यदी॒मिन्द्रं॒ शम्यृक्वा᳚ण॒ आश॒तादिन्नामा᳚नि य॒ज्ञिया᳚नि दधिरे ॥
पदपाठः (Word-by-word)
यत् । ई॒म् । इन्द्र᳚म् । शमि᳚ । ऋक्वा᳚णः । आश᳚त । आत् । इत् । नामा᳚नि । य॒ज्ञिया᳚नि । द॒धि॒रे॒ ॥
सायणभाष्यम् (Sayana Commentary)
प्रत्नस्य चिरंतनस्य पितुरस्माकं जनकस्य रहूगणस्य सकाशाद्यज्जन्म तेन वयं वदामसि । ब्रूमः । वक्ष्यमाणं वृत्तांतमस्माकं पितोपदिष्ववान् अतो वयं ब्रूम इत्यर्थः । कोऽसौ वृत्तांत इति चेत् उच्यते । सोमस्य यज्ञेष्वभिषुतस्य सोमद्रव्यस्य चक्षसा प्रकाशमानयाहुत्या सहिता जिह्वा स्तुतिरूपा वाक् प्र जिगाति । मरुद्गणं प्रकर्षेण गच्छति । यज्ञेषु सोमाहुतुः स्तुतिश्च मरुद्भ्यः क्रियते । यस्मादीमेनमिंद्रं शमि वृत्रवधादिरूपे कर्मणि ऋक्वाणः प्रहर भगवो जहि वीरयस्वेत्येवंरूपया स्तुत्या युक्ताः संत आशत प्राप्नुवन् न पर्यत्याक्षुः आदित् एवमिंद्रप्राप्त्यानंतरमेव यज्ञियानि यज्ञार्हाणीदृङ् चान्यादृङ् चेत्येवमादीनि नामानींद्रसकाशाल्लब्ढ्वा दधिरे । धृतवंतः । तस्मादेषां यज्ञेसोमाहुतिः स्तुतिश्च क्रियते ॥ शमि । शमीति कर्मनाम । सप्तम्येकवचने छांदस ईकारलोपः । ऋक्वाणः । ऋच स्तुतौ । संपदादिलक्षणो भावे क्विप् । छंदसीवनिपाविति मत्वर्थीयो वनिप् । अंत्यविकारश्छांदसः । यद्वा । अयस्मयादिषु क्वचिदुभयं भवति । का १-४-२० । इत्युक्तत्वात् स सुष्टुभा स ऋक्वतेत्यादाविव पदत्वात्कुत्वं भत्वाज्जश्त्वाभावः । आशत । लङि बहुलं छंदसीति विकरणस्य लुक् । यज्ञियानि । यज्ञर्त्विग्भ्यां घखञावित्यर्हार्थे घः ॥ ५ ॥