प्रथमं मण्डलम् - सूक्तम् 87

6 ऋचः

ऋषिः: गोतमो राहूगणः देवता: मरुतः छन्दः: जगती

सूक्तम् 1.87 - सम्पूर्णम्

1 / 6
ऋक्: 1.87.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
1.87.1
प्रत्व᳚क्षस॒ः प्रत᳚वसो विर॒प्शिनो॑ना᳚नता॒ अवि᳚थुरा ऋजी॒षिणः᳚ ।
जुष्ट᳚तमासो॒ नृत᳚मासो अ॒ञ्जिभि॒र्व्या᳚नज्रे॒ के चि᳚दु॒स्रा इ᳚व॒ स्तृभि᳚ः ॥
▶ पदपाठः (Word-by-word)
प्र॑त्व᳚क्षसः । प्र॑त᳚वसः । वि॒॑र॒प्शिनः᳚ । अना᳚नताः । अवि᳚थुराः । ऋ॒जी॒षिणः᳚ ।
जुष्ट᳚॑तमासः । नृ॑त᳚मासः । अ॒ञ्जि॑भिः᳚ । वि । आ॒न॒ज्रे॒ । के । चि॒त् । उ॒स्राः॑इ᳚व । स्तृभिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रत्वक्षस इति षडृचं तृतीयं सूक्तं गोतमस्यार्षं जागतं मारुतम् । तथा चानुक्रांतम् । प्रत्वक्षसः षड्जागतमिति ॥ अग्निष्टोम आग्निमारुतशस्त्र इदं सूक्तं मारुतनिविद्धानम् । अथ यथेतमिति खंडे सूत्रितम् । प्रत्वक्षसः प्रतवसो यज्ञा यज्ञा वो अग्नये । आ ५ । २० । इति ॥

प्रत्वक्षसः शत्रूणां प्रकर्षेण तनूकर्तारः । शत्रुघातिन इत्यर्थः । यतः प्रतवतः प्रकष्टबलोपेता अत एव विरप्शिनो विविधेन जयघोषेणोपेताः । यद्वा । महन्नामैनत् । महांतो हि विविधैः शब्दैः प्रशस्यंते । अत एवानानता आनतिरहिताः । सर्वोत्कृष्टा इत्यर्थः । अविथुरा अवियुक्ताः । सप्तगणरूपेण संघीभूता इत्यर्थः । ऋजीषिणः । तृतीयसवने ऋजीषस्याभिषवात् तत्र च मरुतः स्तूयंत इति तेषामृजीषित्वम् । यद्वा । ऋजीषिणः प्रार्जयितारो रसानाम् । जुष्टतमासोऽतिशयेन यष्टृभिः सेविताः नृतमासोऽतिशयेन मेघादेर्नेतारः एवंभूता मरुतः स्तृभिः स्वशरीरस्याच्छादकैरंजिभी रूपाभिव्यंजकैराभरणैर्व्यानज्रे । नभसि व्यक्ता दृश्यंते । तत्र दृष्टांतः । के चिदुस्रा इव । ये केचन सूर्यरश्मये यथा नभसि दीप्यंते तद्वत् ॥ प्रत्वक्षसः । प्रकर्षेण त्वक्षंते तनूकुर्वंतीति प्रत्वक्षसः । तक्षू त्वक्षू तनूकरणे । गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं चेत्यसुन् पूर्वपदप्रकृतिस्वरत्वं च । प्रतवसः । तव इति बलनाम । प्रकृष्टं तवो येषाम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । विरप्शिनः । रप लप जल्प व्यक्तायां वाचि । विरपणं विरप्यः । औणादिकः शक्प्रत्ययः । तद्वंतो विरप्शिनः । अनानताः । आनता अवनताः प्रह्वीभूताः । न आनता अनानताः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अविथुराः । व्यथ भयचलनयोः । व्यथेः संप्रसारणं धः किच्च (उ १-४०) इत्युरच् प्रत्ययः । अत्र तु बहुलवचनाद्धत्वं न क्रियते । पूर्ववत्समासस्वरौ । जुष्टतमासः । नित्यं मंत्र इति जुष्टशब्द आद्युदात्तः । तत आतिशायनिकस्य तमपः पित्त्वादनुदात्तत्वे स एव स्वरः शिष्यते । आनज्रे । आन्जू व्यक्तिम्रक्षणकांतिगतिषु । कर्मणि च्छंदसि लुङ् लङ् लिट इति वर्तमाने लिट् । अत आदेरित्यभ्यासस्यात्वम् । तस्मान्नुड् द्विहलः (पा ७-४-७१) इति नुट् । व्यत्ययेनोपधालोपः । इरयो रे । स्तृभिः । स्तृञ् आच्छादने । क्विप् । आगमानुशासनस्यानित्यत्वात्तुगभावः ॥ १ ॥

1.87.2
उ॒प॒ह्व॒रेषु॒ यदचि᳚ध्वं य॒यिं वय᳚ इव मरुत॒ः केन᳚ चित्प॒था ।
श्चोत᳚न्ति॒ कोशा॒ उप᳚ वो॒ रथे॒ष्वा घृ॒तमु᳚क्षता॒ मधु᳚वर्ण॒मर्च᳚ते ॥
▶ पदपाठः (Word-by-word)
उ॒प॒॑ह्व॒रेषु᳚ । यत् । अचि᳚ध्वम् । य॒यिम् । वयः᳚॑इव । म॒रु॒तः॒ । केन᳚ । चि॒त् । प॒था ।
श्चोत᳚न्ति । कोशाः᳚ । उप᳚ । वः॒ । रथे᳚षु । आ । घृ॒तम् । उ॒क्ष॒त॒ । मधु᳚॑वर्ण᳚म् । अर्च᳚ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुत उपह्वरेषूपह्वर्तव्येषु गंतव्येष्वस्माकं सन्यिकृष्वेषु नभसः प्रदेशेषु यद्यदा ययिं गतिमंतं मेघमचिध्वं वर्षणसामर्थ्येनोपचितं कुरुथ । किं कुर्वंतः । वय इव पक्षिण इव केन चित्पथा केनचिदाकाशमार्गेण शीघ्रं गच्छंतः । नभसि शीघ्रं वर्षणार्थं प्रवर्तमानैर्मरुद्भिर्मेषा उपचीयंत इत्यर्थः । तदानीं कोशाः । मेघनामैतत् । वो युष्माकं रथेष्वासक्ता मेघाः श्चोतंति । जलं मुचंति । यस्मादेवं तस्मात् दे मरुतो यूयमर्चते युष्मान् हविर्भिः पूजयते मह्यं यजमानाय मधुवर्णं मधुसदृशरूपं स्वच्छं घृत वृष्ट्युदकमा समंतादुक्षत । सिंचत । अस्मदभिलषितां वृष्टिं कुरुतेत्यर्थः ॥ उपह्वरेषु । ह्वृ कौटिल्ये । उपह्वरंति कौटिल्येन तिर्यग्गच्छंत्येष्वित्युपह्वरानभः प्रदेशाः । पुंसि संज्ञायां घः प्रायेणेत्यधिकरणे घः । अचिध्वम् । चिनोतेर्वर्तमाने लङ् । बहुलं छंदसीति विकरणण्य लुक् । ययिम् । या प्रापणे आदृगमहनजन इति किप्रत्ययः । पथा । अङि भस्य टीर्लोप इति टिलोपः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । श्चोतंति । श्च्यतिर् क्षरणे । छांदसो यलोपः । उक्षत । उक्षसेचनॆ लोट तशब्दस्य ङुत्त्वे सति ऋचि तुनुघेत्यादिना सांहितिको दीर्घः ॥ २ ॥

1.87.3
प्रैषा॒मज्मे᳚षु विथु॒रेव᳚ रेजते॒ भूमि॒र्यामे᳚षु॒ यद्ध᳚ यु॒ञ्जते᳚ शु॒भे ।
ते क्री॒ळयो॒ धुन᳚यो॒ भ्राज᳚दृष्टयः स्व॒यं म᳚हि॒त्वं प᳚नयन्त॒ धूत᳚यः ॥
▶ पदपाठः (Word-by-word)
प्र । ए॒षा॒म् । अज्मे᳚षु । वि॒थु॒रा॑इ᳚व । रे॒ज॒ते॒ । भूमिः᳚ । यामे᳚षु । यत् । ह॒ । यु॒ञ्जते᳚ । शु॒भे ।
ते । क्री॒ळयः॒ । धुन᳚यः । भ्राज᳚त्॑ऋष्टयः । स्व॒यम् । म॒हि॒॑त्वम् । प॒न॒य॒न्त॒ । धूत᳚यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्ध यदा खल्वेते मरुतः शुभे शोभनाय वृष्ट्युदकाय युंजते मेघान् सज्जीकुर्वंति तदानीमज्जेषु मेघानामुत्क्षेपकेष्वेषां मरुतां संबंधिषु यामेषु मेघानां नियमनेषु सत्सु भूमिः पृथिवी प्र रेजते । प्रकर्षेण कंपते । यद्वा । यदा खलु मरुतः स्वकीयान्रथान्युंजते अश्वैर्योजयंति तदानीमेषां रथानां संबंधिषु पर्वतादेरुत्क्षॆपकेषु यामेषु गमनेषु भूमिर्भीत्या कंपते । तत्र दृष्टांतः । विथुरेव । यथा भर्त्रा वियुक्ता जाया राजोपद्रवादिषु सत्सु निरालंबा सती कंपते तद्वत् । ते तादृशाः क्रीळयो विहारशीला धुनयश्चलनस्वभावा भ्राजदृष्वयः दीप्यमानायुधा एवंभूता मरुतो धूतयः पर्वतादीन्दुन्वंतः संतो महित्वं स्वकीयं महिमानं स्वयमेव पनयंत । व्यवहरंति । प्रकटयंतीत्यर्थः ॥ अज्मेषु । अज गतिक्षेपणयोः । अर्तिस्तुस्वित्यादिना विधीयमानो मन् बहुलवचनादस्मादपि द्रष्टव्यः । वलादावार्ध धातुके विकल्प इष्यते । का २-४-५६-२ । इति वचनादजेर्व्यघञपोरिति वीभावाभावः । नित्त्वादाद्युदात्तत्वम् । रेजते । रेजृ कंपने । भ्यसते रेजत इति भयपेपनयोरिति यास्कः । नि । ३-२१ । यामेषु । यम उपरमे । भावे घञ् । कर्षात्वत इत्यंतो दात्तॆत्वेप्राप्ते वृषादिषु पाठादाद्युदात्तत्वम् । यद्वा । या प्रापण इत्यस्मादर्ति स्तुस्वित्या-दिना मन्प्रत्ययः । शुभे । शुभ दीप्तौ । संपदादिलक्षणः कर्मणि क्विप् । सावेकाचइति विभक्तेरुदात्तत्वम् । पनयंत । पन व्यवहारे । गुपूधूपविच्छेत्यायः (पा ३-१-२८) अस्राच्छांदसो लङ् । व्यत्ययेन ह्रस्वत्वं ॥ ३ ॥

1.87.4 समानपद
स हि स्व॒सृत्पृष᳚दश्वो॒ युवा᳚ ग॒णो॒३॒᳚॑या ई᳚शा॒नस्तवि᳚षीभि॒रावृ᳚तः ।
असि᳚ स॒त्य ऋ᳚ण॒यावाने᳚द्यो॒॑स्या धि॒यः प्रा᳚वि॒ताथा॒ वृषा᳚ ग॒णः ॥
▶ पदपाठः (Word-by-word)
सः । हि । स्व॒॑सृत् । पृष᳚त्॑अश्वः । युवा᳚ । ग॒णः । अ॒या । ई॒शा॒नः । तवि᳚षीभिः । आ॑वृ᳚तः ।
असि᳚ । स॒त्यः । ऋ॒ण॒॑यावा᳚ । अने᳚द्यः । अ॒स्याः । धि॒यः । प्र॒॑अ॒वि॒ता । अथ᳚ । वृषा᳚ । ग॒णः ॥
▶ सायणभाष्यम् (Sayana Commentary)

स हि स खलु मरुद्गणोऽया अस्य सर्वस्य जगत ईशान ईश्वरशीलो भवति । कीदृशः । स्वसृत् स्वयमेव सरन् । न ह्यन्यः कश्चिदस्य मरुद्गणस्य प्रेरकोऽस्ति । पृषदश्वः । पृषत्यः श्वेतबिंद्वंकिता मृग्योऽश्वस्थानीया यस्य स तथोक्तः । युवा नित्यतरुणः तविषीभिरन्येषामसाधारणैर्बलैरावृतः परिवेष्वितः सत्यः सत्कर्मार्हः ऋणयावा स्तोतृणामृणस्यापगमयिता । बहुलस्य धनस्य दातेत्यर्थः । आनेद्यः । प्रशस्यनामैतत् । सर्वैरनिंदितः वृषा जलानां वर्षिता । एवंभूतो मरुद्गणोऽस्या धियोऽस्मदीयस्यास्य कर्मणोऽथानंतरं प्रावितासि । प्रकर्षेण रक्षिता भवति ॥ अया । सुपां सुलुगिति षष्ठ्या याचादेशः । हलि लोपः । ७-२-११३ । इतीदम इद्रूपस्य लोपः । ईशानः । ईश ऐश्वर्य इत्यस्मात्ताच्छीलिकश्चानश् । तस्य लसार्वधातुकत्वाभावेन चित्स्वरेणांतोदात्तत्वम् । अया ईशान इत्यत्रेषा अक्षादित्वात्प्रकृतिभावः । असि । पुरुषव्यत्ययः । ऋणयावा । या प्रापण इत्यस्मादंतर्भावितण्यर्थादातो मनिन्निति वनिप् । अनेद्यः । णिदि कुत्सायाम् । ऋहलोर्ण्यदिति ण्यत् । आगमानुशासनस्यानित्यत्वान्नुमभावे लघूपधगुणः । नञ्समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वं ॥ ४ ॥

1.87.5
पि॒तुः प्र॒त्नस्य॒ जन्म᳚ना वदामसि॒ सोम᳚स्य जि॒ह्वा प्र जि᳚गाति॒ चक्ष᳚सा ।
यदी॒मिन्द्रं॒ शम्यृक्वा᳚ण॒ आश॒तादिन्नामा᳚नि य॒ज्ञिया᳚नि दधिरे ॥
▶ पदपाठः (Word-by-word)
पि॒तुः । प्र॒त्नस्य᳚ । जन्म᳚ना । व॒दा॒म॒सि॒ । सोम᳚स्य । जि॒ह्वा । प्र । जि॒गा॒ति॒ । चक्ष᳚सा ।
यत् । ई॒म् । इन्द्र᳚म् । शमि᳚ । ऋक्वा᳚णः । आश᳚त । आत् । इत् । नामा᳚नि । य॒ज्ञिया᳚नि । द॒धि॒रे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रत्नस्य चिरंतनस्य पितुरस्माकं जनकस्य रहूगणस्य सकाशाद्यज्जन्म तेन वयं वदामसि । ब्रूमः । वक्ष्यमाणं वृत्तांतमस्माकं पितोपदिष्ववान् अतो वयं ब्रूम इत्यर्थः । कोऽसौ वृत्तांत इति चेत् उच्यते । सोमस्य यज्ञेष्वभिषुतस्य सोमद्रव्यस्य चक्षसा प्रकाशमानयाहुत्या सहिता जिह्वा स्तुतिरूपा वाक् प्र जिगाति । मरुद्गणं प्रकर्षेण गच्छति । यज्ञेषु सोमाहुतुः स्तुतिश्च मरुद्भ्यः क्रियते । यस्मादीमेनमिंद्रं शमि वृत्रवधादिरूपे कर्मणि ऋक्वाणः प्रहर भगवो जहि वीरयस्वेत्येवंरूपया स्तुत्या युक्ताः संत आशत प्राप्नुवन् न पर्यत्याक्षुः आदित् एवमिंद्रप्राप्त्यानंतरमेव यज्ञियानि यज्ञार्हाणीदृङ् चान्यादृङ् चेत्येवमादीनि नामानींद्रसकाशाल्लब्ढ्वा दधिरे । धृतवंतः । तस्मादेषां यज्ञेसोमाहुतिः स्तुतिश्च क्रियते ॥ शमि । शमीति कर्मनाम । सप्तम्येकवचने छांदस ईकारलोपः । ऋक्वाणः । ऋच स्तुतौ । संपदादिलक्षणो भावे क्विप् । छंदसीवनिपाविति मत्वर्थीयो वनिप् । अंत्यविकारश्छांदसः । यद्वा । अयस्मयादिषु क्वचिदुभयं भवति । का १-४-२० । इत्युक्तत्वात् स सुष्टुभा स ऋक्वतेत्यादाविव पदत्वात्कुत्वं भत्वाज्जश्त्वाभावः । आशत । लङि बहुलं छंदसीति विकरणस्य लुक् । यज्ञियानि । यज्ञर्त्विग्भ्यां घखञावित्यर्हार्थे घः ॥ ५ ॥

1.87.6
श्रि॒यसे॒ कं भा॒नुभि॒ः सं मि᳚मिक्षिरे॒ ते र॒श्मिभि॒स्त ऋक्व᳚भिः सुखा॒दयः᳚ ।
ते वाशी᳚मन्त इ॒ष्मिणो॒ अभी᳚रवो वि॒द्रे प्रि॒यस्य॒ मारु᳚तस्य॒ धाम्न᳚ः ॥
▶ पदपाठः (Word-by-word)
श्रि॒यसे᳚ । कम् । भा॒नु॑भिः᳚ । सम् । मि॒मि॒क्षि॒रे॒ । ते । र॒श्मि॑भिः᳚ । ते । ऋक्व᳚॑भिः । सु॒॑खा॒दयः᳚ ।
ते । वाशी᳚॑मन्तः । इ॒ष्मिणः᳚ । अभी᳚रवः । वि॒द्रे । प्रि॒यस्य᳚ । मारु᳚तस्य । धाम्नः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ते पूर्वोक्ता मरुतो भानुभिर्भानुशीलैर्दीप्यमानैः सूर्यरश्मिभिः सह कं वृष्व्युदकं श्रीयसे श्रयितुं प्राणिभिः सेवितुं सं मिमिक्षिरे । सम्यग्मेढुमिच्छंति । पृथिवीं वृष्व्युदकेन सम्यक् सेक्तुमिच्छंति । एवं वृष्टिमुत्पाद्य ते मरुत ऋक्वभिः स्तुतिमद्भिर्ऋत्विग्भिः सह सुखादयः शोभस्य हविषो भक्षयितारो भवंति । वाशीमंतः । वाशीति वाङ्नाम । शोभनया स्तुतिलक्षणया वाचोपेताः इष्मिणो गतिमंतः अभीरवो भयरहितास्ते मरुतः । प्रियस्य सर्वाभिमतस्य मारुतस्य मरुत्संबंधिनो धाम्नः स्थानस्य सर्वाभिमतं मरुत्संबद्धं विशिष्टं स्थानं विद्रे । लब्दवंतः ॥ श्रियसे । तुमर्थे सेसेनिति कसेन्प्रत्ययः । मिमिक्षिरे । मिह सेचने । अस्मादिच्छासनंताल्लिट्यमंत्र इति निषेधादामभावः । व्यत्ययेनात्मनेपदम् । सुखादयः खादृ भक्षणे । औणादिक इप्रतयः । शोभना खादिर्भक्षणं येषाम् । नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । इष्मिणः । इष गतौ । इषुयुधींधीत्यादिना मक् । तॆतो मत्वर्थीय इनिः । विद्रे । विद्लृलाभे । लिट द्विर्वचनप्रकरणे छंदसि वेति व्यक्तव्यमिति द्विर्वचनाभावः । इरयो र इतीरयो रेभावः ॥ ६ ॥