क्षपो॒ जिन्व᳚न्त॒ः पृष᳚तीभिरृ॒ष्टिभि॒ः समित्स॒बाध॒ः शव॒साहि᳚मन्यवः ॥
पदपाठः (Word-by-word)
क्षपः᳚ । जिन्व᳚न्तः । पृष᳚तीभिः । ऋ॒ष्टि॑भिः᳚ । सम् । इत् । स॒॑बाधः᳚ । शव᳚सा । अहि᳚॑मन्यवः ॥
सायणभाष्यम् (Sayana Commentary)
प्रचेतसः प्रकृष्टज्ञाना मरुतः सिंहा इव नानदति । भृशं शब्दं कुर्वंति । यथा सिंहा गिरिगह्वरेषु गंभीरं शब्धं कुर्वंति एवं मरुत्स्वप्यागतेषु गंभीरः शब्द उत्पद्यत इति भावः । तथा सुपिशः शोभनावयवाः शोभनालंकारा वा । तत्र दृष्टांतः । पिशा इव । पिश इति रुरुनाम । यथा रुरवः । स्वशरीरगतैः श्वेतविंदुभिरलंकृतास्तद्वत् । विश्ववेदसः सर्वज्ञाः क्षपः शत्रूणां क्षपयितारो जिन्वंतः स्तोतृन्प्रीणयंतः शवसा बलेनाहिमन्यव आहननशीलमन्युयुक्ताः । यद्विषयः कोपो जायते तस्य हनने समर्था इत्यर्थः । यद्वा । मननं ज्ञानं मन्युः । अहीनज्ञानाः । उत्कष्टबुद्धय इत्यर्थः । एवंभूता मरुतः पृषतीभिः । पृषत्य इति मरुतां वाहनस्याख्या । पृषत्यः श्वेतविंद्वंकिता मृग्य इत्यैतिहासिकाः । नानावर्णा मेघमाला इति नैरुक्ताः । ताभिर्ऋष्टिभिरायुधैश्च सहिताः संतः सबाधः शत्रुभिर्बाधितान्यजमानान् समित् समानमेव युगपदेव रक्षितुमागच्छंतीति शेषः ॥ नानदति । नद अव्यक्ते शब्दे । अस्माद्यङ् लुगंताल्लट् । पिशा इव । पिश अवयवे । इगुपधलक्षणः कः । सुपिशः । सुपूर्वात्पिश अवयव इत्यस्मात् क्विप्चेति क्विप् । पृषतीभिः । पृषु सेचने । वर्तमाने पृषद्बृहन्महज्जगच्छतृवच्च (उ २-८४) इति शतृवद्भावादुगिशश्चेति ङीप् । अत एव शतुरनुम इति नद्या उदात्तत्वे प्राप्ते बृहन्महतोरुपसंख्यानमिति नियमात्तस्याभावः ॥ ८ ॥