अ॒यं वां᳚ य॒ज्ञो अ᳚कृत॒ प्रश᳚स्तिं॒ वसु᳚धिती॒ अवि᳚तारा जनानाम् ॥
पदपाठः (Word-by-word)
अ॒यम् । वा॒म् । य॒ज्ञः । अ॒कृ॒त॒ । प्र॑श᳚स्तिम् । वसु᳚धिती॒ इति॒ वसु᳚॑धिती । अवि᳚तारा । ज॒ना॒ना॒म् ॥
सायणभाष्यम् (Sayana Commentary)
हेअश्विनौ प्रेष्ठौप्रियतमौवांयुवांकदुकदा इषां इष्यन्तेइतिइषः तेषांइप्यमाणानामन्नानांरयीणां कर्मणिषष्ठ्यौ अन्ननिधनानिचउन्निनीथः ऊर्ध्वंप्रापयथः अध्वर्यंताअध्वरंपारयितुमिच्छन्तौयुवां अपांवृष्ट्युदकानांवृष्ट्युदकानिचोन्निनीथः उत्कृष्टं अधःप्रापयथइतियत् तत् कदाकस्मादेवमुच्यत- इतिउच्यते अयंयज्ञोस्माभिरनुष्ठीयमानोवांयुवयोरेवप्रशस्तिंप्रशंसांस्तुतिमकृतकरोति यज्ञेशंसनी- यानिशस्त्राणियुवामेवप्रशंसन्तीत्यर्थः यस्मादेवंतस्मात् हेवसुधिती वसुनोधनस्यधातारौ वस्तव्य- कर्माणौ तथा हेजनानामवितारावृक्तलक्षणौयुवांकदान्नानांधनानांचदातारौभवथइति ॥ १ ॥