प्रथमं मण्डलम् - सूक्तम् 11

8 ऋचः

ऋषिः: जेता माधुच्छंदसः देवता: इंद्रः छन्दः: अनुष्टुप्

सूक्तम् 1.11 - सम्पूर्णम्

1 / 8
ऋक्: 1.11.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
1.11.1 समानपद
इन्द्रं॒ विश्वा᳚ अवीवृधन्त्समु॒द्रव्य᳚चसं॒ गिरः᳚ ।
र॒थीत᳚मं र॒थीनां॒ वाजा᳚नां॒ सत्प᳚तिं॒ पति᳚म् ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚म् । विश्वाः᳚ । अ॒वी॒वृ॒ध॒न् । स॒मु॒द्र॑व्य᳚चसम् । गिरः᳚ ।
र॒थि॑त᳚मम् । र॒थिना᳚म् । वाजा᳚नाम् । सत्॑प᳚तिम् । पति᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वाः सर्वा गिरोऽस्मदीयाः स्तुतय इंद्रमवीवृधन् । वर्धितवत्यः । कीदृशमिंद्रम् । समुद्रव्यचसं समुद्रवद्व्याप्तवंतं रथीनां रथयुक्तानां योद्धृणां मध्ये रथीतमं अतिशयेन रथयुक्तं वाजानामन्नानां पतिं स्वामिनं सत्पतिं सतां सन्मार्गवर्तिनां पालकं ॥ विश्वाः । विशेः क्वन् । नित्सर्वः । अवीवृधन् । वृधेर्णिचि चङ्युर्ऋदित्यनुवृत्तौ नित्यं छंदसि (पा ७-४-८) इत्यृकारस्य ऋकारविधानाल्लघूपधगुणाभावः । निघातस्वरः । समुद्रव्यचसम् । व्यचेरसुन् । गाङ्कुटादिभ्योऽञ्णिन्ङित् (पा १-२-१) इति प्राप्तस्य ङित्वस्य व्यचेः कुटादित्वमनसि । पा १-२-१-१ । इत्यसिनिषेधाद्ग्रहिज्येत्यादिना ङिति विधीयमानं संप्रसारणम् (पा ६-१-१६) न भवति समुद्रव्यच इव व्यचो यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । रथीतमं रथीनां रथशब्दादुत्पन्नस्येनश्छांदसं दीर्घत्वम् । प्रत्ययस्वरेणोदात्तत्वं च । वाजानाम् । वृषादित्त्वादाद्युदात्तत्वम् । सत्पतिम् । पत्यवैश्वर्ये (पा ६-२-१८) इति पूर्वपदप्रकृतिस्वरत्वं ॥ १ ॥

1.11.2
स॒ख्ये त᳚ इन्द्र वा॒जिनो॒ मा भे᳚म शवसस्पते ।
त्वाम॒भि प्र णो᳚नुमो॒ जेता᳚र॒मप᳚राजितम् ॥
▶ पदपाठः (Word-by-word)
स॒ख्ये । ते॒ । इ॒न्द्र॒ । वा॒जिनः᳚ । मा । भे॒म॒ । श॒व॒सः॒ । प॒ते॒ ।
त्वाम् । अ॒भि । प्र । नो॒नु॒मः॒ । जेता᳚रम् । अप᳚रा॑जितम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शवसस्पते बलस्य पालकेंद्र ते तव सख्येऽनुग्रहप्रयुक्ते सखित्वे वर्तमाना वयं वाजिनोऽन्नवंतो भूत्वा मा भेम । शत्रुभ्यो भीतिं प्राप्ता माभूम । अतस्त्वामुभयहेतुमभि प्रणोनुमः । सर्वतः प्रकर्षेण स्तुमः । कीदृशं त्वाम् । जीतारं युद्धेषु जयशीलं अपराजितं क्वापि पराजयरहितं ॥ सख्ये । सख्युः कर्म सख्यम् । सख्युर्यः (पा ५-१-१२६) प्रत्ययस्वरः । वाजिनः । वाजोऽन्नमेषामस्तीसि वाजिनः । प्रत्ययस्वरः । भेम । ञिभी भये । लुङुत्तमबहुवचनं मस् । नित्यं ङितः (पा ३-४-९९) इति सलोपः । बहुलं छंदसीति च्लेर्लुक् । छंदस्युभयथेति तिङ आर्धधातुकत्वेन ङित्त्वाभावाद्गुणः । न माङ्योगे (पा ६-४-७४) इत्यडागमप्रतिषेधः । शवसस्पते । शवसः षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु (पा ८-३-५३) इति विसर्जनीयस्य संहितायां सत्वम् । सुबामंत्रितपरांगवद्भावेन (पा २-१-२) पदद्वयनिघातः । नोनुमः । णु स्तुतौ । णो नः (पा ६-१-६५) इति नत्वं यङो लुक् । प्रत्यय लक्षणेन सन्यङोरिति द्विर्भावः । गुणो यङ्लु कोः (पा ७-४-८२) इत्यभ्यासस्य गुणः । प्रत्ययलक्षणेन धातुसंज्ञायां लटो मस् । अदादिवद्भावाच्छपो लुक् । उपसर्गादसमासेऽपि णोपदेशस्य (पा ८-४-१४) इति संहितायां णत्वम् । जेतारम् । जि जये । ताच्छील्यादिषु तृन् । ञ्नित्यादिर्नित्यम् (पा ६-१-१९७) इत्याद्युदात्तत्वम् । अपराजितम् । अव्ययपूर्वपदप्रकृतिस्वरत्वेन नञ उदात्तत्वं ॥ २ ॥

1.11.3
पू॒र्वीरिन्द्र᳚स्य रा॒तयो॒ न वि द᳚स्यन्त्यू॒तयः᳚ ।
यदी॒ वाज᳚स्य॒ गोम᳚तः स्तो॒तृभ्यो॒ मंह᳚ते म॒घम् ॥
▶ पदपाठः (Word-by-word)
पू॒र्वीः । इन्द्र᳚स्य । रा॒तयः᳚ । न । वि । द॒स्य॒न्ति॒ । ऊ॒तयः᳚ ।
यदि᳚ । वाज᳚स्य । गो॑म᳚तः । स्तो॒तृ॑भ्यः᳚ । मंह᳚ते । म॒घम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इंद्रस्य संबंधिन्यो रातयो धनदानानि पूर्वीरनादिकालसिद्धाः प्रभूता वा । अस्येंद्रस्य सर्वदा यष्वृभ्यो धनदानमेव स्वभाव इत्यर्थः । एवं सतीदानींतनोऽपि यजमानः स्तोतृभ्य ऋत्विग्भ्यो गोमतो गोसहितस्य वाजस्यान्नस्य पर्याप्तं मघं धनं यदि मंहते दक्षिणारूपेण दधाति तदानीमूतये बहुधन दानपूर्वकाणींद्रस्यास्मद्विषयाणि रक्षणानि न वि दस्यंति । विशेषेण नोपक्षीयंते । मघं रेक्ण इत्यादिष्वष्टाविंशतिसंख्याकेषु धननामसु मघशब्दः पठितः । दाति दाशतीत्यादिषु दशसु दानकर्मसु मंहत इति पठितं ॥ पूर्वीः । पुरुशब्दस्य वोतो गुणवाचनादिति ङीष् । अद्यस्योकारस्य दीर्घश्चांदसः । जसि दीर्घाज्जसि चेति निषेधं बाधित्वा वा छंदसि (पा ६-१-१०६) इति पूर्वसवर्णदीर्घत्वम् । ङीषः प्रत्ययस्वरेणोदात्तत्वम् । रातयः । मंत्रे वृषेषपचमनविदभूवीरा उदात्तः (पा ३-३-९६) इति क्तिन उदात्तत्वम् । दस्यंति । दसु उपक्षये । दिवादिभ्यः । श्यन् । निघातः । ऊतयः । ऊतियूतीत्यादिना क्तिन्नुदात्तः । यदि । निपातत्वादाद्युदात्तः । संहितायां निपातस्य चेति दीर्घत्वम् । स्तोतृभ्यः । ष्टञ् स्तुतौ । धात्वादेः षः सः । तृचश्चित्त्वा दंतोदात्तत्वम् । मंहते शपः पित्त्वादुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण तिङ्ङतिङ इति निघातो न भवति निपातैर्यद्यदिहंतेति निषेधात् ॥ ३ ॥

1.11.4 समानपद
पु॒रां भि॒न्दुर्युवा᳚ क॒विरमि᳚तौजा अजायत ।
इन्द्रो॒ विश्व᳚स्य॒ कर्म᳚णो ध॒र्ता व॒ज्री पु᳚रुष्टु॒तः ॥
▶ पदपाठः (Word-by-word)
पु॒राम् । भि॒न्दुः । युवा᳚ । क॒विः । अमि᳚त॑ओजाः । अ॒जा॒य॒त॒ ।
इन्द्रः᳚ । विश्व᳚स्य । कर्म᳚णः । ध॒र्ता । व॒ज्री । पु॒रु॒॑स्तु॒तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अभिप्लवषडहस्योक्थ्येषु तृतीयसवनेऽच्छावाकस्य पुरां भिंदुर्युवा कविरिति स्तोत्रियस्तृचः । तथा च सूत्रितम् । एह्यू ष्वित्यु पक्रम्य पुरां भिंदुर्युवाकविर्वृषा ह्यसि राधसे (आ ७-८) इति ॥

अयमिंद्र उच्यमानगुणयुक्तोऽजायत । संपन्नः । कीद्रग्गुणक इति तदुच्यते । पुरामसुरपुराणां भिंदुर्भेत्ता युवा कदाचिदपि वलीपलितादिवार्धकरहितः कविर्मेधावी अमितौजाः प्रभूतबलः विश्वस्य कर्मणः कृत्स्नस्य ज्योतिष्टोमादेर्धर्ता पोषकः वज्री यजमानरक्षणार्थं सर्वदा वज्रयुक्तः । पुरुष्वुतो बहुविधे तत्तत्कर्मणि स्तुतः ॥ भिंदुः । भिदिर् विदारणे । कुरित्यनुवृत्तौ पृभिदिव्यधिधृषिद्रशिभ्यः (उ १-२४) इति कुप्रत्ययः । तस्य छंदस्युभयथेति सार्वधातुकसंज्ञायां रुधादिभ्यः श्नम् (पा ३-१-७८) मित्त्वादंत्यादचः परो भवति (पा १-१-४७) श्नसोरल्लोपः । अनुस्वारपरसवर्णौ (पा ८-४-५८) आचः परस्मिन्पूर्वविधौ (पा १-१-५७) इति प्राप्तस्य स्थानिवद्भावस्य न पदांतेत्यादिना (पा १-१-५८) निषेधः । युवा । यु मिश्रणामिश्रणयोः । कनिन्युवृषितक्षिराजिधन्विद्युप्रतदिवः (उ १-१५६) इति कनिन् । नित्त्वादाद्युदात्तः । कविः । कु शब्दे । अच इः (उ ४-१३८) इतीः । प्रत्ययस्वरः । अमितौजाः । अमितशब्दस्याव्ययपूर्वपदप्रकृतिस्वरत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन तदेव शिष्यते । विश्वस्य । अशिप्रुषीत्यादिना (उ १-१५१) क्वन् । नित्त्वादाद्युदात्तः । कर्मणः । अन्येभ्योऽपि दृश्यंत इति मनिन् । नित्स्वरः । धर्ता । तृच् । चित्तादंतोदात्तः । वज्री । मत्वर्थीय इनिः । प्रत्ययस्वरः । पुरुष्वुतः । स्तुतस्तोमयोश्छंदसि (पा ८-३-१०५) इति षत्वम् । बहुषु प्रदेशेषु स्तुतः । थाथघञ् क्ताजबित्रकाणाम् (पा ६-२-१४४) इत्यंतोदात्तत्वं तृतीयासमासे हि थाथादिस्वरापवादस्तृतीया कर्मणि (पा ६-२-४८) इति पूर्वपदप्रकृतिस्वरः स्यात् ॥ ४ ॥

1.11.5
त्वं व॒लस्य॒ गोम॒तो॑पा᳚वरद्रिवो॒ बिल᳚म् ।
त्वां दे॒वा अबि᳚भ्युषस्तु॒ज्यमा᳚नास आविषुः ॥
▶ पदपाठः (Word-by-word)
त्वम् । व॒लस्य᳚ । गो॑म᳚तः । अप᳚ । अ॒वः॒ । अ॒द्रि॒॑वः॒ । बिल᳚म् ।
त्वाम् । दे॒वाः । अबि᳚भ्युषः । तु॒ज्यमा᳚नासः । आ॒वि॒षुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वलनामकः कश्चिदसुरो देवसंबंधिनीर्गा अपहृत्य कस्मिंश्चिद्बिले गोपितवान् । तदानीमिंदस्तद्बिलं स्वसैन्येन समावृत्य तस्माद्बिलाद्गा निःसारयामास । तदिदमुपाख्यानमिंद्रो वलस्य बिलमपौर्णोत् । तै सं २-१-५-१ । इत्यादिब्राह्मणेषु मंत्रांतरेषु च प्रसिद्धम् । तदेतद्धृधि निधायायं मंत्रः प्रवर्तते ॥ हे अद्रिवो वज्रयुक्तेंद्र त्वं गोमतो वलस्य गोभिर्युक्तस्य वलनामकस्यासुरस्य संबंधि बिलमपावः । स्वसैन्यमुखेनापावृतवानसि । तदानीं तुज्यमानासो वलेन हिंस्यमाना देवा अभिभ्युषस्त्वदीयरक्षया वलादभीताः संतस्त्वामाविषुः । प्राप्तवंतः ॥ अप । निपातत्वादाद्युदात्तः । अवः । वृञ् वरणे । लङ् । सिप् । इतश्च लोपः । स्वादिभ्यः श्नुः । तस्य बहुलं छंदसीति लुक् । गुणो रपरत्वं हल्ङ्यादिलोपः । विसर्जनीयः अडागमः । अद्रिवः । अद्रिरस्यास्तीति मतुप् । छंदसीर इति षत्वम् । संबोधव उगिदचामिति नुम् । हल्ङ्यादिसंयोगांतलोपौ । मतुवसो रुः संबुद्धौ छंदसि पा ८-३-१ । इति रुत्वम् । बिलम् । नब्विषयस्यानिसंतस्येत्याद्युदात्तत्वम् । अभिभ्युषः । ञिभी भये । लिट् । द्विर्भावः । अभ्यासस्य ह्रस्वजश्त्वे । क्वसुश्चेति लिटः क्वसुरादेशः क्रादिनियमात्प्राप्त इट् वस्वेकाजाध्वसामिति नियमान्निवर्तते । जसि सर्वनामस्थानेऽपि व्यत्ययेन भत्वाद्वसोः संप्रसारणम् । परपूर्वत्वम् । शासिवसिघसीनां चेति षत्वम् । अचि श्नुधात्वित्यादिना (पा ६-४-७७) प्राप्तमियङादेशं बाधित्वा एरनेकाच इति यणादेशः । नञ् समासः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । तुज्यमानासः । तुजेहिंसार्थात्परस्य कर्मणि लटः स्थाने शानच् । सार्वधातु के यक् (पा ३-१-६७) इति यक् । तस्माददुपदेशादुत्तरस्य लसार्वधातुकस्यानुदात्तत्वम् । यक एव प्रत्यय स्वरः शिष्यते । आविषुः । अव रक्षणादिषु । अस्माद्गत्यर्थाल्लुङो झिः । तस्य सिजभ्यस्तविदिभ्यश्च (पा ३-४-१०९) इति जुस् । सिच इडागमः । आडजादीनाम् (पा ६-४-७२) इत्याडागमः । आदेशप्रत्यययोरिति षत्वं ॥ ५ ॥

1.11.6
तवा॒हं शू᳚र रा॒तिभि॒ः प्रत्या᳚यं॒ सिन्धु᳚मा॒वद᳚न् ।
उपा᳚तिष्ठन्त गिर्वणो वि॒दुष्टे॒ तस्य᳚ का॒रवः᳚ ॥
▶ पदपाठः (Word-by-word)
तव᳚ । अ॒हम् । शू॒र॒ । रा॒ति॑भिः᳚ । प्रति᳚ । आ॒य॒म् । सिन्धु᳚म् । आ॒॑वद᳚न् ।
उप᳚ । अ॒ति॒ष्ठ॒न्त॒ । गि॒र्व॒णः॒ । वि॒दुः । ते॒ । तस्य᳚ । का॒रवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शूर संग्रामे शौर्ययुक्तेंद्र तव रातिभिः कर्मसु त्वदीयैर्धनदानैर्निमित्तभूतैरहं होता प्रत्यायम् । त्वां पुनरागतोऽस्मि । पुरा बहुषु कर्मसु त्वत्तो धनस्य लब्धत्वादस्मिन्कर्मणि प्रत्यागमनमित्युच्यते । किं कुर्वन् । सिंधुं स्यंदमानं सोममावदन् सर्वतः कथयन् । अस्मिन्सोमयागे त्वदीयां धनदानकीर्तिं प्रकटयन्नित्यर्थः । हे गिर्वणो गीर्भिर्वननीयेंद्र कारवः कर्तार ऋत्विग्यजमाना उपातिष्ठंत । पुरा धनलाभार्थं त्वामुपस्थितवंतः । उपस्थाय च तस्य तादृशस्यौदार्योपेतस्य ते तव धनदानं विदुः । जानंति । गिर्वणश्शब्धं यास्क इत्थं निर्ब्रूते । गिर्वणा देवो भवति गीर्भिरेनं वनयंति (नि ६-१४) इति । रेभो जरितेत्यादिषु त्रयोदशसु स्तोतृनामसु कारुशब्दः पठितः ॥ तव । युष्मदस्मदोर्ङसीत्याद्युदात्तत्वम् । रातिभिः । मंत्रे वृषेत्यादिना क्तिन्नुदात्तः । आयम् । इणो लङ् । तस्थस्थमिपां तांतंतामः (पा ३-४-१०१) इत्यमादेशः । आदिप्रभृतिभ्यः शप इति शपो लुक् । आडागमः । वृद्ध्यायादेशौ । तिङ्ङतिङ इति निघातः । सिंधुम् । स्यंदू प्रस्रवणे । निदित्यनुवृत्तौ स्यंदेः संप्रसारणं धश्च (उ १-१२) इत्युप्रत्ययो धकारश्चांतादेशः । नित्त्वादाद्युदात्तः । आवदन् । वद व्यक्तायां वाचि । लटः शतृ । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण धातुस्वर एव शिष्यते । आङा सह कुगतिप्रादयः (पा २-२-१८) इति समासः । कृदुत्तरपदप्रकृतिस्वरत्वम् । अतिष्ठंत उपान्मंत्रकरणे (पा १-३-२५) इत्यात्मनेपदम् । गिर्वणः । वन षण संभक्तौ । असुन् । आमंत्रितस्य चेति निघातः । विदुः । विद ज्ञाने । लट् । अदिप्रभृतिभ्यः शप इति शपो लुक् । विदो लटो वा (पा ३-४-८३) इति झेरुस् । पादादित्वान्न निघातः । संहितायां युष्म त्तत्ततक्षुःष्वंतःपादम् (पा ८-३-१०३) इति षत्वम् । ष्वुना ष्टुरित्युत्तरस्य तकारस्य ष्टुत्वम् । तस्य । सावेकात इति विभक्तेरुदात्तत्वं प्राप्तं न गोश्वन्साववर्णेति निषिध्यते । कारवः । कृवापाजीत्यादिना । उ १-१- । उण् । प्रत्ययस्वरः ॥ ६ ॥

1.11.7
मा॒याभि᳚रिन्द्र मा॒यिनं॒ त्वं शुष्ण॒मवा᳚तिरः ।
वि॒दुष्टे॒ तस्य॒ मेधि᳚रा॒स्तेषां॒ श्रवां॒स्युत्ति᳚र ॥
▶ पदपाठः (Word-by-word)
मा॒याभिः᳚ । इ॒न्द्र॒ । मा॒यिन᳚म् । त्वम् । शुष्ण᳚म् । अव᳚ । अ॒ति॒रः॒ ।
वि॒दुः । ते॒ । तस्य᳚ । मेधि᳚राः । तेषा᳚म् । श्रवां᳚सि । उत् । ति॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र त्वं मायिनं नानाविधकपटोपेतं शुष्णं भूतानां शोषणहेतुमेतन्नामकमसुरं मायाभिस्तत्प्रतिकूलैः कपटविशेषैः । यद्वा । तद्वधोपायगोचरप्रज्ञाभिः । अवातिरः । हिंसितवानसि । एतच्च यास्केनोक्तम् । इंद्रः शुष्णं जघान (नि ३-११) इति । शुष्णं पिप्रुम् । ऋग्वे । १-१०३-८ । इत्यादिमंत्रे चायमर्थो विस्पष्टम् । मेधिरा मेधावंतोऽनुष्ठातारस्तस्य तादृशस्यते तव महिमानं विदुः । जानंति । तेषां जानतामनुष्ठातृणां श्रवांस्यन्नान्युत्तिर । वर्धय । केतः केतुरित्यादिष्वेकादशसु प्रज्ञानामसु मया वयुनमिति पठितम् । श्रवःशब्दं यास्को निर्वक्तिः । श्रव इत्यन्ननाम श्रूयत इति सतः । नि १०-३ । इति ॥ मायाभिः । माङ् मानॆ माच्छाससिसूभ्यो यः (उ ४-१०९) इति यप्रत्ययः । प्रत्ययस्वरः । मायिनम् । मायास्यास्तीति मायी । व्रीह्यादित्वादिनिप्रत्ययः (पा ५-२-११६) प्रत्ययस्वरः । शुष्णम् । शुष शोषणे । अस्मादंतर्भावितण्यर्थान्निदित्यनुवृत्तौ तृषिशुषिरसिभ्यः किच्च । उ ३ । १२ । इति नप्रत्ययः नित्त्वादाद्युदात्तः । अतिरः । तरतेर्लङि व्यत्ययेन शः । तस्य ङित्वेन गुणाभावादृत इद्दातोरितीत्वम् । रपरत्वम् । विदुष्टे तस्य । गतमंत्रे गतं मेधिराः । मिधृ मेधृ मेधाहिंसनयोः । औणादिक इरन् । नित्त्वादाद्युदात्तः । श्रवांसि । नब्विषयत्त्वादाद्युदात्तः ॥ ७ ॥

1.11.8
इन्द्र॒मीशा᳚न॒मोज᳚सा॒भि स्तोमा᳚ अनूषत ।
स॒हस्रं॒ यस्य᳚ रा॒तय᳚ उ॒त वा॒ सन्ति॒ भूय᳚सीः ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚म् । ईशा᳚नम् । ओज᳚सा । अ॒भि । स्तोमाः᳚ । अ॒नू॒ष॒त॒ ।
स॒हस्र᳚म् । यस्य᳚ । रा॒तयः᳚ । उ॒त । वा॒ । सन्ति᳚ । भूय᳚सीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्तोमाः स्तोतार ऋत्विज ओजसा बलेनेशानं जगतो नियामकमिंद्रमभ्यनूषत । सर्वत्र स्तुतवंतः । यस्येंद्रस्य रातयो धनदानानि सहस्रं सहस्रसंख्योपेतानि संति । उत वाथवा भूयसीः सहस्रसंख्याया अप्यधिकाः संति । तमिंद्रमिति पूर्वत्रान्वयः ॥ इंद्रम् । ऋज्रेंद्रेत्यादिना रन् । नित्त्वादाद्युदात्तः । ईशानम् । लटः शानच् । अदिप्रभृतिभ्यः शप इति शपो लुक् । धातोरनुदात्तेत्त्वात्तास्यनुदात्तेत्यादिनाशानचोऽनुदात्तत्वम् । ओजसा । नब्विषयत्वादाद्युदात्तः । स्तोमाः । अर्तिस्तुस्वित्यादिना मन्प्रत्ययः । नित्त्वादाद्युदात्तः । अनूषत । णु स्तुतौ । णो नः । लुङ् । व्यत्ययेन झः । तस्यादादेशः (पा ७-१-५) च्लेः सिच् । अस्य धातोः कुटादित्वेन सि चो ङित्वाद्गुणाभावः । इडभावश्छांदसः । दीर्घत्वं च । अडागमः । सहस्रम् । कर्दमादीनां च (फि ३-१०) इति द्वितीयाक्षरमुदात्तम् । रातयः । मंत्रे वृषेत्यादिना क्तिन्नुदात्तः । उत । प्रातिपदिकस्वरः । वा । चादिरनुदात्तः । संति । प्रत्ययाद्युदात्तत्वम् । तिङ्ङतिङ इति निघातो न भवति यद्वृत्तान्नित्यमिति प्रतिषेधात् । स हि व्यवहितेऽपि भवतीत्युक्तम् । भूयसीः । सहस्रादतिशयेन बह्व्यो भूयस्यः । अत्र विभक्तव्यस्य सहस्रस्य संनिधिबलादुपपदत्वप्रतीतेर्द्विवचनविभज्योपपदे तरबीयसुनौ (पा ५-३-५७) इति बहुशब्दादीयसुन् । बहोर्लोपो भू च बहोः (पा ६-४-१५८) इतीकारलोपः । प्रकृतेर्भू इत्यादेशश्च । ईयसुनो नित्त्वादाद्युदात्तत्वम् । उगितश्चेति ङीप् ॥ २१ ॥ ८ ॥