श्रवणम्

1.163.9
हिर᳚ण्यशृ॒ङ्गो॑यो᳚ अस्य॒ पादा॒ मनो᳚जवा॒ अव᳚र॒ इन्द्र᳚ आसीत् ।
दे॒वा इद᳚स्य हवि॒रद्य᳚माय॒न्यो अर्व᳚न्तं प्रथ॒मो अ॒ध्यति᳚ष्ठत् ॥
▶ पदपाठः (Word-by-word)
हिर᳚ण्य॑शृ॒ङ्गः । अयः᳚ । अ॒स्य॒ । पादाः᳚ । मनः᳚॑जवाः । अव᳚रः । इन्द्रः᳚ । आ॒सी॒त् ।
दे॒वाः । इत् । अ॒स्य॒ । ह॒विः॒॑अद्य᳚म् । आ॒य॒न् । यः । अर्व᳚न्तम् । प्र॒थ॒मः । अ॒धि॒॑अति᳚ष्ठत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमश्वोहिरण्यश्रृंगः हितरमणीयश्रृंगउन्नतशिरस्कः हृदयरमणश्रृंगस्थानीयशिरोरुहोवा अस्य पादा अयः अयोमयाः अयःपिंडसदृशाइत्यर्थः तथामनोजवाः मनोवेगाः अथवैतदिंद्रविशेषणं ईदृ- शस्याश्वस्यसामर्थ्यं प्रतिमनोवेगः इन्द्रोप्यवरोनिक्रुष्टआसीत् किंच अस्याश्वस्य हविरद्यं हविषः अदनं भक्षणं स्वार्थिकोयत् अदनयोग्यं हविर्वाअपेक्ष्य देवाः इत् सर्वेपिदेवाः आयन् प्राप्ताः यइन्द्रः अर्वन्तं प्रथमः प्रथमभावीसन् अध्यतिष्ठत् अधिष्ठितवान् सहविष्ट्वेनस्वकीयत्वेनवा श्रितवानित्यर्थः इंद्रए- णंप्रथमोअध्यतिष्ठदितिह्युक्तम् ॥ ९ ॥