श्रवणम्

1.163.4 समानपद
त्रीणि᳚ त आहुर्दि॒वि बन्ध᳚नानि॒ त्रीण्य॒प्सु त्रीण्य॒न्तः स᳚मु॒द्रे ।
उ॒तेव᳚ मे॒ वरु᳚णश्छन्त्स्यर्व॒न्यत्रा᳚ त आ॒हुः प᳚र॒मं ज॒नित्र᳚म् ॥
▶ पदपाठः (Word-by-word)
त्रीणि᳚ । ते॒ । आ॒हुः॒ । दि॒वि । बन्ध᳚नानि । त्रीणि᳚ । अ॒प्॑सु । त्रीणि᳚ । अ॒न्तरिति᳚ । स॒मु॒द्रे ।
उ॒त॑इ᳚व । मे॒ । वरु᳚णः । छ॒न्त्सि॒ । अ॒र्व॒न् । यत्र᳚ । ते॒ । आ॒हुः । प॒र॒मम् । ज॒नित्र᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वंदिवित्रीणिबंधनानीत्युक्तं इदानीं स्थानत्रयेष्वपित्रीणिबंधनानीत्याह—हेअर्वन् तेतव दिवि बंधनानित्रीणिआहुः तानिपूर्वमुक्तानि अप्सुअबुपजीवितत्वाद्भूलोकोप्यप् शब्देनाभिधीयते पृथि- व्यांत्रीणिबंधनान्याहुः अन्नंस्थानंबीजमितित्रीणि तथा समुद्रेअन्तः समुद्रमध्ये समुद्रवणादपामपा- दानात्समुद्रमंतरिक्षं तस्मिन् त्रीणि बृष्ट्युत्पत्तिनिमित्तानि मेघोविद्युत्स्तनितमिति उतेव इवशब्द- श्चार्थे अपिच हेअर्वन् अश्व वरुणः पापस्यवारकः फलस्यावर्जयितावा त्वंमेमह्यं छन्त्सि कथयसि किंकथयसीतिचेदुच्यते तेतव परमंजनित्रं निरतिशयं जन्म जनेरौणादिकइत्रप्रत्ययः यत्रयेषुत्रिषूक्ते- षूस्थानेष्वाहुः कथयन्ति यद्वा यत्रयस्मिन्नादित्येपरमंजनित्रमाहुः सूरादश्वंवसवोनिरतष्टेत्युक्तत्वात् तादृशंप्रशस्यं जन्म यज्ञसाधनभावेनकथयसीत्यर्थः ॥ ४ ॥