श्रवणम्

1.163.12
उप॒ प्रागा॒च्छस᳚नं वा॒ज्यर्वा᳚ देव॒द्रीचा॒ मन᳚सा॒ दीध्या᳚नः ।
अ॒जः पु॒रो नी᳚यते॒ नाभि᳚र॒स्यानु᳚ प॒श्चात्क॒वयो᳚ यन्ति रे॒भाः ॥
▶ पदपाठः (Word-by-word)
उप᳚ । प्र । अ॒गा॒त् । शस᳚नम् । वा॒जी । अर्वा᳚ । दे॒व॒द्रीचा᳚ । मन᳚सा । दीध्या᳚नः ।
अ॒जः । पु॒रः । नी॒य॒ते॒ । नाभिः᳚ । अ॒स्य॒ । अनु᳚ । प॒श्चात् । क॒वयः᳚ । य॒न्ति॒ । रे॒भाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमर्वा अरणकुशलोवाजी अश्वः शसनं विशसनस्थानं उपप्रागात् उपप्रैति उपगच्छति किंकुर्वन् देवद्रीचामनसा देवान् गच्छतामनसादीध्यानोध्यांयन् कदादेवानस्मदवयवे नार्चामि देवत्वंप्राप्नोमी- तिवामनसिध्यायन् किंचास्यपुरः पुरस्तान्नाभिर्नहनंबंधुभूतइत्यर्थः यद्वास्यबंधनस्थानीयः अविमुक्- तत्वात् एवंभूतोऽजः पुरोनीयते पुरतःप्राप्यते अनु अनुसृत्यपश्चात् अनंतरं अत्रयद्यप्युभयोः पर्यवसि- तोर्थएकएव तथाप्यजाश्वोभयानंतर्यत्वप्रकटनायपदद्वयं यद्वा अन्वितिक्रिययासंबध्यते कवयः अनू- चानाः रेभाः स्तोतारः ऋत्विजोयन्ति गच्छन्ति येवाअनूचानास्तेकवयइतिश्रुतेः । यद्वा कवयइति- मेधाविनाम कविर्मनीषीतितन्नामसुपठितत्वात् रेभइतिस्तोतृनाम रेभः जरितेतितत्रपाठात् ॥ १२ ॥