प्र वां᳚ श॒रद्वा᳚न्वृष॒भो न नि॒ष्षाट् पू॒र्वीरिष᳚श्चरति॒ मध्व᳚ इ॒ष्णन् ।
एवै᳚र॒न्यस्य᳚ पी॒पय᳚न्त॒ वाजै॒र्वेष᳚न्तीरू॒र्ध्वा न॒द्यो᳚ न॒ आगु᳚ः ॥
एवै᳚र॒न्यस्य᳚ पी॒पय᳚न्त॒ वाजै॒र्वेष᳚न्तीरू॒र्ध्वा न॒द्यो᳚ न॒ आगु᳚ः ॥
पदपाठः (Word-by-word)
प्र । वा॒म् । श॒रत्॑वा᳚न् । वृ॒ष॒भः । न । नि॒ष्षाट् । पू॒र्वीः । इषः᳚ । च॒र॒ति॒ । मध्वः᳚ । इ॒ष्णन् ।
एवैः᳚ । अ॒न्यस्य᳚ । पी॒पय᳚न्त । वाजैः᳚ । वेष᳚न्तीः । ऊ॒र्ध्वाः । न॒द्यः᳚ । नः॒ । आ । अ॒गुः॒ ॥
एवैः᳚ । अ॒न्यस्य᳚ । पी॒पय᳚न्त । वाजैः᳚ । वेष᳚न्तीः । ऊ॒र्ध्वाः । न॒द्यः᳚ । नः॒ । आ । अ॒गुः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेअश्विनौ युवांयुवयोरन्यतमोमध्यमस्थानः शरद्वान् शरणवान् मेघः वृक्षपर्णादीनांविशरणवान् अथवाबहुसंवत्सरः पूर्वतनोनित्यइत्यर्थः वृषभोनवर्षितैवेन्द्रः सइवशत्रूणांनिःषाट् निः सारयितासन् पूर्वीर्बह्वीः पुरातनीर्वाइषः अन्नानिसस्यादीन्युद्दिश्यप्रचरतिप्रकर्षेणगच्छति मध्यमस्थानश्चन्द्रइति- पक्षेशरद्वान् शरत्कालवान् तस्मिन् ऋतौ हिचन्द्रः सन्नद्धौभवति तेनचतृणगुल्मौषध्यादीनिवर्धन्ते सकिमर्थमेवंकरोतीतिउच्यते मध्वइष्णन् मधुनोमधुसदृशस्यहविषः कर्मणिषष्ठी हविरिच्छन् तदर्थं- मेवंकरोति तथान्यस्योत्तमादित्यस्यएवैः कामैः गमनैर्वानिमित्तभूतैः पीपयन्त आप्याययन्ति हवि- र्भिर्यजमानाः तुष्टेनतेनप्रेरिताः वेषन्तीः व्यापयन्तीः ऊर्ध्वाउन्नताउत्तीरानद्योन नदनशीलायथानो- स्मदर्थं आगुः आगच्छन्ति ॥ ६ ॥