श्रवणम्

1.38.13
अच्छा᳚ वदा॒ तना᳚ गि॒रा ज॒रायै॒ ब्रह्म᳚ण॒स्पति᳚म् ।
अ॒ग्निं मि॒त्रं न द᳚र्श॒तम् ॥
▶ पदपाठः (Word-by-word)
अच्छ᳚ । व॒द॒ । तना᳚ । गि॒रा । ज॒रायै᳚ । ब्रह्म᳚णः । पति᳚म् ।
अ॒ग्निम् । मि॒त्रम् । न । द॒र्श॒तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋत्विक्समूह तना तनया देवतास्वरूपं प्रकाशयंत्या गिरा वाचा ब्रह्मणस्पतिं मंत्रस्य हविर्लक्षणस्यान्नस्य वा पालकं मरुद्गणमग्निं दर्शतं दर्शनीयं मित्रं न मित्रमपि जरायै स्तोतुमच्छाभिमुख्येन वद । ब्रूहि ॥ अच्छ । निपातस्य चेति संहितायां दीर्घत्वम् । वद । द्व्यचोऽतस्तिङ इति संहितायां दीर्घः । तना । तनु विस्तारे । तनोति देवतामाहात्म्यं विस्तारयतीति तना । पचाद्यच् । वृषादित्वादाद्युदात्तत्वम् । तृतीयाया डादेशः । गिरा । सावेकाच इति विभक्तेरुदात्तत्वम् । ब्रह्मणः । षष्ठ्याः । पति पुत्रेति संहितायां सत्वं ॥ १३ ॥