आ वा॒मश्वा᳚स॒ः शुच᳚यः पय॒स्पा वात᳚रंहसो दि॒व्यासो॒ अत्या᳚ः ।
म॒नो॒जुवो॒ वृष᳚णो वी॒तपृ᳚ष्ठा॒ एह स्व॒राजो᳚ अ॒श्विना᳚ वहन्तु ॥
म॒नो॒जुवो॒ वृष᳚णो वी॒तपृ᳚ष्ठा॒ एह स्व॒राजो᳚ अ॒श्विना᳚ वहन्तु ॥
पदपाठः (Word-by-word)
आ । वा॒म् । अश्वा᳚सः । शुच᳚यः । प॒यः॒॑पाः । वात᳚॑रंहसः । दि॒व्यासः᳚ । अत्याः᳚ ।
म॒नः॒॑जुवः᳚ । वृष᳚णः । वी॒त॑पृ᳚ष्ठाः । आ । इ॒ह । स्व॒॑राजः᳚ । अ॒श्विना᳚ । व॒ह॒न्तु॒ ॥
म॒नः॒॑जुवः᳚ । वृष᳚णः । वी॒त॑पृ᳚ष्ठाः । आ । इ॒ह । स्व॒॑राजः᳚ । अ॒श्विना᳚ । व॒ह॒न्तु॒ ॥
सायणभाष्यम् (Sayana Commentary)
अश्विना अश्विनौशोभनाश्वयुक्तौ वांयुवां अश्वासः युष्मदीयाइहास्मिन्यज्ञेआवहन्तु प्रापयन्तु अवशिष्टान्यश्वविशेषणानि कीदृशास्ते शुचयः शुद्धादीप्तावा पयस्याः वृष्ट्युदकस्य पातारः वात- रंहसः वायुवेगाः दिव्याः दिविभवाः अत्याः अतनशीलाः मनोजुवः मनोजवाः वृषणोवर्षकायुवा- नइत्यर्थः वीतपृष्ठाःकान्तपृष्ठाः वपुष्मन्तइत्यर्थः स्वराजः स्वयमेवराजमानाः ईदृशाः वहन्तु ॥ २ ॥