श्रवणम्

1.12.11
स न॒ः स्तवा᳚न॒ आ भ᳚र गाय॒त्रेण॒ नवी᳚यसा ।
र॒यिं वी॒रव᳚ती॒मिष᳚म् ॥
▶ पदपाठः (Word-by-word)
सः । नः॒ । स्तवा᳚नः । आ । भ॒र॒ । गा॒य॒त्रेण᳚ । नवी᳚यसा ।
र॒यिम् । वी॒र॑व᳚तीम् । इष᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने नवीयसा नवतरेण पूर्वकैरप्यसंपादितेन गायत्रेण गायत्री च्छंदस्केनानेन सूक्तेन स्तवानः स्तूयमानः स त्वं नोऽस्मदर्थं रयिं धनं वीर वतीं शूरपुत्रप्रभृत्यपत्ययुक्तामिषमन्नं चा भर । संपादय ॥ स्तवानः । ष्टुञ् स्तुतौ । धात्वादेः षः सः । स्वरितञित इत्यात्मनेपदम् । लटः शानच् । कर्तरि शप् ।

बहुलं छंदसीति लुगभावः । गुणावादेशौ । आने मुक् (पा ७-२-८२) इति मुग्न भवत्य नित्यमागमशासनमित्यागमानुशासनस्यानित्यत्वात् । शपः पित्त्वादनुदात्तत्वम् । शानचश्चित्त्वादंतोदात्तस्यादुपदेशाच्छपः परत्वाल्लसार्वधातुकानुदात्तत्वम् । धातुस्वर एव शिष्यते । भर । हृग्रहोर्भश्छंदसि । पा ८-२-३२-१ । इति भत्वम् । गायत्रेण । गायत्र्याः संबंधि गायत्रम् । तस्येदम् (पा ४-३-१२०) इत्यण्प्रत्ययः । प्रत्ययस्वरः । नवीयसा । नवशब्दादातिशायनिक ईयसुन्प्रत्ययः । नित्त्वादाद्युदात्तः । वीरवतीम् । मतुब्ङीपोः पित्वादनुदात्तत्वम् । अकारः प्रातिपदिकस्वरेणोदात्तः ॥ ११ ॥