असि᳚ य॒मो अस्या᳚दि॒त्यो अ᳚र्व॒न्नसि᳚ त्रि॒तो गुह्ये᳚न व्र॒तेन᳚ ।
असि॒ सोमे᳚न स॒मया॒ विपृ᳚क्त आ॒हुस्ते॒ त्रीणि᳚ दि॒वि बन्ध᳚नानि ॥
असि॒ सोमे᳚न स॒मया॒ विपृ᳚क्त आ॒हुस्ते॒ त्रीणि᳚ दि॒वि बन्ध᳚नानि ॥
पदपाठः (Word-by-word)
असि᳚ । य॒मः । असि᳚ । आ॒दि॒त्यः । अ॒र्व॒न् । असि᳚ । त्रि॒तः । गुह्ये᳚न । व्र॒तेन᳚ ।
असि᳚ । सोमे᳚न । स॒मया᳚ । वि॑पृ᳚क्तः । आ॒हुः । ते॒ । त्रीणि᳚ । दि॒वि । बन्ध᳚नानि ॥
असि᳚ । सोमे᳚न । स॒मया᳚ । वि॑पृ᳚क्तः । आ॒हुः । ते॒ । त्रीणि᳚ । दि॒वि । बन्ध᳚नानि ॥
सायणभाष्यम् (Sayana Commentary)
हेअर्वन् त्वंयमोसि नियमिताग्निरसि तेनदत्तत्वात्तच्छब्दव्यपदेशः तथा आदित्योसि सूरान्निरत- ष्टेत्युक्तत्वात् तथागुह्येन व्रतेन गोपनीयेनदुर्दिनरूपेणवा कर्मणा सर्वत्रव्याप्तिरूपेणेत्यर्थः तेनत्रितः त्रिषुस्थानेषु तायमानोवायुरसि त्रितएनमायुनगित्युक्तत्वात् तद्रूपत्वं अथवागुह्येनव्रतेन गोपनीयेन- कर्मणा योगादिसाधनरूपेण त्रितः एतन्नामकऋषिरसि किंच हेअश्व त्वं सोमेनसमयासहविपृक्तः वीत्येषसमित्येतस्मिन्नर्थे संपृक्तोसि तेनगृहीतत्वात् हेअश्वैवंरूपं तेतव दिवि द्युलोके आदित्येवाव- र्तमानस्य त्रीणिबंधनानि उत्पत्तिकारणान्याहुःपुराविदः वसवआदित्योद्युस्थानंचेतित्रीणि ॥ ३ ॥