प्रथमं मण्डलम् - सूक्तम् 163

13 ऋचः

ऋषिः: दीर्घतमा औचथ्यः देवता: अश्वः छन्दः: त्रिष्टुप्

सूक्तम् 1.163 - सम्पूर्णम्

1 / 13
ऋक्: 1.163.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (13)
1.163.1 समानपद
यदक्र᳚न्दः प्रथ॒मं जाय᳚मान उ॒द्यन्त्स᳚मु॒द्रादु॒त वा॒ पुरी᳚षात् ।
श्ये॒नस्य᳚ प॒क्षा ह᳚रि॒णस्य᳚ बा॒हू उ᳚प॒स्तुत्यं॒ महि᳚ जा॒तं ते᳚ अर्वन् ॥
▶ पदपाठः (Word-by-word)
यत् । अक्र᳚न्दः । प्र॒थ॒मम् । जाय᳚मानः । उ॒त्॑यन् । स॒मु॒द्रात् । उ॒त । वा॒ । पुरी᳚षात् ।
श्ये॒नस्य᳚ । प॒क्षा । ह॒रि॒णस्य᳚ । बा॒हू इति᳚ । उ॒प॒॑स्तुत्य᳚म् । महि᳚ । जा॒तम् । ते॒ । अ॒र्व॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअर्वन् अरणकुशलाश्व तेतवमहिमहत् जातंजन्मजननं उपस्तुत्यंउपेत्यसर्वैः स्तोतव्यं स्तौतेरेति- स्तुशास्वितिक्यप् ततस्तुक् कथंस्तुत्यत्वमित्युच्यते यद्यस्मात्समुद्रात् अंतरिक्षनामैतत् उदकसमुंदना- पादानाद्यक्षगंधर्वादिसंमोदनाधिकरणाद्वांतरिक्षात् प्रथमंपूर्वंजायमानः उत्पन्नः यद्वा समुद्रआदित्यः समुंदनाद्वृष्ट्यातस्माद्वाजायमानः सूरादश्वंवसवोनिरतष्टेतिवक्ष्यमाणत्वात् उतवा अथवापुरीषात् सर्वकामानांपूरकात् उदकात्प्रथममुद्यन् उद्गच्छन्सतादृशस्त्वं यद्यस्मात् अक्रंदः महाशब्दमकरोःयज- मानमनुग्रहीतुं किंच ते पक्षा पतनसाधनौ पक्षौ श्येनस्वपक्षाविव तौयथाशीघ्रपतनसाधनौ तादृशा- वित्यर्थः तवबाहू हरिणस्यबाहूइव तौयथावेगवंतौतादृशावित्यर्थः यस्मादेवंतस्मात्तेजन्मस्तुत्यमित्य- र्थः ॥ १ ॥

1.163.2
य॒मेन᳚ द॒त्तं त्रि॒त ए᳚नमायुन॒गिन्द्र᳚ एणं प्रथ॒मो अध्य᳚तिष्ठत् ।
ग॒न्ध॒र्वो अ᳚स्य रश॒नाम᳚गृभ्णा॒त्सूरा॒दश्वं᳚ वसवो॒ निर᳚तष्ट ॥
▶ पदपाठः (Word-by-word)
य॒मेन᳚ । द॒त्तम् । त्रि॒तः । ए॒न॒म् । अ॒यु॒न॒क् । इन्द्रः᳚ । ए॒न॒म् । प्र॒थ॒मः । अधि᳚ । अ॒ति॒ष्ठ॒त् ।
ग॒न्ध॒र्वः । अ॒स्य॒ । र॒श॒नाम् । अ॒गृ॒भ्णा॒त् । सूरा᳚त् । अश्व᳚म् । व॒स॒वः॒ । निः । अ॒त॒ष्ट॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यमेननियामकेनाग्निनादत्तमेनमश्वं त्रितःपृथिव्यादिषुत्रिषुस्थानेषुवर्तमानस्तीर्णतमोवावायुः अयुनक् रथेयोजितवान् किंचैनमश्वं इन्द्रः प्रथमः प्रतमः प्रकृष्टतमः प्रथमइतिमुख्यनाम अध्यतिष्ठत् अधिष्ठितवान् अस्यगंधर्वः सोमः सोमेनसमयाविपृक्तइतिवक्ष्यमाणत्वात् सचास्याश्वस्यरशनांनिय- मनरज्जुमगृभ्णात् अग्रहीत् ईदृशोश्वः कुतः समुत्पन्नइतिचेत् उच्यते—हेवसवः रश्मयोयूयंसूरादादि- त्यादश्वं एवंमहानुभावं निरतष्ट निःशेषेणसाधुसंपादितवंतः यद्वा वसुशव्देनोक्ताएवयमादयः परा- मृश्यन्ते हेवसवः स्वस्वव्यापारेणसर्वस्याच्छादयितारोयूयं सूरादादित्यादश्वमेनंनिरतष्ट अतक्षत निरित्येषसमित्येतस्यस्थाने तक्षतिः करोतिकर्मा सचक्रियासामान्यवचनः अत्रौचित्याद्धारणेवर्तते सम्यग्धाइतवंतइत्यर्थः तक्षेर्लङिछान्दसः शपोलुक् स्कोःसंयोगाद्योरितिकलोपः ॥ २ ॥

1.163.3 समानपद
असि᳚ य॒मो अस्या᳚दि॒त्यो अ᳚र्व॒न्नसि᳚ त्रि॒तो गुह्ये᳚न व्र॒तेन᳚ ।
असि॒ सोमे᳚न स॒मया॒ विपृ᳚क्त आ॒हुस्ते॒ त्रीणि᳚ दि॒वि बन्ध᳚नानि ॥
▶ पदपाठः (Word-by-word)
असि᳚ । य॒मः । असि᳚ । आ॒दि॒त्यः । अ॒र्व॒न् । असि᳚ । त्रि॒तः । गुह्ये᳚न । व्र॒तेन᳚ ।
असि᳚ । सोमे᳚न । स॒मया᳚ । वि॑पृ᳚क्तः । आ॒हुः । ते॒ । त्रीणि᳚ । दि॒वि । बन्ध᳚नानि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअर्वन् त्वंयमोसि नियमिताग्निरसि तेनदत्तत्वात्तच्छब्दव्यपदेशः तथा आदित्योसि सूरान्निरत- ष्टेत्युक्तत्वात् तथागुह्येन व्रतेन गोपनीयेनदुर्दिनरूपेणवा कर्मणा सर्वत्रव्याप्तिरूपेणेत्यर्थः तेनत्रितः त्रिषुस्थानेषु तायमानोवायुरसि त्रितएनमायुनगित्युक्तत्वात् तद्रूपत्वं अथवागुह्येनव्रतेन गोपनीयेन- कर्मणा योगादिसाधनरूपेण त्रितः एतन्नामकऋषिरसि किंच हेअश्व त्वं सोमेनसमयासहविपृक्तः वीत्येषसमित्येतस्मिन्नर्थे संपृक्तोसि तेनगृहीतत्वात् हेअश्वैवंरूपं तेतव दिवि द्युलोके आदित्येवाव- र्तमानस्य त्रीणिबंधनानि उत्पत्तिकारणान्याहुःपुराविदः वसवआदित्योद्युस्थानंचेतित्रीणि ॥ ३ ॥

1.163.4 समानपद
त्रीणि᳚ त आहुर्दि॒वि बन्ध᳚नानि॒ त्रीण्य॒प्सु त्रीण्य॒न्तः स᳚मु॒द्रे ।
उ॒तेव᳚ मे॒ वरु᳚णश्छन्त्स्यर्व॒न्यत्रा᳚ त आ॒हुः प᳚र॒मं ज॒नित्र᳚म् ॥
▶ पदपाठः (Word-by-word)
त्रीणि᳚ । ते॒ । आ॒हुः॒ । दि॒वि । बन्ध᳚नानि । त्रीणि᳚ । अ॒प्॑सु । त्रीणि᳚ । अ॒न्तरिति᳚ । स॒मु॒द्रे ।
उ॒त॑इ᳚व । मे॒ । वरु᳚णः । छ॒न्त्सि॒ । अ॒र्व॒न् । यत्र᳚ । ते॒ । आ॒हुः । प॒र॒मम् । ज॒नित्र᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वंदिवित्रीणिबंधनानीत्युक्तं इदानीं स्थानत्रयेष्वपित्रीणिबंधनानीत्याह—हेअर्वन् तेतव दिवि बंधनानित्रीणिआहुः तानिपूर्वमुक्तानि अप्सुअबुपजीवितत्वाद्भूलोकोप्यप् शब्देनाभिधीयते पृथि- व्यांत्रीणिबंधनान्याहुः अन्नंस्थानंबीजमितित्रीणि तथा समुद्रेअन्तः समुद्रमध्ये समुद्रवणादपामपा- दानात्समुद्रमंतरिक्षं तस्मिन् त्रीणि बृष्ट्युत्पत्तिनिमित्तानि मेघोविद्युत्स्तनितमिति उतेव इवशब्द- श्चार्थे अपिच हेअर्वन् अश्व वरुणः पापस्यवारकः फलस्यावर्जयितावा त्वंमेमह्यं छन्त्सि कथयसि किंकथयसीतिचेदुच्यते तेतव परमंजनित्रं निरतिशयं जन्म जनेरौणादिकइत्रप्रत्ययः यत्रयेषुत्रिषूक्ते- षूस्थानेष्वाहुः कथयन्ति यद्वा यत्रयस्मिन्नादित्येपरमंजनित्रमाहुः सूरादश्वंवसवोनिरतष्टेत्युक्तत्वात् तादृशंप्रशस्यं जन्म यज्ञसाधनभावेनकथयसीत्यर्थः ॥ ४ ॥

1.163.5
इ॒मा ते᳚ वाजिन्नव॒मार्ज᳚नानी॒मा श॒फानां᳚ सनि॒तुर्नि॒धाना᳚ ।
अत्रा᳚ ते भ॒द्रा र᳚श॒ना अ᳚पश्यमृ॒तस्य॒ या अ᳚भि॒रक्ष᳚न्ति गो॒पाः ॥
▶ पदपाठः (Word-by-word)
इ॒मा । ते॒ । वा॒जि॒न् । अ॒व॒॑मार्ज᳚नानि । इ॒मा । श॒फाना᳚म् । स॒नि॒तुः । नि॒॑धाना᳚ ।
अत्र᳚ । ते॒ । भ॒द्राः । र॒श॒नाः । अ॒प॒श्य॒म् । ऋ॒तस्य᳚ । याः । अ॒भि॒॑रक्ष᳚न्ति । गो॒पाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवाजिन्नश्व तेसंबंधीन्यवमार्जनान्यंगसंशोधकानि स्थानानीमाइमानिउक्तानिद्युलोकादीनि किंच सनिर्यातु यागसंभक्तुस्तवेमा इमानिशफानांनिधाना निधानानि स्थानानि संचारप्रदेशाइत्य- र्थः किंचात्रैवतेतवभद्राः भंदनीयाः कल्याणीः रशनाग्रीवादिषुसंयुक्ताःरज्जूरत्रापश्यं एषुक्तेषुस्थाने- ष्वपश्यं रशनाविशेष्यन्ते यागोपाः गोपयित्र्योरशनाः ऋतस्यसत्यभूतस्य यज्ञसाधनस्यवाश्वस्य कर्मणिषष्ठी ऋतमभिरक्षंति अभितःपालयन्ति ताअपश्यं दृष्टवानस्मि यद्वा इमातेतवावमार्जनानि अङ्गप्रक्षालनसाधनान्युदकानि इमानि सनितुस्तव शफनांनिधानानि देवयजनभूमयः संचारप्रदे- शावा अत्रास्मिन्देवयजनस्थाने यारशनाःगोपास्तवपालयितारोरा जपुरुषाः ऋत्विजोवाऋतस्यसं-बंधिनः अभिरक्षंति ताअपश्यम् ॥ ५ ॥

1.163.6
आ॒त्मानं᳚ ते॒ मन᳚सा॒राद᳚जानाम॒वो दि॒वा प॒तय᳚न्तं पतं॒गम् ।
शिरो᳚ अपश्यं प॒थिभि᳚ः सु॒गेभि᳚ररे॒णुभि॒र्जेह᳚मानं पत॒त्रि ॥
▶ पदपाठः (Word-by-word)
आ॒त्मान᳚म् । ते॒ । मन᳚सा । आ॒रात् । अ॒जा॒ना॒म् । अ॒वः । दि॒वा । प॒तय᳚न्तम् । प॒त॒ङ्गम् ।
शिरः᳚ । अ॒प॒श्य॒म् । प॒थि॑भिः᳚ । सु॒॑गेभिः᳚ । अ॒रे॒णु॑भिः᳚ । जेह᳚मानम् । प॒त॒त्रि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअश्व तेतवआत्मानंशरीरं मनसाअस्मदीयेनप्रकृष्टमननवताचेतसा आरात् अतिदूरे स्थितंअजा- नांजानामि अतिव्याप्तंभावयामीत्यर्थः कथं अवः अवस्तात् सामर्थ्याद्भूमेः भूमिमारभ्य दिवा अंत- रिक्षेणमार्गेणपतंगमादित्यंपतयंतं गच्छन्तंव्याप्नुवन्तं यद्वा यतोदिवा अंतरिक्षेणमार्गेणदिविवापतयं- तंगच्छन्तं पतंगमादित्यंअवः व्याप्नोषि अतोव्याप्तंजानामि किंच शिरोपश्यं तवशिरएवंपश्यामि कथंसुगेभिः शोभनगमनसाधनैः अरेणुभिः अपापैः पथिभिर्मार्गैः आदित्यमण्डलादप्युपरिभूतैः सत्य- लोकमार्गैरित्यर्थः तत्रप्रतिबंधाभावान्मार्गाणामुक्तरूपत्वं तथाविधैस्तैर्जेहमानं उपर्युपरिव्याप्नुवत् पतत्रिपतनवत् शिरोअपश्यंभावयामि एवंलोकत्रयव्याप्तं भावयामीत्यर्थः यद्वा तेआत्मानमेवंभाव- यामि मनसाधिया द्योतनात्मकेनांतरिक्षमार्गेण दिवः सकाशाद्वा अवः अवस्तात् अवाङ्मुखंपतयन्तं यागदेशंप्रतिव्याप्नुवत् अतएवपतंगंपतनशीलंअधः पतदादित्यसदृशंवा एवंतवशिरोभावयामीत्यर्थः शिरश्चैवमपश्यं उक्तरूपैर्देवयजनमार्गैर्जेहमानंयज्ञदेशंव्याप्नुवत् पतत्रिशीघ्रगामिशिरः पश्यामि यद्य- पिआत्मशब्देनसशिरस्कंशरीरमुक्तं तथापिदेहात्पूर्वंशिरसोदृश्यमानत्वात्पृथगभिधीयते ॥ ६ ॥

1.163.7
अत्रा᳚ ते रू॒पमु᳚त्त॒मम᳚पश्यं॒ जिगी᳚षमाणमि॒ष आ प॒दे गोः ।
य॒दा ते॒ मर्तो॒ अनु॒ भोग॒मान॒ळादिद्ग्रसि᳚ष्ठ॒ ओष᳚धीरजीगः ॥
▶ पदपाठः (Word-by-word)
अत्र᳚ । ते॒ । रू॒पम् । उ॒त्॑त॒मम् । अ॒प॒श्य॒म् । जिगी᳚षमाणम् । इ॒षः । आ । प॒दे । गोः ।
य॒दा । ते॒ । मर्तः᳚ । अनु᳚ । भोग᳚म् । आन᳚ट् । आत् । इत् । ग्रसि᳚ष्ठः । ओष᳚धीः । अ॒जी॒ग॒रिति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एवंगमनानंतरं हेअश्व तेतवोत्तमं उक्तरूपेणोत्कृष्टतमंरूपं अत्रास्मिन्यागदेशे अपश्यंपश्यामि की- दृशंगोःभूम्याःपदेस्थानेदेवस्थाने देवयजनप्रदेशेआजिधावनस्थानेवा इषः कर्मणिषष्ठी इषंइष्यमाण- मन्नं अन्नानिवा आसर्वतोजिगीषमाणंगंतुमिच्छन्तं हेअश्व तेतवयदामर्तोमनुष्योभोगंभोक्तंव्यमन्नंअ- न्वानट् नशतिर्गतिकर्मा अनुक्रमेणसमीपंगमयति आदित् अनंतरंतदानीमेव तदनुग्रहात् विलंबमकृ- त्वाग्रसिष्ठः महातृष्णएव ग्रसितृतमोभक्षयितृतमः सन् ओषधीरन्नान्यजीगः गिरसिभक्षयसि महानु- भावोपित्वंलौकिकाश्ववत्तुच्छेनपुरुषेणदीयमानंस्वल्पंभक्षंअनुग्रहात् स्वीकरोषीत्यर्थः ॥ ७ ॥

1.163.8
अनु᳚ त्वा॒ रथो॒ अनु॒ मर्यो᳚ अर्व॒न्ननु॒ गावो॑नु॒ भगः᳚ क॒नीना᳚म् ।
अनु॒ व्राता᳚स॒स्तव᳚ स॒ख्यमी᳚यु॒रनु᳚ दे॒वा म᳚मिरे वी॒र्यं᳚ ते ॥
▶ पदपाठः (Word-by-word)
अनु᳚ । त्वा॒ । रथः᳚ । अनु᳚ । मर्यः᳚ । अ॒र्व॒न् । अनु᳚ । गावः᳚ । अनु᳚ । भगः᳚ । क॒नीना᳚म् ।
अनु᳚ । व्राता᳚सः । तव᳚ । स॒ख्यम् । ई॒युः॒ । अनु᳚ । दे॒वाः । म॒मि॒रे॒ । वी॒र्य᳚म् । ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इदानींकृत्स्नस्यलोकस्यापिमुख्यइतिप्रतिपादयति हेअर्वन् गमनशीलाश्व त्वात्वामनु अ नुसृत्य र- थोगच्छति ततःपुरतोश्वस्यगमनात् तथामयोमर्त्यः त्वात्वामनुगच्छति जात्येकवचनं अनुगावः गा- वोऽपित्वामुगच्छन्ति तथाकनीनां कन्यकानां स्त्रीणांभगोभाग्यं सौंदर्यं त्वद्भगमनु तथा व्रातासोव्रा- ताः संघात्मकाः अन्येअश्वसमूहाः वस्वादिदेवगणावात्वामनु अनुसृत्यतवसख्यमीयुः सखिभावंगच्छं- ति देवाऋत्विजःद्योतमानादेवावात्वामनुसृत्य तेवीर्यं वीरकर्म ममिरे स्तुत्यामांति अतःसर्वोऽपित्वा- मनुसरः त्वंतुसर्वस्यश्रेष्ठइत्यर्थः ॥ ८ ॥

1.163.9
हिर᳚ण्यशृ॒ङ्गो॑यो᳚ अस्य॒ पादा॒ मनो᳚जवा॒ अव᳚र॒ इन्द्र᳚ आसीत् ।
दे॒वा इद᳚स्य हवि॒रद्य᳚माय॒न्यो अर्व᳚न्तं प्रथ॒मो अ॒ध्यति᳚ष्ठत् ॥
▶ पदपाठः (Word-by-word)
हिर᳚ण्य॑शृ॒ङ्गः । अयः᳚ । अ॒स्य॒ । पादाः᳚ । मनः᳚॑जवाः । अव᳚रः । इन्द्रः᳚ । आ॒सी॒त् ।
दे॒वाः । इत् । अ॒स्य॒ । ह॒विः॒॑अद्य᳚म् । आ॒य॒न् । यः । अर्व᳚न्तम् । प्र॒थ॒मः । अ॒धि॒॑अति᳚ष्ठत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमश्वोहिरण्यश्रृंगः हितरमणीयश्रृंगउन्नतशिरस्कः हृदयरमणश्रृंगस्थानीयशिरोरुहोवा अस्य पादा अयः अयोमयाः अयःपिंडसदृशाइत्यर्थः तथामनोजवाः मनोवेगाः अथवैतदिंद्रविशेषणं ईदृ- शस्याश्वस्यसामर्थ्यं प्रतिमनोवेगः इन्द्रोप्यवरोनिक्रुष्टआसीत् किंच अस्याश्वस्य हविरद्यं हविषः अदनं भक्षणं स्वार्थिकोयत् अदनयोग्यं हविर्वाअपेक्ष्य देवाः इत् सर्वेपिदेवाः आयन् प्राप्ताः यइन्द्रः अर्वन्तं प्रथमः प्रथमभावीसन् अध्यतिष्ठत् अधिष्ठितवान् सहविष्ट्वेनस्वकीयत्वेनवा श्रितवानित्यर्थः इंद्रए- णंप्रथमोअध्यतिष्ठदितिह्युक्तम् ॥ ९ ॥

1.163.10
ई॒र्मान्ता᳚स॒ः सिलि᳚कमध्यमास॒ः सं शूर᳚णासो दि॒व्यासो॒ अत्या᳚ः ।
हं॒सा इ᳚व श्रेणि॒शो य᳚तन्ते॒ यदाक्षि᳚षुर्दि॒व्यमज्म॒मश्वा᳚ः ॥
▶ पदपाठः (Word-by-word)
ई॒र्म॑अ᳚न्तासः । सिलि᳚क॑मध्यमासः । सम् । शूर᳚णासः । दि॒व्यासः᳚ । अत्याः᳚ ।
हं॒साः॑इ᳚व । श्रे॒णि॒॑शः । य॒त॒न्ते॒ । यत् । आक्षि᳚षुः । दि॒व्यम् । अज्म᳚म् । अश्वाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्राश्वसमूहस्तुतिद्वारेणायंस्तूयते ईर्मांतासःईरिताः प्रेरिताः अंतायेषांतेतथोक्ताः विरलान्ताइ- त्यर्थः सिलिकमध्यमासः संसृताः संगतामध्यप्रदेशायेषांतेतथोक्ताः मध्येनिविडाइत्यर्थः अथवा शरी- रस्यैतेविशेषणे ईर्म ईरितः पुरोभागेउन्नतइत्यर्थः तादृशः पृथुरन्तोजघनप्रदेशोयेषांतेतादृशाः तथा सिलिकमध्यमासः संसृतः संगतः संलग्नोमध्यभागोयेषांतेतादृशाः पुष्टत्वात्प्रौढपृष्ठाः संल्लग्नमध्याश्चे- त्यर्थः जघनपुरोभागावपेक्ष्य सिलिकमध्यमाइत्युक्तम् समित्ययमुपसर्गोयतन्तइत्याख्यानेनसंबंधयि- तव्यः शूरणासः विक्रमशीलाः दिव्यासोदिविभवाः अत्याः अतनशीलाः यद्यप्ययमश्वनाम तथाप्यश्व- शब्दस्यवक्ष्यमाणत्वात् अयंयौगिकोवगन्तव्यः ईदृशाअश्वाः श्रेणिशः एकव्यापाराणांबहूनांसमूहः श्रे- णिरित्युच्यते शीघ्रधावनायश्रेणिशः पंक्तीभूयसंयतंते सम्यक् यत्नंकुर्वन्ति तत्रदृष्टान्तः—हंसाइव तेय- थाश्रेणीभूताईर्मान्तासइत्याद्युक्तरूपाःसन्तःअन्तरिक्षेगमनाययतंतेतद्वत् कदा उच्यते यत् यदा अश्वाः दिव्यं अज्मंगमनं गंतव्यंवामार्गंआक्षिषुः व्याप्नुवन्तितदा । अयंमंत्रोयास्केनवैव्याख्यातः—ईर्मान्ताः समीरितान्ताःपृथ्व्यन्तावासिलिकमध्यमाःसंसृतमध्यमाःशीर्षमध्यमावापिवाशिरआदित्योभवतिय- ददनुशेतेसर्वाणि भूतानिमध्येचैषांतिष्ठतीदमपीतरच्छिरएतस्मादेवसमाश्रितान्येतदिंद्रियाणिभव- न्तिसंशूरणासोदिव्यासोअत्याः शूरः शवतेर्गतिकर्मणोदिव्यादिविजाअत्याअतनाः हंसाइवश्रेणिशोय- तन्तेहंसाहन्तेर्घ्नंत्यध्वानंश्रेणिशइतिश्रेणिश्रयतेः समाश्रिताभवन्तियदाक्षिषुर्यदापुर्दिव्यमज्ममजनि- माजिमश्वाइति ॥ १० ॥

1.163.11
तव॒ शरी᳚रं पतयि॒ष्ण्व᳚र्व॒न्तव᳚ चि॒त्तं वात᳚ इव॒ ध्रजी᳚मान् ।
तव॒ शृङ्गा᳚णि॒ विष्ठि᳚ता पुरु॒त्रार᳚ण्येषु॒ जर्भु᳚राणा चरन्ति ॥
▶ पदपाठः (Word-by-word)
तव᳚ । शरी᳚रम् । प॒त॒यि॒ष्णु । अ॒र्व॒न् । तव᳚ । चि॒त्तम् । वातः᳚॑इव । ध्रजी᳚मान् ।
तव᳚ । शृङ्गा᳚णि । वि॑स्थि᳚ता । पु॒रु॒॑त्रा । अर᳚ण्येषु । जर्भु᳚राणा । च॒र॒न्ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअर्वन् तवशरीरंपतयिष्णुपतनशीलंव्याप्तमित्यर्थः तथा तवचित्तंमनोवातइवध्रजीमान् शीघ्र- गमनवान् वायुरिवतद्वत् शीघ्रगमनानुकूलमित्यर्थः किंच तवश्रृंगाणिशिरसोनिर्गताः श्रृंगस्थानीयाः केशाः पुरुत्रापुरुषुबहुषुप्रदेशेषुविष्ठिता विष्ठितानि विविधंस्थितानि किंच तेएवारण्येषु जर्भुराणा- मनोहराणिपूर्यमाणानिवा एवंभूताः केशाश्चरन्ति यद्वा अत्राश्वस्यश्रृंगाभावात् तद्वदुन्नतानितेजां- सिपरिगृह्यन्ते ॥ ११ ॥ आश्वमेधिकेमध्यमेहनि अध्रिगुप्रैषे मानोमित्रइतिसूक्तानंतरमुपप्रागाच्छसनमितिद्वेऋचौशंसनीये सूत्रितंच—उपप्रागाच्छस्ज़नमितिद्वेइति ।

1.163.12
उप॒ प्रागा॒च्छस᳚नं वा॒ज्यर्वा᳚ देव॒द्रीचा॒ मन᳚सा॒ दीध्या᳚नः ।
अ॒जः पु॒रो नी᳚यते॒ नाभि᳚र॒स्यानु᳚ प॒श्चात्क॒वयो᳚ यन्ति रे॒भाः ॥
▶ पदपाठः (Word-by-word)
उप᳚ । प्र । अ॒गा॒त् । शस᳚नम् । वा॒जी । अर्वा᳚ । दे॒व॒द्रीचा᳚ । मन᳚सा । दीध्या᳚नः ।
अ॒जः । पु॒रः । नी॒य॒ते॒ । नाभिः᳚ । अ॒स्य॒ । अनु᳚ । प॒श्चात् । क॒वयः᳚ । य॒न्ति॒ । रे॒भाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमर्वा अरणकुशलोवाजी अश्वः शसनं विशसनस्थानं उपप्रागात् उपप्रैति उपगच्छति किंकुर्वन् देवद्रीचामनसा देवान् गच्छतामनसादीध्यानोध्यांयन् कदादेवानस्मदवयवे नार्चामि देवत्वंप्राप्नोमी- तिवामनसिध्यायन् किंचास्यपुरः पुरस्तान्नाभिर्नहनंबंधुभूतइत्यर्थः यद्वास्यबंधनस्थानीयः अविमुक्- तत्वात् एवंभूतोऽजः पुरोनीयते पुरतःप्राप्यते अनु अनुसृत्यपश्चात् अनंतरं अत्रयद्यप्युभयोः पर्यवसि- तोर्थएकएव तथाप्यजाश्वोभयानंतर्यत्वप्रकटनायपदद्वयं यद्वा अन्वितिक्रिययासंबध्यते कवयः अनू- चानाः रेभाः स्तोतारः ऋत्विजोयन्ति गच्छन्ति येवाअनूचानास्तेकवयइतिश्रुतेः । यद्वा कवयइति- मेधाविनाम कविर्मनीषीतितन्नामसुपठितत्वात् रेभइतिस्तोतृनाम रेभः जरितेतितत्रपाठात् ॥ १२ ॥

1.163.13
उप॒ प्रागा᳚त्पर॒मं यत्स॒धस्थ॒मर्वा{4}॒ अच्छा᳚ पि॒तरं᳚ मा॒तरं᳚ च ।
अ॒द्या दे॒वाञ्जुष्ट᳚तमो॒ हि ग॒म्या अथा शा᳚स्ते दा॒शुषे॒ वार्या᳚णि ॥
▶ पदपाठः (Word-by-word)
उप᳚ । प्र । अ॒गा॒त् । प॒र॒मम् । यत् । स॒ध॑स्थ᳚म् । अर्वा᳚न् । अच्छ᳚ । पि॒तर᳚म् । मा॒तर᳚म् । च॒ ।
अ॒द्य । दे॒वान् । जुष्ट᳚॑तमः । हि । ग॒म्याः । अथ᳚ । आ । शा॒स्ते॒ । दा॒शुषे᳚ । वार्या᳚णि ॥
▶ सायणभाष्यम् (Sayana Commentary)

अर्वान् अरणकुशलोयमश्वः उपप्रागात् उपगच्छति किं यत्परमंउत्कृष्टं सधस्थं सहस्थानं सुकृति- भिरेकत्रनिवासयोग्यंस्वर्गाख्यंयदस्तितत् किमर्थंपितरंमातरंच अच्छ आभिमुख्येनप्राप्तुं हेअश्वाद्या- स्मिन्काले जुष्टतमः प्रीततमः स्वर्गंप्राप्नोमीतिहर्षयुक्तइत्यर्थः एवंभूतोदेवान् गम्याः गच्छेः हिशब्दः यज्ञेउपयुक्तस्यपशोःस्वर्गप्राप्तेः सगर्भ्योनुसखासयूथ्यइत्यादिमंत्रान्त्रप्रसिद्धिद्योतनार्थः अथानन्तरं यजमानः आशास्ते कस्मै दाशुषे हविर्दत्तवते स्वस्मै कानि वार्याणि वरणीयानिधनानि यद्वा पुरुष- स्यव्यत्ययः आशास्ते प्रार्थये यजमानार्थम् ॥ १३ ॥

अस्यवामस्येतिद्विपंचाशत्यृचमष्टमंसूक्तंदैर्घतमसम् अत्रेयमनुक्रमणिका अस्यद्विपंचाशदल्पस्तवं- त्वेतत्संशयोत्थापनप्रश्नप्रतिवाक्यान्यत्रप्रायेणज्ञानमोक्षाक्षरप्रशंसाच पंचपादंसाकंजानांयद्गायत्रेयंस- शिंक्तेसप्तार्धगर्भागौरीरितिजगत्यः एतदन्तंतुवैश्वदेवं तस्याः समुद्राइतिवाचः समुद्राआपोक्षरंसाप्र- स्तारपङ्क्तिः शकमयमितिशकधूमः उक्षाणंपृश्निमितिसोमस्त्रयः केशिनइत्यग्निः सूर्योवायुश्चकेशिन- श्चत्वारिवाग्वाचइन्द्रंमित्रंसौर्यौद्वादशेतिसंवत्सरसंस्थंकालचक्रवर्णनं यस्तेसरस्वत्यैयज्ञेनसाध्येभ्यः परानुष्टुप्सौरीपर्जन्याग्निदेवतावान्त्यासरस्वतेसूर्यायवेति । अत्रस्तुत्याबहुत्वेनस्तुतिभागस्याल्पीय- स्त्वादिदंसूक्तमल्पस्तवनं नसूक्तान्तरवद्वहुस्तवनं इदमेववैलक्षण्यंतुशब्देनद्योत्यते अस्मिन्सूक्ते प्राये- णसंशयोत्थापनादयोबहवोर्थाः प्रतिपाद्यन्ते । अचिकित्वांश्चिकितुषइत्यनयासंशयउत्थाप्यते पृच्छा- मित्वेत्यत्रपश्नः प्रतीयते इयंवेदिरित्यत्रप्रतिवचनं यईंचकारेत्यादिनाज्ञानप्रशंसाप्रतिपाद्यते अपश्यं- गोपामित्यादिनाब्रह्मसाक्षात्कारूपमोक्षस्यप्रशंसा नक्षरतीत्यक्षरंब्रह्म द्वासुपर्णेत्यादिनातस्यप्रशंसा पंचपादंपितरंसाकंजानांसप्तथंयद्गायत्रेअधिअयंसशिंक्तेसप्तार्धगर्भागौरीर्मिमायेतिषट् जगत्याः समा- नमेतदित्यनुष्टुप् तस्याःसमुद्राइतिप्रस्तारपंक्तिः तल्लक्षणंछन्दोग्रंथेसूत्रितं—प्रस्तारपंक्तिःपुरतइति । पुरतःपूर्वार्धेद्वादशाक्षरौजागतौपादौततोद्वावष्टाक्षरौगायत्रौसाप्रस्तारपंक्तिरितिसूत्रार्थः । अनुक्रम- ण्यामप्युक्तम् आद्यौचेत्प्रस्तारपंक्तिरिति । शिष्टाअनादेशपरिभाषयात्रिष्टुभः गौरीर्मिमायेत्येतदन्ता- नां विश्वेदेवादेवता तस्याः समुद्राइत्यस्याः पूर्वार्धस्यवाग्देवता उत्तरार्धस्यआपः शकमयमित्यस्याः पूर्वार्धस्यशकधूमः उक्षाणंपृश्निमित्युत्तरार्धस्यसोमोदेवता त्रयः केशिनइत्यस्याः अग्निसूर्यवायवः च- त्वारिवागित्येषावाग्देवताका इन्द्रंमित्रंवरुणंक्रुष्णंनियानमित्येतेसूर्यदेवते द्वादशप्रधयइत्यस्याः सं- वत्सरात्माकालोदेवता यस्तेस्तनइत्यस्याःसरस्वती यज्ञेनेत्यस्याः साध्यादेवता समानमेतदित्यस्याः सूर्यःपर्जन्योवाग्नयोवादेवता दिव्यंसुपर्णमित्यस्याः सरस्वान् सूर्योवादेवता कृत्स्नसूक्तस्यविनियोगं- शौनकआह—स्तेयंकृत्वाद्विजोमोहान्त्रिरात्रोपोषितःशुचिः । सूक्तंजप्त्वास्यवामीयं क्षिप्रंमुच्येतकि- ल्बिषादिति । महाव्रतेवैश्वदेवशस्त्रे वैश्वदेवनिविद्धानंद्विप्रतीकं तत्रस्यवामस्येत्यादिकमेकचत्वारिं- शत्यृचंप्रथमंप्रतीकं पंचमरण्यकेसूत्रितम्—अस्यवामस्यपलितस्यहोतुरिति सलिलस्यदैर्घतमसः एक- चत्वारिंशतमिति ।