह᳚म् । कृ॒ण्व॒न्ति॒ । अ॒वा॒ताम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

धन्वन् चित् मरुदेशेऽपि रुद्रियासो रुद्रेण पालितत्वात्तदीया मरुत आ सर्वतोवातां वायुरहितां मिहं वृष्टिं कुर्वंति । तदेतत्सत्यम् । कीदृशा रुद्रियासः । त्वेषा दीप्ता अमवंतो बलवंतः । मरुतां रुद्रपालनमाख्यानेषु प्रसिद्धं ॥ धन्वन् । रिवि रवि धवि गत्यर्थाः । इदित्वान्नुम् । कनिन्युवृषितक्षीत्यादिना कनिन् । नित्त्वादाद्युदात्तत्वम् । सुपां सुलुगिति सप्तम्या लुक् । रुद्रियासः । रुद्रस्येमे रुद्रियाः तस्येदमित्यर्थे घः । आज्जसेरसुक् । मिहम् । मिह सेचने । क्विप्चेति क्विप् कृण्वंति । कृवि हिंसाकरणयोश्च । धिन्विकृण्व्योरच्चेत्युप्रत्ययः । तत्सन्नियोगेन वकारस्य चाकारादेशः । अतो लोपेन लुप्तस्यस्थानिवद्भावाल्लघूपधगुणाभावः ॥ ७ ॥

1.38.8
वा॒श्रेव᳚ वि॒द्युन्मि᳚माति व॒त्सं न मा॒ता सि᳚षक्ति ।
यदे᳚षां वृ॒ष्टिरस᳚र्जि ॥
▶ पदपाठः (Word-by-word)
वा॒श्रा॑इ᳚व । वि॒॑द्युत् । मि॒मा॒ति॒ । व॒त्सम् । न । मा॒ता । सि॒ष॒क्ति॒ ।
यत् । ए॒षा॒म् । वृ॒ष्टिः । अस᳚र्जि ॥
▶ सायणभाष्यम् (Sayana Commentary)

कारीर्यां मारुतं सप्तकपालमित्यस्य हविषो वाश्रेव विद्युदित्येषानुवाक्या । वर्षकामेष्टिरिति खंडे सूत्रितम् । वाश्रेव विद्युन्मिमाति पर्वतश्चिन्महि वृद्धो बिभाय (आ २-१३) इति ॥

वाश्रेव शब्दयुक्ता प्रस्तुतस्तनवती धेनुरिव विद्युन्मेघस्था दृश्यमाना सती मीमाति । शब्दं करोति । विद्युद्वेलायां हि मेघगर्जनं प्रसिद्धम् । माता धेनुर्वत्सं न वत्समिव सिषक्ति । इयं विद्युन्मरुतः सेवते । सिषक्तिः सेवनार्थः । सिषक्तु सचत इति सेवमानस्य (नि ३-२१) इति यास्केनोक्तत्वात् । यद्यस्मात्कारणादेषां मरुतां संबंधिनी वृष्टिरसर्जि गर्जनसहिते विद्युत्काले वृष्टा भवति । तस्माद्विद्युतो मरुत्सेवनमुपपन्नं ॥ वाश्रेव । वाशृ शब्दे स्छायितंचीत्यादिना रक् । मिमाति । माङ् माने शब्दे च । वृत्ययेन परस्मैपदम् । जुहोत्यादित्वात् श्लुः । भृञामित् (पा ७-४-७६) इत्यभ्यासस्येत्वम् । सिषक्ति । षच समवाये । लट बहुलं छंदसीति शपः श्लुः । बहुलं छंदसीत्यभ्यासस्येत्वम् । असर्जि । सृज विसर्गे । कर्मणि लुङ् । चिण् भावकर्मणोः (पा ३-१-६६) इति चिण् । चिणो लुक् (पा ६-४-१०४) इति तशब्दस्य लुक् । गुणः । अडागम उदात्तः । यद्वृत्तयोगादनिघातः ॥ ८ ॥

1.38.9
दिवा᳚ चि॒त्तमः᳚ कृण्वन्ति प॒र्जन्ये᳚नोदवा॒हेन᳚ ।
यत्पृ᳚थि॒वीं व्यु॒न्दन्ति᳚ ॥
▶ पदपाठः (Word-by-word)
दिवा᳚ । चि॒त् । तमः᳚ । कृ॒ण्व॒न्ति॒ । प॒र्जन्ये᳚न । उ॒द॒॑वा॒हेन᳚ ।
यत् । पृ॒थि॒वीम् । वि॒॑उ॒न्दन्ति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ते मरुत उदवाहेनोदकधारिणा पर्जन्येन मेघेन सूर्यमाच्छाद्य दिवा चिदहन्यपि तमः कृण्वंति । अंधकारं कुर्वंति यद्यदा पृथिवीं भूमिं व्युंदंति । विशेषेण क्लेदयंति । तदानीमतिवृष्टिकाले तमः कुर्वंतीति पूर्वत्रान्वयः ॥ उदवाहेन । उदकानि वहतीत्युदवाहः । कर्मण्यण् । मेघविशेषस्येयं संज्ञा । उदकस्योदः संज्ञायाम् (पा ६-३-५७) इत्युदकशब्दस्योदभावः । कृदुत्तरपदप्रकृतिस्वरत्वम् । व्युंदंति । उंदी क्लेदने । रुधादित्वात् श्नम् । श्नान्नलोपः (पा ६-४-२३) इति नलोपः । यद्वृत्तयोगादनिघातः ॥ ९ ॥

1.38.10
अध᳚ स्व॒नान्म॒रुतां॒ विश्व॒मा सद्म॒ पार्थि᳚वम् ।
अरे᳚जन्त॒ प्र मानु᳚षाः ॥
▶ पदपाठः (Word-by-word)
अध᳚ । स्व॒नात् । म॒रुता᳚म् । विश्व᳚म् । आ । सद्म᳚ । पार्थि᳚वम् ।
अरे᳚जन्त । प्र । मानु᳚षाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मरुतां संबंधिनः स्वनादध ध्वनेर्गर्जनरूपादनंतरं पार्थिवं पृथिवीसंबंधि विश्वं सद्म सर्वं गृहमा समंतादरेजतेति शेषः । तथा मानुषा गृहवर्तिनो मनुष्या अपि प्रारेजंत । प्रकर्षेण कंपितवंतः ॥ अध । छांदसं धत्वम् । सद्म । षद्लृ विशरणगत्यवसादनेषु । अन्येभ्योऽपि द्यश्यंत इति मनिन् । पार्थिवम् । पृथिव्याः संबंधि । पृथिव्या ञाञौ । पा ४-१-८५-२ । इति प्राग्दीव्यतीयोऽञ् प्रत्ययः । ञित्त्वादाद्युदात्तत्वम् । अरेजंत रेजृ कंपने ॥ १० ॥

1.38.11
मरु᳚तो वीळुपा॒णिभि᳚श्चि॒त्रा रोध᳚स्वती॒रनु᳚ ।
या॒तेमखि᳚द्रयामभिः ॥
▶ पदपाठः (Word-by-word)
मरु᳚तः । वी॒ळु॒पा॒णि॑भिः᳚ । चि॒त्राः । रोध᳚स्वतीः । अनु᳚ ।
या॒त । ई॒म् । अखि᳚द्रयाम॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतो यूयं वीळुपाणिभिर्दृढहस्तैः सहिताः संतो रोधस्वतीरनु कूलयुक्ता नदीरनुलक्ष्याखिद्रयामभिरच्छिन्नगमनैर्यातेम् । गच्छतैव ॥ मरुतः । आमंत्रिताद्युदात्तत्वम् । वीळुपाणिभिः । वीड्विति बलनाम । वीळु च्यौत्नमिति तन्नामसु पाठात् । तेन च तद्वाल्लक्ष्यते । वीळवश्च ते पाणयश्च । समासस्येत्यंतोदात्तत्वम् । रोधस्वतीः । रुधिर् आवरणे । रुणद्धि स्रोत इति रोधः कूलम् । रोधः कूल निरुणदि स्रोतः (नि ६-१) इत्युक्तत्वात् । असुनो नित्त्वादाद्युदात्तत्वम् । तद्युक्ता रोधस्वत्यः । मादुपधाया इति मतुपो वत्वम् । उगितश्चेति । ङीप् । मतुब्ङीपोः पित्त्वादनुदात्तत्वेऽसुनः स्वर एव शिष्यते । यात या प्रापणे । अदादित्वाच्छपो लुक् । ईम् । चादयोऽनुदात्ता इत्यनुदात्तत्वम् । गुण एकादेश उदात्तेनोदात्त इत्युदात्तत्वम् । अखिद्रयामभिः । खिद दैन्ये । स्फायितंचीत्यादिना रक् । खिद्रं यांतीति खिद्रयामानः । न खिद्रयामानोऽखिद्रयामानः । तैः । अव्ययपूर्वपदप्रकृतिस्वरत्वं ॥ ११ ॥

1.38.12
स्थि॒रा वः᳚ सन्तु ने॒मयो॒ रथा॒ अश्वा᳚स एषाम् ।
सुसं᳚स्कृता अ॒भीश᳚वः ॥
▶ पदपाठः (Word-by-word)
स्थि॒राः । वः॒ । स॒न्तु॒ । ने॒मयः᳚ । रथाः᳚ । अश्वा᳚सः । ए॒षा॒म् ।
सु॑सं᳚स्कृताः । अ॒भीश᳚वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुत एषां वो युष्माकं नेमयो रथचक्रवलयाः स्थिराः संतु । तथा रथा अश्वासोऽश्वाश्च स्थिराः संतु । अभीशवोंऽगुलयः । अभीशवो दीधितय इति तन्नामसु पाठात् । सुसंस्कृता अश्वबंधनरज्जुपरिगह्रणे स्वलंकृताः सावधानाः संतु ॥ सुसंस्कृताः । संपूर्वात्करोतेः कर्मणि क्तः । संपर्युपेभ्यः (पा ६-१-१३७) इति सुट् । पुनः सुशब्देन प्रादिसमासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । अभीशवः । अभिपूर्वादश्नोतेः कृवापाजीत्यादिनोण् । वर्णव्यत्ययेनाकारस्येकारः । उक्तं च । वर्णागमो वर्णविपर्ययश्च । का ६-३-१०९ । इति । अभीशवोऽभ्यश्नुवते कर्माणीति निरुक्तम् । नि ३-९ ॥ १२ ॥

1.38.13
अच्छा᳚ वदा॒ तना᳚ गि॒रा ज॒रायै॒ ब्रह्म᳚ण॒स्पति᳚म् ।
अ॒ग्निं मि॒त्रं न द᳚र्श॒तम् ॥
▶ पदपाठः (Word-by-word)
अच्छ᳚ । व॒द॒ । तना᳚ । गि॒रा । ज॒रायै᳚ । ब्रह्म᳚णः । पति᳚म् ।
अ॒ग्निम् । मि॒त्रम् । न । द॒र्श॒तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋत्विक्समूह तना तनया देवतास्वरूपं प्रकाशयंत्या गिरा वाचा ब्रह्मणस्पतिं मंत्रस्य हविर्लक्षणस्यान्नस्य वा पालकं मरुद्गणमग्निं दर्शतं दर्शनीयं मित्रं न मित्रमपि जरायै स्तोतुमच्छाभिमुख्येन वद । ब्रूहि ॥ अच्छ । निपातस्य चेति संहितायां दीर्घत्वम् । वद । द्व्यचोऽतस्तिङ इति संहितायां दीर्घः । तना । तनु विस्तारे । तनोति देवतामाहात्म्यं विस्तारयतीति तना । पचाद्यच् । वृषादित्वादाद्युदात्तत्वम् । तृतीयाया डादेशः । गिरा । सावेकाच इति विभक्तेरुदात्तत्वम् । ब्रह्मणः । षष्ठ्याः । पति पुत्रेति संहितायां सत्वं ॥ १३ ॥

1.38.14
मि॒मी॒हि श्लोक᳚मा॒स्ये᳚ प॒र्जन्य᳚ इव ततनः ।
गाय᳚ गाय॒त्रमु॒क्थ्य᳚म् ॥
▶ पदपाठः (Word-by-word)
मि॒मी॒हि । श्लोक᳚म् । आ॒स्ये᳚ । प॒र्जन्यः᳚॑इव । त॒त॒नः॒ ।
गाय᳚ । गा॒य॒त्रम् । उ॒क्थ्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋत्विक्समूह आस्ये स्वकीयमुखे श्लोकं स्तोत्रं मिमीह । निर्मितं कुरु । तं च श्लोकं ततनः । विस्तारय । तत्र दृष्टांतः । पर्जन्य इव । यथा मेघो वृष्टिं विस्तारयति तद्वत् । उक्थ्यं शस्त्रयोग्यं गायत्रं गायत्रीच्छंदस्कं सूक्तं गाय । पठ ॥ मिमीहि । माङ् माने । जौहोत्यादिकः । व्यत्ययेन परस्मैपदम् । भृञामिदित्यभ्यासस्येत्वम् । आस्ये । असु क्षेपणे । अस्यते क्षिप्यतेऽस्मिन्नित्यास्यम् । कृत्यल्ल्युटो बहुलम् । पा ३-३११३ । इत्यधिकरणे ण्यत् । तित्स्वरितमिति स्वरितत्वम् । ततनः । तनु विस्तारे । लेट सिपि बहुलं छंदसीति विकरणस्य श्लुः । लेटोऽडाटावित्यडागमः । इतश्च लोपः इतीकारलोपः । गायत्रम् । गायत्र्याः संबंधि तस्येदमित्यण् । यद्वा । गायतस्त्रायत इति गायत्रम् । आतोऽनुपसर्गे कः ॥ १४ ॥

1.38.15
वन्द᳚स्व॒ मारु᳚तं ग॒णं त्वे॒षं प᳚न॒स्युम॒र्किण᳚म् ।
अ॒स्मे वृ॒द्धा अ᳚सन्नि॒ह ॥
▶ पदपाठः (Word-by-word)
वन्द᳚स्व । मारु᳚तम् । ग॒णम् । त्वे॒षम् । प॒न॒स्युम् । अ॒र्किण᳚म् ।
अ॒स्मे इति᳚ । वृ॒द्धाः । अ॒स॒न् । इ॒ह ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋत्विक्संघ मारुतं मरुत्संबंधिनं गणं समूहं वंदस्व । नमस्कुरु स्तुहि वा । कीदृशं गणम् । त्वेषं दीप्तं, पनस्युं स्तुतियोग्यं, अर्किणमर्चनोपेतम् । अस्मे अस्माकमिहास्मिन्कर्मणि वृद्ध्या असन् । मरुतः प्रवृद्धा भवंतु ॥ वंदस्व । वदि अभिवादनस्तुत्योः । अदुपदेशाल्लसार्पधातुकानुदात्तत्वे धातुस्वरः । पनस्युम् । पन चेति स्तुत्यर्थो धातुः । असुन् । पनः स्तोत्रमात्मन इच्छतीति पनस्युः । सुप आत्मनः क्यच् । क्याच्छंदसीत्युप्रत्ययः । अर्किणम् । ऋच स्तुतौ पुंसि संज्ञायामिति घः । अर्कोऽस्यास्तीत्यर्की । अत इनिठनौ । असन् । बहुलं छंदसीति शपो लुगभावः । इतश्च लोप इतीकारलोपः । तिङ्ङतिङ इति निघातः ॥ १५ ॥