प्रथमं मण्डलम् - सूक्तम् 64

15 ऋचः

ऋषिः: नोधा गौतमः देवता: मरुतः छन्दः: जगती

सूक्तम् 1.64 - सम्पूर्णम्

1 / 15
ऋक्: 1.64.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (15)
1.64.1
वृष्णे॒ शर्धा᳚य॒ सुम᳚खाय वे॒धसे॒ नोधः᳚ सुवृ॒क्तिं प्र भ᳚रा म॒रुद्भ्य᳚ः ।
अ॒पो न धीरो॒ मन᳚सा सु॒हस्त्यो॒ गिर॒ः सम᳚ञ्जे वि॒दथे᳚ष्वा॒भुवः᳚ ॥
▶ पदपाठः (Word-by-word)
वृष्णे᳚ । शर्धा᳚य । सु॑म᳚खाय । वे॒धसे᳚ । नोधः᳚ । सु॒॑वृ॒क्तिम् । प्र । भ॒र॒ । म॒रुत्॑भ्यः᳚ ।
अ॒पः । न । धीरः᳚ । मन᳚सा । सु॒॑हस्त्यः᳚ । गिरः᳚ । सम् । अ॒ञ्जे॒ । वि॒दथे᳚षु । आ॒॑भुवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृष्णे शर्धायेति पंचदशर्चं सप्तमं सूक्तम् । नोधस आर्षं मारुतम् । अंत्या त्रिष्टुप् । शिष्वाचतुर्दश जगत्यः । तथा चानुक्रांतम् । वृष्णे पंचोना मारुतं त्रिष्टुबंतमिति ॥ चातुर्विंशिकेऽहन्नाग्नि मारुत इदं मारुतं निविद्धानीयम् । सूत्रितं च । पृक्षस्य वृष्णो वृष्णे शर्धाय । यज्ञेन वर्धतेत्याग्निमारुतम् (आ ७-४) इति ॥ आभिप्लविके पंचमेऽहन्यप्येतदाग्निमारुते मारुतनिविद्धानम् । सूत्रितं च । पृक्षस्य वृष्णो वृष्णे शर्धाय नू चित्सहोजा इत्याग्निमारुतम् । अ । ७-७ । इति ॥

अत्र पूर्वार्धेन स्तुतौ नोधाः प्रेर्यते । हे नोधो वृष्णे कामानां वर्षित्रे सुमखाय शोभनयज्ञाय वेधसे पुष्पफलादीनां कर्त्रे । वायौ सति हि पुष्पाणि फलानि चोत्पद्यंते । एवंविधाय मरुद्भ्यः । विभक्तिव्यत्ययः । मरुतां मितराविणां शर्धाय समूहाय सुवृक्तिं सुष्ट्वावर्जकं सुष्ठु प्रवृत्तं वा स्तोत्रं प्र भर । प्रेरय । स्तुहीति यावत् । स्तुतौ प्रेरितो नोधा आह । धीरो धीमान् सुहस्त्यः शोभनांगुलियक्तः । कृतांजलिरित्यर्थः । एवंभूतोऽहं मनसा गिरः स्तुतिलक्षणा वाचः समंचे । सम्यग्व्यक्ताः करोमि । या गिरो विदथेषु यज्ञेष्वाभुवः । अङ् मर्यादायाम् । यथाशास्त्रं प्रयुक्ता भवंतीत्याभुवः । देवताभिमुखीकरणाय समर्थाः । यज्ञयोग्यैः स्तोत्रैर्मनः पूर्वकं मरुद्गणं स्तौमीति भावः । तत्र दृष्टांतः । अपो न । यथा पर्जन्यो युगपदेव बहुषु प्रदेशेषु बहुशो जलानि वर्षति तद्वत् ॥ वृष्णे । वृषु सेचने । कनिन्युवृषितक्षीत्यादिना कनिन्प्रत्ययः । कित्त्वाद्गुणाभावो नित्त्वादाद्युदात्तत्वम् । चतुर्थ्येकवच नेऽल्लोपोऽन इत्यकारलोपः । शर्धाय ॥ शृधु प्रसहने । शर्ध्यते प्रसह्यतेऽनेन पर्वतादिकमिति शर्धो मरुत्संघः । करणे घञ् । ञित्त्वादाद्युदात्तत्वम् । सुमखाय । शोभनो मखो यस्य । नञ्सुभ्यामिति प्राप्ते व्यत्ययेन पूर्वपदप्रकृतिस्वरत्वम् । नोधः । पादादित्वात् षाष्ठिकमामंत्रिताद्युदात्तत्वम् । सुहस्त्यः । हस्ते भव हस्त्याः । भवे छंदसीति यत् । यतो नाव इत्याद्युदात्तत्वम् । ततः सुशब्देन बहुव्रीहावाद्युदात्तं द्व्यच्छंदसीत्युत्तरपदाद्युदात्तत्वं ॥ १ ॥

1.64.2
ते ज᳚ज्ञिरे दि॒व ऋ॒ष्वास᳚ उ॒क्षणो᳚ रु॒द्रस्य॒ मर्या॒ असु᳚रा अरे॒पसः᳚ ।
पा॒व॒कास॒ः शुच᳚य॒ः सूर्या᳚ इव॒ सत्वा᳚नो॒ न द्र॒प्सिनो᳚ घो॒रव᳚र्पसः ॥
▶ पदपाठः (Word-by-word)
ते । ज॒ज्ञि॒रे॒ । दि॒वः । ऋ॒ष्वासः᳚ । उ॒क्षणः᳚ । रु॒द्रस्य᳚ । मर्याः᳚ । असु᳚राः । अ॒रे॒पसः᳚ ।
पा॒व॒कासः᳚ । शुच᳚यः । सूर्याः᳚॑इव । सत्वा᳚नः । न । द्र॒प्सिनः᳚ । घो॒र॑व᳚र्पसः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ते मरुतो दिवोऽंतरिक्षाज्जज्ञिरे । प्रादुर्बभूवुः । कीदृशाः । ऋष्वासो दर्शनीयाः उक्षणः सेक्तारः । युवान इत्यर्थः । रुद्रस्य मर्याः । मर्यशब्दो मनुष्यवाचीह मरुतां मर्त्यत्वासंभवात्पुत्रा इत्यस्मिन्नर्थे पर्यवस्यति । मरुतां रुद्रपुत्रत्वं च मंत्रांतरे स्पष्टम् । आ ते पितर्मरुतां सुम्नमेतु । ऋग्वे २-३३-१ । इति । असुराः शत्रूणां निरसितारः अरेपसः । रेप इति पापनाम । पापरहिताः पावकासः सर्वेषां शोधकाः सूर्या इव शुचयो दीप्ताः सत्वानो न यथा परमेश्वरस्य भूतगणा अतिशयेन बलपराक्रमाः । तत्सदृशा इत्यर्थः । सत्वान इति भूतगणा उच्यंते । अथो ये अस्य सत्वानः । तै सं ४-५-१-३ । इत्यादौ तथा दर्शनात् । द्रप्सिनो वृष्ट्यदकबिंदुभिर्युक्ताः । मरुतः स्रष्टां वृष्विं नयंतीति श्रुतेः । तै सं २-४-१०-२ । घोरवर्पसः । वर्प इति रूपनाम । घोररूपाः । शत्रूणां भयंकररूपा इत्यर्थः । यद्वा । सत्वानो न घोरवर्पसः । यथा भूतगणा भयंकररूपास्तद्वदेतेऽपीत्यर्थः ॥ ऋष्वासः । ऋषी गतौ । गत्यर्था बुद्ध्यर्था इत्यत्र ज्ञानार्थः । सर्वनिघृष्टेत्यादौ (उ १-१५३) वप्रत्ययांतो निपातितः । आज्जसेरसुक् । उक्षणः । वा ष पूर्वस्य निगम इत्युपधादीर्घाभावः । अरेपसः । बहुव्रीहौ । नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । सत्वानः । षद्लृ विशरणगत्यवसादनेषु । प्र ईरसद्योस्तुट्च (उ ४-११६) इति विधीयमानः क्वनिप्प्रत्ययो बहुलवचनात्केवलादपि भवति । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते ॥ २ ॥

1.64.3
युवा᳚नो रु॒द्रा अ॒जरा᳚ अभो॒ग्घनो᳚ वव॒क्षुरध्रि᳚गाव॒ः पर्व᳚ता इव ।
दृ॒ळ्हा चि॒द्विश्वा॒ भुव᳚नानि॒ पार्थि᳚वा॒ प्र च्या᳚वयन्ति दि॒व्यानि᳚ म॒ज्मना᳚ ॥
▶ पदपाठः (Word-by-word)
युवा᳚नः । रु॒द्राः । अ॒जराः᳚ । अ॒भो॒क्॑हनः᳚ । व॒व॒क्षुः । अध्रि᳚॑गावः । पर्व᳚ताः॑इव ।
दृ॒ळ्हा । चि॒त् । विश्वा᳚ । भुव᳚नानि । पार्थि᳚वा । प्र । च्य॒व॒य॒न्ति॒ । दि॒व्यानि᳚ । म॒ज्मना᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

युवानस्तरुणा रुद्रा रुद्रपुत्रा अजरा जरारहिता अभोग्घनो ये देवान्हविर्भिर्न भोजयंति तेषां हंतारः अध्रिगावोऽधृतगमनाः परैरनिवारितगतयः पर्वता इव दृढांगाः एवंभूता मरुतो ववक्षुः । स्तोतृणामभिमतं प्रापयितुमिच्छंति । अपि च विश्वा सर्वाणि भुवनानि सद्भावं प्राप्तानि पार्थिवा पृथिव्यां भवानि दिव्यानि दिवि भवानि च वसूनि दृळ्हा चित् दृढान्यपि मज्मना । मज्मनेति बलनाम । मज्मना शोधकेन बलेन प्रच्यावयंति । प्रचालयंति ॥ अभोग्घनः । भोजयंतीति भोजः । न भोजोऽभोजः । तेषां हंतारः । बहुलं छंदसीति हंतेः क्विप् । झयो होऽन्यतरस्याम् (पा ८-४-६२) इति हकारस्य घत्वम् । इन्हन्पूषार्यम्णां शौ (पा ६-४-१२) इति नियमाद्दीर्घाभावः । ववक्षुः । वह प्रापणे । अस्मादिच्छासन्येकाच इतीट्प्रतिषेधः । द्विर्भावः । ढत्वकत्वषत्वानि । सन्यत इतीत्वाभावश्छांदसः । लिट्युस्यमंत्रे (पा ३-१-३५) इति निषेधादाम्प्रत्ययाभावेऽतो लोप इत्यकारलोपः । प्रत्ययस्वरः । पादादित्वान्निघाताभावः ॥ ३ ॥

1.64.4 समानपद
चि॒त्रैर॒ञ्जिभि॒र्वपु᳚षे॒ व्य᳚ञ्जते॒ वक्ष᳚स्सु रु॒क्मा{4} अधि᳚ येतिरे शु॒भे ।
अंसे᳚ष्वेषां॒ नि मि᳚मृक्षुरृ॒ष्टयः᳚ सा॒कं ज᳚ज्ञिरे स्व॒धया᳚ दि॒वो नरः᳚ ॥
▶ पदपाठः (Word-by-word)
चि॒त्रैः । अ॒ञ्जि॑भिः᳚ । वपु᳚षे । वि । अ॒ञ्ज॒ते॒ । वक्षः᳚॑सु । रु॒क्मान् । अधि᳚ । ये॒ति॒रे॒ । शु॒भे ।
अंसे᳚षु । ए॒षा॒म् । नि । मि॒मृ॒क्षुः॒ । ऋ॒ष्टयः᳚ । सा॒कम् । ज॒ज्ञि॒रे॒ । स्व॒धया᳚ । दि॒वः । नरः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वपुरिति रूपनाम । वपुषे रूपाय शोभार्थं मरुतश्चित्रैर्नानाविधैरंजिभीरूपाभिव्यंजनसमर्थैराभरणैः स्वशरीराणि व्यंजते । व्यक्तं कुर्वंति । अलंकुर्वंतीत्यर्थः । वक्षःसु भजांतरेषु रुक्मान् रोचमानान्हारानधि येतिरे । उपरि चक्रिरे । किमर्थं शुभे शोभनार्थम् । अपि चैषां मरुतामंसेष्वृष्टय आयुधानि नि मिमृक्षुः निमृष्टाः स्थिता बभूवुः । तैरायुधैः सहिता नरो नेतारो मरुतो दिवोऽंतरिक्षात्स्वधया स्वकीयेन बलेन साकं सह जज्ञिरे । प्रादुर्बर्भूवुः ॥ येतिरे । यती प्रयत्ने । लिट्यत एकहल्मध्य इत्येत्वाभ्यासलोपौ । शुभे । शुभ दीप्तौ । संपदादिलक्षणो भावे क्विप् । सावेकाच इति चतुर्थ्या उदात्तत्वम् । मिमृक्षुः । मृजूष् शुद्धौ । सन्यूदित्त्वादिडभावः । हलंताच्चेति सनः कित्त्वाद्गुणाभावः । द्विर्वचनादि । सन्यत इतीत्वं लिट्युस्यतो लोप इत्याकारलोपः जज्ञिरे । जनी प्रादुर्भावे । लिट गमहनेत्यादिनोपधालोपः ॥ ४ ॥

1.64.5
ई॒शा॒न॒कृतो॒ धुन᳚यो रि॒शाद᳚सो॒ वाता᳚न्वि॒द्युत॒स्तवि᳚षीभिरक्रत ।
दु॒हन्त्यूध᳚र्दि॒व्यानि॒ धूत᳚यो॒ भूमिं᳚ पिन्वन्ति॒ पय᳚सा॒ परि᳚ज्रयः ॥
▶ पदपाठः (Word-by-word)
ई॒शा॒न॒॑कृतः᳚ । धुन᳚यः । रि॒शाद᳚सः । वाता᳚न् । वि॒॑द्युतः᳚ । तवि᳚षीभिः । अ॒क्र॒त॒ ।
दु॒हन्ति᳚ । ऊधः᳚ । दि॒व्यानि᳚ । धूत᳚यः । भूमि᳚म् । पि॒न्व॒न्ति॒ । पय᳚सा । परि᳚॑ज्रयः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ईशानकृतः स्तोतारमीशानं धनाधिपतिं कुर्वाणा धुनयो मेघादीनां कंपयितारो रिशादसो रिशानां हिंसकानामत्तारः । यद्वा रिशतां हिंसतामसितारो निरसितारः । एवंभूता मरुतस्तविषिभिराश्मीयैर्बलैर्वातान् पुरो वातादीन् विद्युतो विद्योतमानास्तडितश्चाक्रत । कुर्वंति । कृत्वा च परिज्रयः परितो गंतारो धूतयः । कंपयितारो मरुतो दिव्यानि दिविभवान्यूधरूधस्थानीयान्यभ्राणि दुहंति । रिक्तीकुर्वंति । जलरहितानि कुर्वंतीत्यर्थः । तदनंतरं भूमिं पयसा मेघान्निर्गतेनोदकेन जलेन पिन्वंति । सिंचंति ॥ रिशादसः । रिश हिंसायाम् । इगुपधलक्षणः कः । रिशंति हिंसंतीति रिशाः शत्रवः । तानदंतीति रिशादसः । असुन् । नित्त्वादाद्युदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । यद्वा । रिशच्छब्धाच्छत्रंतादसु क्षेपण इत्यस्मात् क्विप् । व्यत्ययेन पूर्वपदस्योपधादीर्घः । अंतोदात्तत्वं च । अक्रत । करोतेश्छांदसो वर्तमाने लुङ् । मंत्रे घसेति च्लेर्लुक् । ऊधः । सुपां सुलुगिति विभक्तेर्लुक् ॥ ५ ॥

1.64.6
पिन्व᳚न्त्य॒पो म॒रुतः᳚ सु॒दान᳚व॒ः पयो᳚ घृ॒तव᳚द्वि॒दथे᳚ष्वा॒भुवः᳚ ।
अत्यं॒ न मि॒हे वि न᳚यन्ति वा॒जिन॒मुत्सं᳚ दुहन्ति स्त॒नय᳚न्त॒मक्षि᳚तम् ॥
▶ पदपाठः (Word-by-word)
पिन्व᳚न्ति । अ॒पः । म॒रुतः᳚ । सु॒॑दान᳚वः । पयः᳚ । घृ॒त॑व᳚त् । वि॒दथे᳚षु । आ॒॑भुवः᳚ ।
अत्य᳚म् । न । मि॒हे । वि । न॒य॒न्ति॒ । वा॒जिन᳚म् । उत्स᳚म् । दु॒ह॒न्ति॒ । स्त॒नय᳚न्तम् । अक्षि᳚तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

मरुत्वतीयशस्त्रे पिन्वंत्यप इत्येषा ध्याय्या । सूत्रितं च । अग्निर्नेता त्वं सोम क्रतुभिः पिन्वंत्यप इति धाय्याः (आ ५-१४) इति ॥

सुदानवः शोभनदाना मरुतः पयः क्षीरवत् सारवतीरपः पिन्वंति । सिंचंति । आभुवः । आभवंतीत्याभुव ऋत्विजः । ते विधथेषु यज्ञेषु घृतवत् । यथा घृतं सिंचंत्येवं मरुतोऽपि वृष्टिं कुर्वंतीति भावः । तत्र हेतुमाह । अत्यं न यथाश्वं सादिनो विनयंति युद्धार्थं शिक्षंत्येवं मरुतो वाजिनं वेगवंतं मेघं मिहे वर्षणाय वि नयंति । स्वाधीनं कुर्वंतीति भावः । विनीय च स्तनयंतं गर्जंतमक्षितमक्षीणमुत्सम् । उत्सवंत्यस्मादाप इत्युत्सो मेघः । तं दुहंति । रिक्तीकुर्वंति ॥ सुदानवः । नुप्रत्ययांतो दानुशब्द आद्युदात्तः । बहुव्रीहावाद्युदात्तम् । द्व्यच्छंदसीत्युत्तरपादाद्युदात्तत्वम् । मिहे । मिह सेचने । संपदादिलक्षणो भावे क्विप् । सावेकाच इति विभक्तिरुदात्ता । स्तनयंतम् । स्तन शब्दे । चुरादिरदंतः । अतो लोपस्य स्थानिवद्भावाद्वृद्ध्याद्यभावः ॥ ६ ॥

1.64.7
म॒हि॒षासो᳚ मा॒यिन᳚श्चि॒त्रभा᳚नवो गि॒रयो॒ न स्वत᳚वसो रघु॒ष्यदः᳚ ।
मृ॒गा इ᳚व ह॒स्तिनः᳚ खादथा॒ वना॒ यदारु᳚णीषु॒ तवि᳚षी॒रयु᳚ग्ध्वम् ॥
▶ पदपाठः (Word-by-word)
म॒हि॒षासः᳚ । मा॒यिनः᳚ । चि॒त्र॑भा᳚नवः । गि॒रयः᳚ । न । स्व॑त᳚वसः । र॒घु॒॑स्यदः᳚ ।
मृ॒गाः॑इ᳚व । ह॒स्तिनः᳚ । खा॒द॒थ॒ । वना᳚ । यत् । आरु᳚णीषु । तवि᳚षीः । अयु᳚ग्ध्वम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

महिष इति महन्नाम । महिषासो महांतः । मायेति ज्ञाननाम । मायिनः प्राज्ञाश्चित्रभानवः शोभनदीप्तयो गिरयो न स्वतवसः पर्वता इव स्वकीयेन बलेन युक्ता रघुष्यदः शीघ्रगमना हे मरुत एवंभूतगुणविशिष्टा यूयं हस्तिनो हस्तवंतो मृगा इव गजा इव वना वनानि वृक्षजातानि खादथ । भक्षयथ । प्रभंक्थेति यावत् । यद्यस्मादारुणीष्वरुणवर्णासु वडवासु तविषीर्बलान्ययुग्ध्वं संयोजितवंतः । तस्माद्भवतामिव वाहनस्यापि प्रबलत्वात्संयुक्ता भवंतः सर्वं भंजंतीत्यर्थः ॥ रघुष्यदः । स्यंदू प्रस्रवणे । रघु शीघ्रं स्यंदंते गच्छंतीति रघुष्यदः । क्विप्चेति क्विप् । अनिदितामिति नलोपः । वालमूललघ्वलमिति लत्वविकल्पः । मं ८-२-१८ । कृदुत्तरपदप्रकृतिस्वरत्व । खादथ । खादृ भक्षणे । अयुग्ध्वम् । युजिर् योगे । लुङि च्लेः सिच् । एकाच इतीट् प्रतिषेधः । धि च (पा ८-२-२५) इति सकारलोपः । चोः कुरिति कुत्वम् । अडागम उदात्तः यद्वृत्तयोगादनिघातः ॥ ७ ॥

1.64.8
सिं॒हा इ᳚व नानदति॒ प्रचे᳚तसः पि॒शा इ᳚व सु॒पिशो᳚ वि॒श्ववे᳚दसः ।
क्षपो॒ जिन्व᳚न्त॒ः पृष᳚तीभिरृ॒ष्टिभि॒ः समित्स॒बाध॒ः शव॒साहि᳚मन्यवः ॥
▶ पदपाठः (Word-by-word)
सिं॒हाः॑इ᳚व । ना॒न॒द॒ति॒ । प्र॑चे᳚तसः । पि॒शाः॑इ᳚व । सु॒॑पिशः᳚ । वि॒श्व॑वे᳚दसः ।
क्षपः᳚ । जिन्व᳚न्तः । पृष᳚तीभिः । ऋ॒ष्टि॑भिः᳚ । सम् । इत् । स॒॑बाधः᳚ । शव᳚सा । अहि᳚॑मन्यवः ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रचेतसः प्रकृष्टज्ञाना मरुतः सिंहा इव नानदति । भृशं शब्दं कुर्वंति । यथा सिंहा गिरिगह्वरेषु गंभीरं शब्धं कुर्वंति एवं मरुत्स्वप्यागतेषु गंभीरः शब्द उत्पद्यत इति भावः । तथा सुपिशः शोभनावयवाः शोभनालंकारा वा । तत्र दृष्टांतः । पिशा इव । पिश इति रुरुनाम । यथा रुरवः । स्वशरीरगतैः श्वेतविंदुभिरलंकृतास्तद्वत् । विश्ववेदसः सर्वज्ञाः क्षपः शत्रूणां क्षपयितारो जिन्वंतः स्तोतृन्प्रीणयंतः शवसा बलेनाहिमन्यव आहननशीलमन्युयुक्ताः । यद्विषयः कोपो जायते तस्य हनने समर्था इत्यर्थः । यद्वा । मननं ज्ञानं मन्युः । अहीनज्ञानाः । उत्कष्टबुद्धय इत्यर्थः । एवंभूता मरुतः पृषतीभिः । पृषत्य इति मरुतां वाहनस्याख्या । पृषत्यः श्वेतविंद्वंकिता मृग्य इत्यैतिहासिकाः । नानावर्णा मेघमाला इति नैरुक्ताः । ताभिर्ऋष्टिभिरायुधैश्च सहिताः संतः सबाधः शत्रुभिर्बाधितान्यजमानान् समित् समानमेव युगपदेव रक्षितुमागच्छंतीति शेषः ॥ नानदति । नद अव्यक्ते शब्दे । अस्माद्यङ् लुगंताल्लट् । पिशा इव । पिश अवयवे । इगुपधलक्षणः कः । सुपिशः । सुपूर्वात्पिश अवयव इत्यस्मात् क्विप्चेति क्विप् । पृषतीभिः । पृषु सेचने । वर्तमाने पृषद्बृहन्महज्जगच्छतृवच्च (उ २-८४) इति शतृवद्भावादुगिशश्चेति ङीप् । अत एव शतुरनुम इति नद्या उदात्तत्वे प्राप्ते बृहन्महतोरुपसंख्यानमिति नियमात्तस्याभावः ॥ ८ ॥

1.64.9
रोद᳚सी॒ आ व᳚दता गणश्रियो॒ नृषा᳚चः शूरा॒ः शव॒साहि᳚मन्यवः ।
आ व॒न्धुरे᳚ष्व॒मति॒र्न द᳚र्श॒ता वि॒द्युन्न त᳚स्थौ मरुतो॒ रथे᳚षु वः ॥
▶ पदपाठः (Word-by-word)
रोद᳚सी॒ इति᳚ । आ । व॒द॒त॒ । ग॒ण॒॑श्रि॒यः॒ । नृ॑सा᳚चः । शू॒राः॒ । शव᳚सा । अहि᳚॑मन्यवः ।
आ । व॒न्धुरे᳚षु । अ॒मतिः᳚ । न । द॒र्श॒ता । वि॒॑द्युत् । न । त॒स्थौ॒ । म॒रु॒तः॒ । रथे᳚षु । वः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे गणश्रियो गणशः श्रयमाणाः सप्तगणरूपेणावस्थिता नृषाचो नृन् यजमानान्हविःस्वीकरणाय सेवमानाः शूराः शौर्येपेता एवंभूता हे मरुतः शवसा बलेनाहिमन्यव आहननस्वभावकोपयुक्ताः संतो रोदसी द्यावापृथिव्यावा वदत । आ समंताच्छब्दयत । युष्मदागमने सति भवदीयशब्देन द्यावापृथिव्यौ पूर्णे कुरुतेति भावः । किंच हे मरुतो वो युष्माकं तेजो वंधुरेषु । बंधककाष्ठानिर्मितं सारथेः स्थानं वंधुरमित्युच्यते । तद्युक्तेषु रथेष्वा तस्थौ । आतिष्ठति । अवस्थितं सत्सर्वैर्दृश्यते । तत्र दृष्टांतद्वयमुच्यते । अमतिर्न । अमतिरिति रूपनाम । यथा निर्मलं रूपं सर्वैर्दृश्यते । दर्शता विद्युन्न । यथा वा दर्शनीया विद्युन्मेघस्था सर्वैदृर्श्यते । एवं रथे स्थितानां युष्माकं ज्योतिरपि सर्वैर्दृश्यत इत्यर्थः ॥ वदत । ऋचि तुनुघेत्यादिना दीर्घः । नृषाचः । पादादित्वादामंत्रिताद्युदात्तत्वम् । अमतिः । अम गत्यादिषु । अमेरतिः (उ ४-५९) इत्यौणादिकोऽतिप्रत्ययः । प्रत्ययाद्युदात्तत्वम् । दर्शता । भृमृदृशीत्यादिनातच् प्रत्ययः । चित्त्वादंतोदात्तत्वं ॥ ९ ॥

1.64.10
वि॒श्ववे᳚दसो र॒यिभि॒ः समो᳚कस॒ः सम्मि᳚श्लास॒स्तवि᳚षीभिर्विर॒प्शिनः᳚ ।
अस्ता᳚र॒ इषुं᳚ दधिरे॒ गभ᳚स्त्योरन॒न्तशु᳚ष्मा॒ वृष᳚खादयो॒ नरः᳚ ॥
▶ पदपाठः (Word-by-word)
वि॒श्व॑वे᳚दसः । र॒यि॑भिः᳚ । सम्॑ओ᳚कसः । सम्॑मि᳚श्लासः । तवि᳚षीभिः । वि॒॑र॒प्शिनः᳚ ।
अस्ता᳚रः । इषु᳚म् । द॒धि॒रे॒ । गभ᳚स्त्योः । अ॒न॒न्त॑शु᳚ष्माः । वृष᳚॑खादयः । नरः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्ववेदसः सर्वज्ञा रयिभिर्धनैः समोकसः समाननिवासाः समवेता वा धनाधिपतय इत्यर्थः । तविषीभिर्बलैः संमिश्लासः संमिश्राः । संयुक्ता इत्यर्थः । विरप्शिनः । महन्नामैतत् । महांतः । अस्तारः शत्रूणां निरसितारं अनंतशुष्मा अनवच्छिन्नबलाः वृषखादयः । वृषेंद्रः खाधिरायुधस्थानीयो येषां ते तथोक्ताः । यद्वा । वृषा सोमः खादि खाद्यः पेयो येषां ते । नरो नेतारः । एवं भूता मरुतः । गभस्तिरिति बाहुनाम । गभस्त्योर्बाह्वोरिषुं दधिरे । शत्रूणां निरसनाय धनुर्बाणाधिकमायुधं धारयंति ॥ समोकसः । उच समवाये । आसुनि बहुलवचनात्कुत्वमित्योक उचः के (पा ७-३-६४) इत्यत्रोक्तम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । संमिश्लासः । कपिलकादित्वाल्लत्वम् । विरप्शिनः । रप लप व्यक्तायां वाचि । विपूर्वादस्माद्बहुलवचनात् शक्प्रत्ययः । विविधं शब्धं रपंतीति विरप्शाः स्तोतारः । त एषां संतीति विरप्शिनः । यद्वा । विविधं रपणं विरप्शम् । तदेषामस्तीति । मरुतो हि विविधं शब्दं कुर्वते । इनिप्रत्ययस्वरः । अस्तारः । ताच्छीलिकस्तृन् । इडभावश्छांदसः । नित्त्वादाद्युदात्तत्वम् । अनंतशुष्माः । नास्त्यंतोऽस्येत्यनंतः । नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । अनंतः शुष्मो बलं येषाम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । वृषखादयः । खादृ भक्षणे औणादिक इन्प्रत्ययः । वृषञ्शब्दः कनिन्प्रत्ययांत आद्युदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ ७ ॥ १० ॥

1.64.11
हि॒र॒ण्यये᳚भिः प॒विभि᳚ः पयो॒वृध॒ उज्जि᳚घ्नन्त आप॒थ्यो॒३॒᳚ न पर्व᳚तान् ।
म॒खा अ॒यासः᳚ स्व॒सृतो᳚ ध्रुव॒च्युतो᳚ दुध्र॒कृतो᳚ म॒रुतो॒ भ्राज᳚दृष्टयः ॥
▶ पदपाठः (Word-by-word)
हि॒र॒ण्यये᳚भिः । प॒वि॑भिः᳚ । प॒यः॒॑वृधः᳚ । उत् । जि॒घ्न॒न्ते॒ । आ॒॑प॒थ्यः᳚ । न । पर्व᳚तान् ।
म॒खाः । अ॒यासः᳚ । स्व॒॑सृतः᳚ । ध्रु॒व॒॑च्युतः᳚ । दु॒ध्र॒॑कृतः᳚ । म॒रुतः᳚ । भ्राज᳚त्॑ऋष्टयः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मरुतो हिरण्ययेभिः सुवर्णमयैः । यद्वा । हितरमणीयैः पविभिः रथानां चक्रैः पर्वतान्पर्ववतो मेघान् यद्वा शिलोच्चयानुज्जिघ्नंते । ऊर्ध्वं गमयंति । स्थानात्प्रच्यावयंतीत्यर्थः । तत्र दृष्टांतः । पथ्यो न । यथा पथि गच्छन्रथो मार्ग आस्थितं तृणवृक्षादिकं चूर्णीकृत्योर्ध्वं नयति गमयति । यद्वा । यथा संयुक्ता गजा मार्गस्थितं वृक्षादिकं भग्नं कुर्वंति । कीदृशा मरुतः । पयोवृधः । पयसो वृष्ट्युदकस्य वर्धयितारः । यद्वा । पृश्नेः पयसा वर्धमानाः । पृश्नियैः वै पयसो मरुतो जाताः । तै सं २-२-११-४ । इति श्रूयते । मखाः । मख इति यज्ञनाम । तद्वंतः । अयासो देवयजनदेशं प्रति गंतारः स्वसृतः शत्रून्प्रति स्वयमेव संरतो गच्छंतः ध्रुवच्युतो ध्रुवाणां निश्चलानां पर्वतादिनामपि च्यावयितारः दुध्रकृतो दुध्रं दुष्टानां धारयितारमात्मानं कुर्वाणाः । यद्वा । दुर्धरमन्यैर्धर्तुमशक्यमात्मानं कुर्वाणाः । भ्राजदृष्टयः । दीप्यमानायुधाः ॥ उज्जिघ्नंते । हंतेर्व्यत्ययेनात्मनेपदम् । बहुलं छंदसीति शपः श्लुः । बहुलं छंदसीत्यभ्यासस्येत्वम् । गमहनेत्यादिनोपधालोपः । हो हंतेरिति घत्वम् । व्यत्ययेनांतादेशः । पथ्यः । पथि भवः । भवे छंदसीति यत् । नस्तद्धिते (पा ६-४-१४४) इति टलोपः । व्यत्ययेनांतस्वरितत्वम् । यद्वा । छंदसीवनिपाविति मत्वर्थीय ईकारः । उदात्तस्वरितयोर्यण इति विभक्तेः स्वरितत्वम् । अयासः । अय पय गतौ । अयंत इत्ययाः । पचाद्यच् । आज्जसेरसुक् । दुध्रकृतः । अत्र दुःशब्देन दुष्टा लक्ष्यंते । धृञ् धारणे । दुष्टान् धारयतीति दुध्रः । मूलविभुजादित्वात् । पा ३-२-५-२ । कप्रत्ययः । यद्वा । ईषद्दुःसुष्वितिदुःशब्द उपपदे कर्मणि खल् । गुणाभावश्छांदसः । तं कुर्वंतीति दुध्रकृतः क्विप्चेति क्विप् । रेफलोपश्छांदसः ॥ ११ ॥

1.64.12 समानपद
घृषुं᳚ पाव॒कं व॒निनं॒ विच᳚र्षणिं रु॒द्रस्य᳚ सू॒नुं ह॒वसा᳚ गृणीमसि ।
र॒ज॒स्तुरं᳚ त॒वसं॒ मारु᳚तं ग॒णमृ᳚जी॒षिणं॒ वृष᳚णं सश्चत श्रि॒ये ॥
▶ पदपाठः (Word-by-word)
घृषु᳚म् । पा॒व॒कम् । व॒निन᳚म् । वि॑च᳚र्षणिम् । रु॒द्रस्य᳚ । सू॒नुम् । ह॒वसा᳚ । गृ॒णी॒म॒सि॒ ।
र॒जः॒॑तुर᳚म् । त॒वस᳚म् । मारु᳚तम् । ग॒णम् । ऋ॒जी॒षिण᳚म् । वृष᳚णम् । स॒श्च॒त॒ । श्रि॒ये ॥
▶ सायणभाष्यम् (Sayana Commentary)

घृषुं शत्रूणां बलस्य घर्षकं विनाशयितारं पावकं सर्वेषां शोधकं वनिनम् । वनमित्युदकनाम । उदकवंतम् । वृष्टिप्रदमित्यर्थः । विचर्षणिं विशेषेण सर्वस्य द्रष्टारं रुद्रस्य महादेवस्य सूनं पुत्रभूतम् । एवंविधं मरुतां समूहं हवसाह्वानसाधनेन स्तोत्रेण गृणीमसि । शब्दयामः । स्तुम इत्यर्थः । हे ऋत्विग्यजमानाः यूयमपि श्रिय ऐश्वर्याय धनार्थं मारुतं गणं मरुतां संघं सश्चत । प्राप्नुत । कीदृशम् । रजस्तुरं पार्थिवस्य पांसोस्त्वरयितारम् । प्रेरकमित्यर्थः । तवसं प्रवृद्धं ऋजीषिणम् । तृतीयसवने हि मरुतः । स्तूयंते तत्र च ऋजीषमभिषुण्वंतीति ऋजीषसंबंधः श्रुतः । अतस्तद्वंतं वृषणं कामानां वर्षितारं ॥ हवसा । ह्वेञोऽसिप्रत्यये बहुलं छंदसीति संप्रसारणम् । गृणीमसि । गृ शब्दे । इदंतो मसिः । प्वादीनां ह्रस्व इति ह्रस्वत्वम् । रजस्तुरम् । रजांसि तुतोर्तीति रजस्तूः । तुर त्वरणे । क्विप्चेति क्विप् । वृषणं वाषपूर्वस्य निगम इति दीर्घाभावः । सश्चत । ग्लुन्च षस्ज गतावित्यत्र सश्चिमप्येक इति धातुवृत्तावुक्तम् । गतिकर्मसु च सश्चतीति परितम् । श्रिये । सावेकाच इति विभक्तेरुदात्तत्वं ॥ १२ ॥

1.64.13
प्र नू स मर्त॒ः शव᳚सा॒ जना{4}॒ अति᳚ त॒स्थौ व᳚ ऊ॒ती म᳚रुतो॒ यमाव᳚त ।
अर्व᳚द्भि॒र्वाजं᳚ भरते॒ धना॒ नृभि᳚रा॒पृच्छ्यं॒ क्रतु॒मा क्षे᳚ति॒ पुष्य᳚ति ॥
▶ पदपाठः (Word-by-word)
प्र । नु । सः । मर्तः᳚ । शव᳚सा । जना᳚न् । अति᳚ । त॒स्थौ । वः॒ । ऊ॒ती । म॒रु॒तः॒ । यम् । आव᳚त ।
अर्व᳚त्॑भिः । वाज᳚म् । भ॒र॒ते॒ । धना᳚ । नृ॑भिः᳚ । आ॒॑पृच्छ्य᳚म् । क्रतु᳚म् । आ । क्षे॒ति॒ । पुष्य᳚ति ॥
▶ सायणभाष्यम् (Sayana Commentary)

स मर्तो मनुष्यः शवसा बलेन जनान् जातानन्यान्पुरुषानति अतीत्य नु क्षिप्रं तस्थौ । प्रतिष्ठितो भवति । हे मरुतो वो युष्माकमूती ऊत्या रक्षणेन यं पुरुषमावत अरक्षत । अपि च स पुरुषोऽर्वद्भिरश्वैः साधनभूतैर्वाजमन्नं नृभिः स्वकीयैर्मनुष्यैर्धना धनानि च भरते । संपादयति । तथापृच्छ्यमाप्रष्टव्यं शोभनं क्रतुमग्निष्टोमादिकर्मा क्षेति । आप्नोति । पुष्यति । प्रजया पशुभिः पुष्टो भवति च ॥ ऊती तृतीयायाः पूर्वसवर्णदीर्घत्वम् । नृभिः । नृ चान्यतरस्यामिति विभक्त्युदात्तत्वप्रतिषेधः । आपृच्छ्यम् । छंदसि निष्टर्क्येत्यादावाङ् पूर्वात्पृच्छतेः क्यच् प्रत्ययांतो निपात्यते । ग्रहिज्यादिना संप्रसासणम् । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । कृदुत्तरपदप्रकृतिस्वरत्वम् । क्षेति । क्षिनिवासगत्योः । बहुलं छंदसीति विकरणस्य लुक् । पुष्यति । पुष पुष्वौ । दिवादित्वात् श्यन् । नित्त्वादाद्युदात्तत्वम् । तिङः परत्वान्निघाताभावः ॥ १३ ॥

1.64.14 समानपद
च॒र्कृत्यं᳚ मरुतः पृ॒त्सु दु॒ष्टरं᳚ द्यु॒मन्तं॒ शुष्मं᳚ म॒घव᳚त्सु धत्तन ।
ध॒न॒स्पृत᳚मु॒क्थ्यं᳚ वि॒श्वच᳚र्षणिं तो॒कं पु᳚ष्येम॒ तन᳚यं श॒तं हिमा᳚ः ॥
▶ पदपाठः (Word-by-word)
च॒र्कृत्य᳚म् । म॒रु॒तः॒ । पृ॒त्॑सु । दु॒स्तर᳚म् । द्यु॒॑मन्त᳚म् । शुष्म᳚म् । म॒घव᳚त्॑सु । ध॒त्त॒न॒ ।
ध॒न॒॑स्पृत᳚म् । उ॒क्थ्य᳚म् । वि॒श्व॑च᳚र्षणिम् । तो॒कम् । पु॒ष्ये॒म॒ । तन᳚यम् । श॒तम् । हिमाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतो मघवत्सु हविर्लक्षणधनयुक्तेषु यजमानेषु पुत्रं धत्तन स्थापयत । दत्तेति यावत् । कीदृशं पुत्रम् । चर्कृत्यं कार्येषु पुनःपुनः पुरस्कर्तव्यम् । सर्वकर्मकुशलमित्यर्थः । पृत्सु संग्रामेषु दुष्टरं दुःखेन तरितव्यम् । अजेयमित्यर्थः । द्युमंतं दीप्तिमंतं शुष्मं शत्रूणां शोषकं बलवंतं धनस्पृतं धनानां स्प्रष्टारं धनैः प्रीतं वा उक्थ्यम् । उक्थं स्तोत्रम् । तदर्हम् । प्रसस्यमित्यर्थः । विश्वचर्षणिं विशेषेण द्रष्टारं सर्वज्ञम् । एवंविधं तोकं पुत्रं तनयं पौत्रं च शतं हिमा हेमंतर्तूपलक्षितान् शतं संवत्सरान् जीवंतः संतः पुष्येम । पोषयेम । अत्र हिमशब्देन :तद्युक्ता हेमंतर्तवोभिधीयंते । तथाच ब्राह्मणमेवमाम्नायते । शतं हिमा इत्याह शतं त्वा हेमंतानि धिषीयेति वावैतदाहेति ॥ चर्कृत्यम् । प्रकृतिग्रहणे यङ्लुगंतस्यापि ग्रहणम् । परि ९३-७ । इति न्यायेन करोतेर्यङ्लुगंताद्विभाषा कृवृषोः (पा ३-१-१२०) इति क्यप् । तुगागमः । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । पृत्सु । पदादिषु मांस्पृत्सून्ननामुपसंख्यानम् । पा ६-१-६३-१ । इति । पृतनाशब्दस्य पृदादेशः । दुष्टरम् । तृ प्लवनतरणयोः । ईषद्दुःसुष्विति खल् । सुषामादेराकृतिगणत्वात् षत्वम् । लित्स्वरेण प्रत्ययात्पूर्वस्योदात्तत्वम् । धत्तन । तप्तनप्तनथनाश्चेति तस्य तनादेशः ॥ १४ ॥

1.64.15
नू ष्ठि॒रं म᳚रुतो वी॒रव᳚न्तमृती॒षाहं᳚ र॒यिम॒स्मासु᳚ धत्त ।
स॒ह॒स्रिणं᳚ श॒तिनं᳚ शूशु॒वांसं᳚ प्रा॒तर्म॒क्षू धि॒याव᳚सुर्जगम्यात् ॥
▶ पदपाठः (Word-by-word)
नु । स्थि॒रम् । म॒रु॒तः॒ । वी॒र॑व᳚न्तम् । ऋ॒ति॒॑सह᳚म् । र॒यिम् । अ॒स्मासु᳚ । ध॒त्त॒ ।
स॒ह॒स्रिण᳚म् । श॒तिन᳚म् । शू॒शु॒॑वांस᳚म् । प्रा॒तः । म॒क्षु । धि॒या॑व᳚सुः । ज॒ग॒म्या॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऐकादशिनस्य मारुतस्य पशोर्वपायागस्य नू ष्ठिरमित्येषा याज्या । सूत्रितं च । शुची वो हव्या मरुतः शुचीनां नू ष्ठिरं मरुतो वीरवंतम् (आ ३-७) इति ॥

हे मरुतः स्थिरं स्थास्नुं वीरवंतं वीरैः पुत्रैस्तद्वंतम् । यद्वा । वीर्योपेतम् । ऋतीषाहं गंतृणां शत्रूणामभिभवितारं एवंविधं रयिं पुत्रलक्षणं धनमस्मासु धत्त । स्थापयत । सहस्रिणं शतिनमेतत्संख्याकधनवंतं अत एव शूशुवांसं प्रवृद्धम् । अपि चास्माकं रक्षणाय धिया बुद्ध्या कर्मणा वा प्राप्तधनो मरुद्गणः प्रातःकाले जगम्यात् । आगच्छतु ॥ नू ष्ठिरम् । ऋचि तुनुघेति दीर्घः । पूर्वपदादिति षत्वम् । ऋतीषाहम् । ऋ गतौ । कर्तरि क्तिच् । षह अभिभवे । छंदसि सह इति ण्विप्रत्ययः । अन्येषामपि दृश्यत इति पूर्वपदस्य दीर्घत्वम् । सुषामादित्वात् षत्वम् । शूशुवांसम् । टुओश्वि गतिवृद्ध्योः । लिटः क्वसुः । विभाषा श्वेः (पा ६-१-३०) इति संप्रसारणं द्विर्वचने तुजादित्वादभ्यासस्य दीर्घत्वम् । वस्वेकाजाद्घसामिति नियमादिडभावः । प्रत्ययस्वरः ॥ १५ ॥