प्रथमं मण्डलम् - सूक्तम् 155

6 ऋचः

ऋषिः: दीर्घतमा औचथ्यः देवता: विष्णुरिंद्रश्च छन्दः: जगती

सूक्तम् 1.155 - सम्पूर्णम्

1 / 6
ऋक्: 1.155.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
1.155.1
प्र व॒ः पान्त॒मन्ध᳚सो धियाय॒ते म॒हे शूरा᳚य॒ विष्ण᳚वे चार्चत ।
या सानु᳚नि॒ पर्व᳚ताना॒मदा᳚भ्या म॒हस्त॒स्थतु॒रर्व᳚तेव सा॒धुना᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । वः॒ । पान्त᳚म् । अन्ध᳚सः । धि॒या॒॑य॒ते । म॒हे । शूरा᳚य । विष्ण᳚वे । च॒ । अ॒र्च॒त॒ ।
या । सानु᳚नि । पर्व᳚तानाम् । अदा᳚भ्या । म॒हः । त॒स्थतुः᳚ । अर्व᳚ता॑इव । सा॒धुना᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अध्वर्य्वादयः वोयुष्माकंसंबन्धिपान्तं पालनस्वभावं पातव्यंवाअन्धसः अन्धःसोमरूपमन्नंप्रा- र्चत प्रकर्षेणसंपादयत कस्मैधियायते स्तुतीरिच्छते महेमहतेशूराय विक्रान्तायेन्द्रायविष्णवेव्यापका- यएतन्नामकायदेवायच कस्तयोरतिशयइत्युच्यते—या यौ इन्द्राविष्णूपर्वतानां प्रीणनवतां पूरणव- तांवा पर्वतशब्दोयास्केनैवंनिरुक्तः—पर्ववान् पर्वतः पर्वपुनः पृणातेःप्रीणातेर्वेति । उक्तलक्षणानां लोकानां सानुनि समुच्छ्रितप्रदेशे सर्वलोकेइत्यर्थः अथवा मेघानां समुच्छ्रितप्रदेशे पर्वतशब्दोमेघना- मसूक्तत्वात् तत्रतस्थातुः तिष्ठतः कीदृशौतौ अदाभ्या अदंभनीयौ परैरनभिभाव्यौ अतएवमहः महा- न्तौ यद्वा महोमहसिस्वतेजसि सानुनीत्यनेनसंबन्धः तत्रदृष्टान्तः—साधुना अभिमतदेशप्रापणसमर्थे- न अर्वता वेगवता अश्वेनेव तेन यथा अत्युच्छ्रितं प्रदेशमारोहति तद्वदुच्चंपदमारूढौ तस्मात्ताभ्याम- र्चत ॥ १ ॥ सोमातिरेकेतृतीयसवने एषावैकल्पिकीयाज्या तथाचसूत्रितम्—त्वेषमित्थासमरणंशिमीवतो- रितिवायाज्येति ।

1.155.2 समानपद
त्वे॒षमि॒त्था स॒मर᳚णं॒ शिमी᳚वतो॒रिन्द्रा᳚विष्णू सुत॒पा वा᳚मुरुष्यति ।
या मर्त्या᳚य प्रतिधी॒यमा᳚न॒मित्कृ॒शानो॒रस्तु᳚रस॒नामु᳚रु॒ष्यथः᳚ ॥
▶ पदपाठः (Word-by-word)
त्वे॒षम् । इ॒त्था । स॒म्॑अर᳚णम् । शिमी᳚॑वतोः । इन्द्रा᳚विष्णू॒ इति᳚ । सु॒त॒॑पाः । वा॒म् । उ॒रु॒ष्य॒ति॒ ।
या । मर्त्या᳚य । प्र॒ति॒॑धी॒यमा᳚नम् । इत् । कृ॒शानोः᳚ । अस्तुः᳚ । अ॒स॒नाम् । उ॒रु॒ष्यथः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्राविष्णू शिमीवतोः इष्टप्रदानादिकर्मवतोः वांयुवयोः इत्था इत्थंत्वेषं प्रदीप्तं समरणं सम्य- ग्यागदेशगमनं सुतपाः हुतशिष्टसोमपीतयजमानउरुष्यति रक्षति यागेनपूजयति यद्वा शिमीवतोः प्र- हरणादिकर्मवतोः वांयुवयोः त्वेषंदीप्तंशौर्योपेतं समरणंसम्यक् परस्परगमनोपेतंवृष्टिप्रदानायमेघवि- दारणरूपं कर्म यजमानः उरुष्यति रक्षति स्तौतीत्यर्थः कस्तयोरतिशयइत्युच्यते—या याविन्द्रावि- ष्णू युवांमर्त्ययमनुष्यायहविर्दात्रेयजमानायप्रतिधीयमानमित् प्रतिधातव्यं फलरूपं असनां असनंच- लनशीलं प्रदानशीलमन्नादिकं अस्तुः अभिमतक्षेप्तुः निरसितुर्वाशत्रूणां कृशानोरग्नेः सकाशात् उरु- ष्यथः अविच्छेनप्रवर्तयथः वह्नौहुतंहविः स्वीकृत्यतन्मुखादेवफलमपिदास्यथइत्यर्थः ॥ २ ॥

1.155.3
ता ईं᳚ वर्धन्ति॒ मह्य᳚स्य॒ पौंस्यं॒ नि मा॒तरा᳚ नयति॒ रेत᳚से भु॒जे ।
दधा᳚ति पु॒त्रो॑व᳚रं॒ परं᳚ पि॒तुर्नाम᳚ तृ॒तीय॒मधि᳚ रोच॒ने दि॒वः ॥
▶ पदपाठः (Word-by-word)
ताः । ई॒म् । व॒र्ध॒न्ति॒ । महि᳚ । अ॒स्य॒ । पौंस्य᳚म् । नि । मा॒तरा᳚ । न॒य॒ति॒ । रेत᳚से । भु॒जे ।
दधा᳚ति । पु॒त्रः । अव᳚रम् । पर᳚म् । पि॒तुः । नाम᳚ । तृ॒तीय᳚म् । अधि᳚ । रो॒च॒ने । दि॒वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ताः सोमरूपाः प्रसिद्धाआहुतयोयजमानेनहुताः ईंएतदस्येन्द्रस्य महिमहत् पौंस्यंपुंसः कर्मवक्ष्य- माणरूपंबलंवर्धन्ति वर्धयन्ति ईमित्यनर्थकोवा सचेन्द्रः सोमपानजनितं सामर्थ्यं मातरा द्यावापृथि- व्यौनिनयति नितरांप्रापयति किमर्थं रेतसेप्राणिनांपुत्राद्युत्पादनसामर्थ्याय भुजे तेषां भोगाय रक्ष- णायवा कुत्रेतितदुच्यते—दिवोद्योतमानस्यादित्यस्याअधिअधिकंरोचनेरोचमानेमण्डले नाम नमनं द्यावापृथिव्योः स्थापितंसामर्थ्यं पुत्रःपुरुचातासर्वोजनः पितुः पालकाद्विष्णोरनुग्रहात् यद्वा पितुः स्वोत्पादकात्स्वयमुत्पन्नंसत् अवरंनिकृष्टंनामपौत्रसंज्ञंपरंतत् उत्कृष्टं पुत्रइतिनामतदुभयापेक्षयातृती- यं पितेतिनामदधाति धारयति । त्रीणिवावरेतांसिपितापुत्रःपौत्रइतिश्रुतेः । अस्यायमर्थः अग्नौहुताः सोमाहुतयः आदित्यमण्डलंप्राप्यद्वादशात्मनः सवितुर्मूर्त्यन्तराविन्द्राविष्णूपोषयन्ति तुष्टौतौमेघद्वा- रावर्षतः तयावृष्ट्यासस्यादिद्वाराप्रजाः पुत्रपौत्रादिरूपेणवर्धयतइत्येवंमहानुभावाविन्द्राविष्णूइति ॥ ३ ॥

1.155.4 समानपद
तत्त॒दिद᳚स्य॒ पौंस्यं᳚ गृणीमसी॒नस्य᳚ त्रा॒तुर᳚वृ॒कस्य᳚ मी॒ळ्हुषः᳚ ।
यः पार्थि᳚वानि त्रि॒भिरिद्विगा᳚मभिरु॒रु क्रमि᳚ष्टोरुगा॒याय᳚ जी॒वसे᳚ ॥
▶ पदपाठः (Word-by-word)
तत्॑त᳚त् । इत् । अ॒स्य॒ । पौंस्य᳚म् । गृ॒णी॒म॒सि॒ । इ॒नस्य᳚ । त्रा॒तुः । अ॒वृ॒कस्य᳚ । मी॒ळ्हुषः᳚ ।
यः । पार्थि᳚वानि । त्रि॒॑भिः । इत् । विगा᳚म॑भिः । उ॒रु । क्रमि᳚ष्ट । उ॒रु॒॑गा॒याय᳚ । जी॒वसे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्यमहानुभावस्य तत्तत्पौंस्यं पुंस्त्वं पराक्रमातिशयं गृणीमः स्तुमः कीदृशस्यास्य इनस्य सर्व- स्यस्वामिनः त्रातुः पालकस्य अवृकस्य वृकोहिंसकः शत्र्वादिः तद्रहितस्य मीह्ळुषः सेक्तुः नित्यतरु- णस्यस्तुत्येषुपराक्रमेषुमध्यमेकमुदाहरति योविष्णुः पार्थिवानिपृथिव्यादीनिप्रथनवन्तिवासामर्थ्यात् रजांसीतिगम्यते लोकत्रयस्यापिपृथिवीशब्दवाच्यत्वं पूर्वमुदाहृतम् तानित्रिभिरिद्विगामभिः त्रिभि- रेवविविधगमनैः उरुविस्तीर्णं यथाभवतितथा क्रमिष्टक्रांतवान् विचक्रमइत्यर्थः उरुगायाय उरुगात- व्यायजीवसे लोकत्रयलक्षणाय यद्वा उरुगायाय षष्ठ्यर्थेचतुर्थी उरुगायस्यविष्णोरीदृशंपराक्रमंगृणी- मसि किमर्थं जीवसेजीवनयरक्षणाय ॥ ४ ॥

1.155.5
द्वे इद᳚स्य॒ क्रम᳚णे स्व॒र्दृशो᳚॑भि॒ख्याय॒ मर्त्यो᳚ भुरण्यति ।
तृ॒तीय᳚मस्य॒ नकि॒रा द᳚धर्षति॒ वय᳚श्च॒न प॒तय᳚न्तः पत॒त्रिणः᳚ ॥
▶ पदपाठः (Word-by-word)
द्वे इति᳚ । इत् । अ॒स्य॒ । क्रम᳚णे॒ इति᳚ । स्वः॒॑दृशः᳚ । अ॒भि॒॑ख्याय᳚ । मर्त्यः᳚ । भु॒र॒ण्य॒ति॒ ।
तृ॒तीय᳚म् । अ॒स्य॒ । नकिः᳚ । आ । द॒ध॒र्ष॒ति॒ । वयः᳚ । च॒न । प॒तय᳚न्तः । प॒त॒त्रिणः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्यस्वर्दृशः स्वर्गस्य सर्वस्यवाद्रष्टुर्विष्णोः द्वेइत् क्रमणे द्वेएवपदे मर्त्योमनुष्यः अभिख्यायसर्वभू- त्यादिनाप्रख्याय भुरण्यति गच्छति भजते भुरण्यतिःकण्ड्वादिर्गतिकर्मा भुरण्यतिशवतीतितत्कर्म- सुपाठात् प्रसिद्धत्वाद्भूलोकं वृष्ट्यागमनादन्तरिक्षंचेत्युभेक्रमणेजानाति अस्यविष्णोस्तृतीयंक्रमणं द्युलोकाख्यं कोऽपि मर्त्योनकिः नैवदधर्षति बृद्भ्यानाभिभवति ज्ञातुंनशक्नोतीत्यर्थः नकेवलं मनुष्यए- वअपितुवयश्चन वेत्तारोमरुतोऽपि कीदृशास्ते पतयन्तः सर्वत्रगमनसमर्थाः तथापतत्रिणः पतनशी- लागरुडादयोवायवोवा नकिरादधर्षति नैवशक्रुवन्ति धृषेर्लेट्यडागमः सत्यलोकस्यात्यंतविप्रकृष्टत्वे- न सर्वेषामविषयत्वादितिभावः ॥ ५ ॥

1.155.6
च॒तुर्भि᳚ः सा॒कं न᳚व॒तिं च॒ नाम᳚भिश्च॒क्रं न वृ॒त्तं व्यती{4}᳚रवीविपत् ।
बृ॒हच्छ᳚रीरो वि॒मिमा᳚न॒ ऋक्व᳚भि॒र्युवाकु᳚मार॒ः प्रत्ये᳚त्याह॒वम् ॥
▶ पदपाठः (Word-by-word)
च॒तुः॑भिः᳚ । सा॒कम् । न॒व॒तिम् । च॒ । नाम᳚॑भिः । च॒क्रम् । न । वृ॒त्तम् । व्यती᳚न् । अ॒वी॒वि॒प॒त् ।
बृ॒हत्॑श᳚रीरः । वि॒॑मिमा᳚नः । ऋक्व᳚॑भिः । युवा᳚ । अकु᳚मारः । प्रति᳚ । ए॒ति॒ । आ॒॑ह॒वम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमादित्यात्माविष्णुः चतुर्भिःसाकंसहितां नवतिं सचतुर्नवतिमित्यर्थः एतत्संख्याकान्कालाव- यवान् नामभिः स्वकीयनमनप्रकारैः प्रेरणविशेषैः वृत्तंयथाभवतितथव्यतीन् विविधानेव स्वभावान् वृत्तंचक्रंन बह्वरोपेतंचक्रमिव तद्यथा शत्रोरुपरिप्रक्षेपेणभ्रमयति तद्वदुक्तसंख्याकान् कालावयवान् अवीविपत् कंपयति भ्रमयति टुवेपृकंपने ण्यन्ताल्लुङिचङिरूपं केपुनस्तउच्यन्ते—संवत्सरएकः अय- नेद्वे पंचर्तवः द्वादशमासाः चतुर्विंशत्यर्धमासाः त्रिंशदहोरात्राः अष्टौयामाः एकस्मिन्दिने पर्यावर्त- मानानि मेषादीनिद्वादशलग्नानीति मिलित्वाचतुरधिकनवतिसंख्याकान् अवीविपत् ननु आदित्यः स्वयमपि इतरवत्परिभ्रमतिकथंभ्रमयतीत्युच्यते निषदोषः एतेषांभ्रमयतीत्युच्यते एवंकालात्मको- विष्णुः बृहच्छरीरः विराडात्मनासर्वदेवमनुष्यादिशरीराणांस्वशरीरत्वात् बृहच्छरीरत्वमेवोपपाद- यति विमिमानः विविधमात्मानं मिमानः देवतिर्यगात्मनाविभज्यस्थापयन् यद्वा ऋक्वभिः स्तुति- म्द्भिर्मन्रवद्भिर्वाविमिमानः यद्यपिविभुः तथापि भक्त्यधीनत्वात्स्तुत्यामीयते युवा सर्वत्रमिश्रण- शीलः नित्यतरुणोवा अतएवाकुमारः अनल्पः एवंभूतोमहाविष्णुराहवमाह्वानंप्रतिएतिगच्छति यज्ञदेशम् ॥ ६ ॥

भवामित्रइतिपंचर्चंसप्तदशंसूक्तं दैर्घतमसंजागतंत्वित्युक्तत्वादिदमपिजागतं वैष्णवंहीत्युक्तत्वा- द्वैष्णवं भवपंचेत्यनुक्रान्तं उक्थ्येतृतीयसवने अच्छावाकशस्त्रे एतत्सूक्तम् उक्थ्येतुहोत्रकाणामितिख- ण्डेसूत्रितम्—भवामित्रः संवांकर्मणेति सौम्यचरोरुभयत्वोघृतेनयष्टव्यं तत्रोपरितने घृतयागे उरुवि- ष्णोविक्रमस्वेति प्राकृतायाज्या दशमेहनितुतस्याः स्थानेभवामित्रइत्येषाप्रयोक्तव्या दशमेहनीतिख- ण्डेसूत्रितम्—उरुविष्णोविक्रमस्वेतिघृतयाज्यास्थानेभवामित्रइति ।