अ॒स्य य॒ज्ञस्य᳚ सु॒क्रतु᳚म् ॥
पदपाठः (Word-by-word)
अ॒स्य । य॒ज्ञस्य᳚ । सु॒॑क्रतु᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
अग्नेर्दूतत्वमेतन्मंत्रव्याख्याने तैत्तिरीयब्राह्मणे समाम्नायते । अग्निर्देवानां दूत असीदुशनाः काव्योऽसुराणाम् । तै सं २-५-८-५ । इति । तादृशं देवदूतमग्निमस्मिन्कर्मणि वृणीमहे । संभजामः । कीदृशम् । होतारं देवानासुक्रतुं शोभनकर्माणं शोभनप्रज्ञं वा ॥ मघमित्यादिष्वष्टाविंशतिसंख्याकेषु धननामसु वेदस्शब्दः पठितः ॥ होतारम् । ह्वेञ् स्पर्धायां शब्दे च । ताच्छील्यादिषु तृन् । बहुलं छंदसीति संप्रसारणे पूरपूर्वत्वे गुणः । नित्त्वादाद्युदात्तः । विश्ववेदसम् । बहुव्रीहौ । विश्वं संज्ञायाम् (पा ६-२-१०६) इति पूर्वपदांतोदात्तत्वम् । अस्य ऊडिदमित्यादिना विभक्तेरुदात्तत्वम् । सुक्रतुम् । क्रत्वादयश्च (पा ६-२-११८) इत्याद्युदात्तत्वं ॥ १ ॥