प्रथमं मण्डलम् - सूक्तम् 153

4 ऋचः

ऋषिः: दीर्घतमा औचथ्यः देवता: मित्रावरुणौ छन्दः: त्रिष्टुप्

सूक्तम् 1.153 - सम्पूर्णम्

1 / 4
ऋक्: 1.153.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (4)
1.153.1
यजा᳚महे वां म॒हः स॒जोषा᳚ ह॒व्येभि᳚र्मित्रावरुणा॒ नमो᳚भिः ।
घृ॒तैर्घृ᳚तस्नू॒ अध॒ यद्वा᳚म॒स्मे अ᳚ध्व॒र्यवो॒ न धी॒तिभि॒र्भर᳚न्ति ॥
▶ पदपाठः (Word-by-word)
यजा᳚महे । वा॒म् । म॒हः । स॒॑जोषाः᳚ । ह॒व्येभिः᳚ । मि॒त्रा॒व॒रु॒णा॒ । नमः᳚॑भिः ।
घृ॒तैः । घृ॒त॒स्नू॒ इति᳚ घृत॑स्नू । अध᳚ । यत् । वा॒म् । अ॒स्मे इति᳚ । अ॒ध्व॒र्यवः᳚ । न । धी॒ति॑भिः᳚ । भर᳚न्ति ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेघृतस्नू घृतस्यस्रावयितारौ मित्रावरुणौ महोमहान्तौ वां यजामहे पूजयामः यजमानाऋत्विज- श्च कीदृशाः सजोषाः समानप्रीतियुक्ताः केनसाधनेनेतितदुच्यते—हव्येभिः पुरोडाशादिभिः घृतैश्च- नमोभिः नमस्कारोपलक्षितैः अधअपिच यद्यस्मात्कारणात् वांयुवां अस्मेअस्मदीयाध्वर्यवोन अध्व- र्यवोऽपि अत्रनशब्दोप्यर्थे तेपिधीतिभिः स्वकीयैःकर्मभिः भरन्ति पोषयन्ति तस्माद्यजामहे ॥ १ ॥

1.153.2
प्रस्तु᳚तिर्वां॒ धाम॒ न प्रयु᳚क्ति॒रया᳚मि मित्रावरुणा सुवृ॒क्तिः ।
अ॒नक्ति॒ यद्वां᳚ वि॒दथे᳚षु॒ होता᳚ सु॒म्नं वां᳚ सू॒रिर्वृ᳚षणा॒विय᳚क्षन् ॥
▶ पदपाठः (Word-by-word)
प्र॑स्तु᳚तिः । वा॒म् । धाम᳚ । न । प्र॑यु᳚क्तिः । अया᳚मि । मि॒त्रा॒व॒रु॒णा॒ । सु॒॑वृ॒क्तिः ।
अ॒नक्ति᳚ । यत् । वा॒म् । वि॒दथे᳚षु । होता᳚ । सु॒म्नम् । वा॒म् । सू॒रिः । वृ॒ष॒णौ॒ । इय᳚क्षन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमित्रावरुणौ वांयुवयोः संबंधिनोः यागस्यप्रस्तुतिः प्रस्तावना करोमीतिसंकल्पएव नप्रयुक्तिः कृत्स्नप्रयोगोनसंपन्नः तावतैव युवयोर्धामतेजः स्थानमयामि प्राप्नोमिसुवृक्तिः युवयोः शोभनावर्ज- कश्चयुष्मत्परिग्रहादस्मि यत् यदातु विदथेषुयज्ञेषुवांयुवांहोताहोमनिष्पादकोयमध्वर्युः अनक्तिहवि- वागच्छति होमंकरोतीत्यर्थः यद्वा होतादेवानामाह्वाता एतन्नामकऋत्विक् शस्त्रादिनावांअनक्ति- व्यंजयति तदासूरिर्युष्मत्संबन्धिसुखं देवत्वलक्षणं अयामीतिशेषः ॥ २ ॥

1.153.3
पी॒पाय᳚ धे॒नुरदि᳚तिरृ॒ताय॒ जना᳚य मित्रावरुणा हवि॒र्दे ।
हि॒नोति॒ यद्वां᳚ वि॒दथे᳚ सप॒र्यन्त्स रा॒तह᳚व्यो॒ मानु᳚षो॒ न होता᳚ ॥
▶ पदपाठः (Word-by-word)
पी॒पाय᳚ । धे॒नुः । अदि᳚तिः । ऋ॒ताय᳚ । जना᳚य । मि॒त्रा॒व॒रु॒णा॒ । ह॒विः॒॑दे ।
हि॒नोति᳚ । यत् । वा॒म् । वि॒दथे᳚ । स॒प॒र्यन् । सः । रा॒त॑ह᳚व्यः । मानु᳚षः । न । होता᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमित्रावरुणामित्रावरुणौ ऋताययुष्मत्संबन्धियज्ञाय हविर्दे हविषोदात्रे आतोमनिन्नितिविच् टेर्भत्वेआतोधातोरित्याकारलोपः जनाययजमानायचधेनुःप्रीणयित्रीगौःअदितिःअदीनाबहुक्षीरास- तीपीपायक्षीरेण्पुनःपुनः आप्यायतां प्यायतेश्छान्दसः प्रार्थनायांलिट् लिड्यङोश्चेतिपीभावः पय- स्यादिहविष्कंयज्ञं पयोव्रतादिषुयजमानंचेत्यर्थः कस्मिन्कालइतिचेत् तत्राह—यत् यदा सः प्रसिद्धो- रातहव्यः एतन्नामाराजासपर्यन् स्तुत्यापूजयन्मानुषोहोतान मनुष्यस्ययजमानस्य संबन्धीएतन्नाम- कऋत्विगिव विदथे यज्ञेवांहिनोति हविरादिनाप्रीणयति तदापीपायेत्याह ॥ ३ ॥

1.153.4 समानपद
उ॒त वां᳚ वि॒क्षु मद्या॒स्वन्धो॒ गाव॒ आप᳚श्च पीपयन्त दे॒वीः ।
उ॒तो नो᳚ अ॒स्य पू॒र्व्यः पति॒र्दन्वी॒तं पा॒तं पय᳚स उ॒स्रिया᳚याः ॥
▶ पदपाठः (Word-by-word)
उ॒त । वा॒म् । वि॒क्षु । मद्या᳚सु । अन्धः᳚ । गावः᳚ । आपः᳚ । च॒ । पी॒प॒य॒न्त॒ । दे॒वीः ।
उ॒तो इति᳚ । नः॒ । अ॒स्य । पू॒र्व्यः । पतिः᳚ । दन् । वी॒तम् । पा॒तम् । पय᳚सः । उ॒स्रिया᳚याः ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतअपिच हेमित्रावरुणौ वांयुवांअंधः अदनीयमन्नंपयोरूपंपुरोडाशादिरूपंवा देवीर्द्योतनशीला- गावः अपश्चव्रीह्यादिप्रवर्धकान्युदकानिचमद्यासुयुष्माभिर्मदनीयासु विक्षुप्रजासु यजमानलक्षणासु तासामभिवृद्भ्यर्थंपीपयन्त आप्याययन्तु उतोअपिच नोऽस्मत्संबन्धिनोऽस्य यजमानस्य पूर्व्यः पूर्व- कालीनः पतिः पालकोऽग्निः दन् दाताभवत्वितिशेषः अग्नौहूयमानत्वात्सर्वेषामपिहविषां यस्मादेवं- तस्मात् हेमित्रावरुणौ वीतंभक्षयतं पुरोडाशादिकं उस्रियायाः क्षीराद्यस्राविण्याः गोः पयसः पयः पातं यद्वा घनीभूतंपयस्यायाः वीतंस्रवद्रूपंपातम् ॥ ४ ॥

विष्णोर्नुकमितिषळृचंपंचदशंसूक्तं दैर्घतमसंत्रैष्टुभंवैष्णवं अत्रानुक्रमणिका—विष्णोःषड्वैष्णवं- हीति आभिप्लवषडहेषूक्थ्येषु तृतीयसवने स्तोमवृद्धावच्छावाकस्यस्तोमातिशंसनार्थं इदमादिसूक्त- द्वयंविनियुक्तं स्तोमेवर्घमानइतिखण्डेसूत्रितम्—विष्णोर्नुकमितिसूक्तेपरोमात्रयेत्यच्छावाकइति त- थातृतीयसवनेसोमातिरेकेउत्तरसंस्थोपगन्तव्याआतिरात्रात्ततोप्यतिरिक्ते तदर्थमेवशस्त्रमुपज्नयित- व्यं तत्रैतदेवसूक्तं सोमातिरेकइतिखण्डेसूत्रितम्—महाँइन्द्रोनृवद्विष्णोर्नुकमिति आग्निमारुतशस्त्रेआ- द्याविनियुक्ता अथयथेतमितिखण्डेसूत्रितम्—विष्णोर्नुकंवीर्याणिप्रवोचंतंतुंतन्वन्रजसोभानुमन्विही- ति ।