श्रवणम्

1.181.3
आ वां॒ रथो॒॑वनि॒र्न प्र॒वत्वा᳚न्त्सृ॒प्रव᳚न्धुरः सुवि॒ताय᳚ गम्याः ।
वृष्ण᳚ः स्थातारा॒ मन᳚सो॒ जवी᳚यानहम्पू॒र्वो य᳚ज॒तो धि᳚ष्ण्या॒ यः ॥
▶ पदपाठः (Word-by-word)
आ । वा॒म् । रथः᳚ । अ॒वनिः᳚ । न । प्र॒वत्वा᳚न् । सृ॒प्र॑व᳚न्धुरः । सु॒वि॒ताय᳚ । ग॒म्याः॒ ।
वृष्णः᳚ । स्था॒ता॒रा॒ । मन᳚सः । जवी᳚यान् । अ॒ह॒म्॑पू॒र्वः । य॒ज॒तः । धि॒ष्ण्या॒ । यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वमन्त्रेश्वव्याजेनाश्विनोरागमनमुक्तं अनेनर्थव्याजेनोच्यते हेधिष्णयाउन्नतस्थानार्हौ स्थातारा- स्वरथधिष्ठानौ वांयुवयोर्योरथोस्थिससुवितायशोभनफलायागम्याः अस्मद्यज्ञमागच्छतु पुरुषव्यत्य- यः कीदृशोरथइतिसविशेष्यते अवनिर्नप्रवत्वान् भूमिरिवात्यन्तविस्तारवान् सृप्रबन्धुरः विस्तीर्ण- पुरोभागः वृष्णः वर्षकस्याश्वस्य मनसोपिजवीयान् मनोवेगवानित्यर्थः अहंपूर्वः अहंकारपूर्वः मन- स्वीवात्युदारः यजतोयष्टव्यः ईदृशोरथआगच्छतु ॥ ३ ॥