श्रवणम्

1.155.4 समानपद
तत्त॒दिद᳚स्य॒ पौंस्यं᳚ गृणीमसी॒नस्य᳚ त्रा॒तुर᳚वृ॒कस्य᳚ मी॒ळ्हुषः᳚ ।
यः पार्थि᳚वानि त्रि॒भिरिद्विगा᳚मभिरु॒रु क्रमि᳚ष्टोरुगा॒याय᳚ जी॒वसे᳚ ॥
▶ पदपाठः (Word-by-word)
तत्॑त᳚त् । इत् । अ॒स्य॒ । पौंस्य᳚म् । गृ॒णी॒म॒सि॒ । इ॒नस्य᳚ । त्रा॒तुः । अ॒वृ॒कस्य᳚ । मी॒ळ्हुषः᳚ ।
यः । पार्थि᳚वानि । त्रि॒॑भिः । इत् । विगा᳚म॑भिः । उ॒रु । क्रमि᳚ष्ट । उ॒रु॒॑गा॒याय᳚ । जी॒वसे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्यमहानुभावस्य तत्तत्पौंस्यं पुंस्त्वं पराक्रमातिशयं गृणीमः स्तुमः कीदृशस्यास्य इनस्य सर्व- स्यस्वामिनः त्रातुः पालकस्य अवृकस्य वृकोहिंसकः शत्र्वादिः तद्रहितस्य मीह्ळुषः सेक्तुः नित्यतरु- णस्यस्तुत्येषुपराक्रमेषुमध्यमेकमुदाहरति योविष्णुः पार्थिवानिपृथिव्यादीनिप्रथनवन्तिवासामर्थ्यात् रजांसीतिगम्यते लोकत्रयस्यापिपृथिवीशब्दवाच्यत्वं पूर्वमुदाहृतम् तानित्रिभिरिद्विगामभिः त्रिभि- रेवविविधगमनैः उरुविस्तीर्णं यथाभवतितथा क्रमिष्टक्रांतवान् विचक्रमइत्यर्थः उरुगायाय उरुगात- व्यायजीवसे लोकत्रयलक्षणाय यद्वा उरुगायाय षष्ठ्यर्थेचतुर्थी उरुगायस्यविष्णोरीदृशंपराक्रमंगृणी- मसि किमर्थं जीवसेजीवनयरक्षणाय ॥ ४ ॥