श्रवणम्

1.64.2
ते ज᳚ज्ञिरे दि॒व ऋ॒ष्वास᳚ उ॒क्षणो᳚ रु॒द्रस्य॒ मर्या॒ असु᳚रा अरे॒पसः᳚ ।
पा॒व॒कास॒ः शुच᳚य॒ः सूर्या᳚ इव॒ सत्वा᳚नो॒ न द्र॒प्सिनो᳚ घो॒रव᳚र्पसः ॥
▶ पदपाठः (Word-by-word)
ते । ज॒ज्ञि॒रे॒ । दि॒वः । ऋ॒ष्वासः᳚ । उ॒क्षणः᳚ । रु॒द्रस्य᳚ । मर्याः᳚ । असु᳚राः । अ॒रे॒पसः᳚ ।
पा॒व॒कासः᳚ । शुच᳚यः । सूर्याः᳚॑इव । सत्वा᳚नः । न । द्र॒प्सिनः᳚ । घो॒र॑व᳚र्पसः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ते मरुतो दिवोऽंतरिक्षाज्जज्ञिरे । प्रादुर्बभूवुः । कीदृशाः । ऋष्वासो दर्शनीयाः उक्षणः सेक्तारः । युवान इत्यर्थः । रुद्रस्य मर्याः । मर्यशब्दो मनुष्यवाचीह मरुतां मर्त्यत्वासंभवात्पुत्रा इत्यस्मिन्नर्थे पर्यवस्यति । मरुतां रुद्रपुत्रत्वं च मंत्रांतरे स्पष्टम् । आ ते पितर्मरुतां सुम्नमेतु । ऋग्वे २-३३-१ । इति । असुराः शत्रूणां निरसितारः अरेपसः । रेप इति पापनाम । पापरहिताः पावकासः सर्वेषां शोधकाः सूर्या इव शुचयो दीप्ताः सत्वानो न यथा परमेश्वरस्य भूतगणा अतिशयेन बलपराक्रमाः । तत्सदृशा इत्यर्थः । सत्वान इति भूतगणा उच्यंते । अथो ये अस्य सत्वानः । तै सं ४-५-१-३ । इत्यादौ तथा दर्शनात् । द्रप्सिनो वृष्ट्यदकबिंदुभिर्युक्ताः । मरुतः स्रष्टां वृष्विं नयंतीति श्रुतेः । तै सं २-४-१०-२ । घोरवर्पसः । वर्प इति रूपनाम । घोररूपाः । शत्रूणां भयंकररूपा इत्यर्थः । यद्वा । सत्वानो न घोरवर्पसः । यथा भूतगणा भयंकररूपास्तद्वदेतेऽपीत्यर्थः ॥ ऋष्वासः । ऋषी गतौ । गत्यर्था बुद्ध्यर्था इत्यत्र ज्ञानार्थः । सर्वनिघृष्टेत्यादौ (उ १-१५३) वप्रत्ययांतो निपातितः । आज्जसेरसुक् । उक्षणः । वा ष पूर्वस्य निगम इत्युपधादीर्घाभावः । अरेपसः । बहुव्रीहौ । नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । सत्वानः । षद्लृ विशरणगत्यवसादनेषु । प्र ईरसद्योस्तुट्च (उ ४-११६) इति विधीयमानः क्वनिप्प्रत्ययो बहुलवचनात्केवलादपि भवति । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते ॥ २ ॥