प्रथमं मण्डलम् - सूक्तम् 34

12 ऋचः

ऋषिः: हिरण्यस्तूप आंगिरसः देवता: अश्विनौ छन्दः: जगती

सूक्तम् 1.34 - सम्पूर्णम्

1 / 12
ऋक्: 1.34.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (12)
1.34.1
त्रिश्चि᳚न्नो अ॒द्या भ᳚वतं नवेदसा वि॒भुर्वां॒ याम᳚ उ॒त रा॒तिर᳚श्विना ।
यु॒वोर्हि य॒न्त्रं हि॒म्येव॒ वास᳚सो॑भ्यायं॒सेन्या᳚ भवतं मनी॒षिभि᳚ः ॥
▶ पदपाठः (Word-by-word)
त्रिः । चि॒त् । नः॒ । अ॒द्य । भ॒व॒त॒म् । न॒वे॒द॒सा॒ । वि॒॑भुः । वा॒म् । यामः᳚ । उ॒त । रा॒तिः । अ॒श्वि॒ना॒ ।
यु॒वोः । हि । य॒न्त्रम् । हि॒म्या॑इ᳚व । वास᳚सः । अ॒भि॒॑आ॒यं॒सेन्या᳚ । भ॒व॒त॒म् । म॒नी॒षि॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नवेदसाश्विना मेधाविनावश्विदेवौ । नवेदा इति मेधाविनाम नवेदाः कविर्मनीषीति तन्नामसु पठितत्वात् । तादृशौ युवां त्रिश्चित् त्रिवारमप्यद्यास्मिन र्मणि नोऽस्मदर्थं भवतम् । आगतौ भवतम् । अत्र त्रिरिति वचनं सवनत्रयापेक्षम् । आदरातिशयद्योतनार्थं वा । त्रिषत्या हि देवा इति श्रुत्यंतरात् । वां युवयोर्यामो गमनसाधनभूतो रथो विभुर्व्याप्तः । उतापि च रातिर्दानं विभुरिति शेषः । युवोर्युवयोरुभयोर्यंत्रं हि परस्परनियमरूपः संबंधविशेषोऽस्ति खलु । तत्र दृष्टांतः । वाससः सूर्यरश्म्याच्छादनयुक्तस्य वासरस्य हिम्येव । हिमयुक्तया रात्र्येव । यथा रात्र्या सह दिवसस्य संबंधः कदाचिदपि नापैति तद्वत् । युवामुभौ मनीषिभिर्मेधाविभिर्ऋृत्विग्भिः । मनिषीति मेधाविनाम मनीषी मंधातेति तन्नामसु पठितत्वात् । अभ्यायंसेन्याभितो नियंतव्यौ अनुग्रहवशात्तदधीनौ भवतं ॥ अद्य । निपातस्य चेति संहितायां दीर्घः । न वेदसा । विपरीतं नवित्त इति नवेदसौ । विद ज्ञान इत्यस्मादौणादिकोऽसुन् । नञ् समासे न भ्राण्नपादित्यादिना नकारस्य प्रकृतिभावः । सुपां सुलुगित्याकारः । आमंत्रितनिघातः । यामः । यायते गम्यतेऽनेनेति यामो रथः । अतिस्तुस्वित्यादिना मन् । नित्त्वादाद्युदात्तत्वम् । यद्वा । यम उपरम इत्यस्मात्कर्मणि घञ् । वृषादिषु पाठादाद्युदात्तत्वम् । रातिः । रा दान इत्यस्माद्भावे क्तिन् । मंत्रे वृषेत्यादिना तस्योदात्तत्वम् । युवोः । सुपां सुपो भवंतीति षष्ठीद्विवचनस्य षष्ठीद्विवचनादेशः । अत आदेशविषयत्वाद्योऽचि (पा ७-२-८९) इति यत्वं न भवति । शेषे लोप इति टलोप उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । अंत्यलोपपक्षे त्वेकादेशस्वरेण । हिम्या इव । हिमेति रात्रिनाम ऊधः पयो हिमेति तन्नामसु पठितत्वात् । हनेर्हि च (उ १-१४६) इति मक् । हंति पद्मानीति हिमम् । अर्शआद्यच् । हिमा रात्रिः । तत उत्तरस्य तृतीयैकवचनस्य सुपां सुलुगिति ड्यादेशः । ततष्टिलोप उदात्तनिवृत्तिस्वरेण तस्योदात्तत्वम् । वाससः । वस आच्छादने वासयति प्रकाशेनाच्छादयतीत्यहर्वासः । अभ्यायंसेन्या । अभ्याङित्युपसर्गद्वयोपसृष्टाद्यम उपरम इत्यस्मादौणादिकः सेन्यप्रत्ययः । सुपां सुलुगित्याकारः ॥ १ ॥

1.34.2
त्रयः᳚ प॒वयो᳚ मधु॒वाह᳚ने॒ रथे॒ सोम᳚स्य वे॒नामनु॒ विश्व॒ इद्वि᳚दुः ।
त्रयः᳚ स्क॒म्भासः᳚ स्कभि॒तास᳚ आ॒रभे॒ त्रिर्नक्तं᳚ या॒थस्त्रिर्व᳚श्विना॒ दिवा᳚ ॥
▶ पदपाठः (Word-by-word)
त्रयः᳚ । प॒वयः᳚ । मधु॒॑वाह᳚ने । रथे᳚ । सोम᳚स्य । वे॒नाम् । अनु᳚ । विश्वे᳚ । इत् । वि॒दुः॒ ।
त्रयः᳚ । स्क॒म्भासः᳚ । स्क॒मि॒तासः᳚ । आ॒॑रभे᳚ । त्रिः । नक्त᳚म् । या॒थः । त्रिः । ऊं॒ इति᳚ । अ॒श्वि॒ना॒ । दिवा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मधुवाहने मधुरद्रव्याणां नानाविधखाद्यादीनां वहनेन युक्तेऽश्विनोः संबंधिनि रथे पवयो वज्रसमाना दृढाश्चक्रविशेषास्त्रयस्त्रिसंख्याकाः संति । इत् इत्थं चक्रत्रयसद्भावप्रकारं विश्वे सर्वे देवाः सोमस्य चंद्रस्य वेनां कमनीयां भार्यामभिलक्ष्य यात्रायां विदुः । जानंति । यदा सोमस्य वेनया सह विवाहस्तदानीं नानाविधखाद्ययुक्तं चक्रत्रयोपेतं प्रौढं रथमारुह्याश्विनौ गच्छत इति सर्वे देवा जानंतीत्यर्थः । तस्य रथस्योपरि स्कंभासः स्तंभविशेषास्त्रयस्त्रि संख्याकाः स्कभितासः । स्थापिताः । किमर्थम् । आरभे । आरब्धुम् । अवलंबितुं यदा रथस्त्वरया याति तदानीं पतनभीतिनिवृत्त्यर्थं हस्तालंबनभूताः स्तंभा इत्यर्थः । हे अश्विना युवां तादृशेन रथेन नक्तं रात्रौ त्रियार्थः । त्रिवारं गच्छथः । तथा दिवा दिवसेऽपि त्रियार्थः । रात्रावहनि च रथमारुह्य पुनःपुनः क्रीडथ इत्यर्थः ॥ मधुवाहने । मधु वाह्यतेऽनेनेति मधुवाहनः । करणे ल्युट् । विदुः । वेत्तेर्लट विदो लटो वेति झेरुसादेशः । स्कंभासः । ष्वभि स्कभि गतिप्रतिबंधे । स्कंभंते प्रतिबद्धा भवंतीति स्कंभाः । पचाद्यच् । स्कभितासः । स्कंभुः सौत्रो धातुः । अस्मान्निष्ठायां यस्य विभाषेतीट् प्रतिषेधे प्राप्ते ग्रसितस्कभितेत्यादिनेडागमो निपातितः । आरभे । रभ राभस्ये । अस्मादाङ्पूर्वात्संपदादिलक्षणो भावे क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ २ ॥

1.34.3
स॒मा॒ने अह॒न्त्रिर᳚वद्यगोहना॒ त्रिर॒द्य य॒ज्ञं मधु᳚ना मिमिक्षतम् ।
त्रिर्वाज᳚वती॒रिषो᳚ अश्विना यु॒वं दो॒षा अ॒स्मभ्य᳚मु॒षस᳚श्च पिन्वतम् ॥
▶ पदपाठः (Word-by-word)
स॒मा॒ने । अह᳚न् । त्रिः । अ॒व॒द्य॒॑गो॒ह॒ना॒ । त्रिः । अ॒द्य । य॒ज्ञम् । मधु᳚ना । मि॒मि॒क्ष॒त॒म् ।
त्रिः । वाज᳚॑वतीः । इषः᳚ । अ॒श्वि॒ना॒ । यु॒वम् । दो॒षा । अ॒स्मभ्य᳚म् । उ॒षसः᳚ । च॒ । पि॒न्व॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विना अश्विनौ देवौ युवं युवामुभौ समानेऽहन्नेकस्मिन्ननुष्ठानदिने त्रिरवद्यगोहना त्रिवारमनुष्ठानगतानां दोषाणां संवरणकारिणौ भवतम् । अद्यास्मिन्दिने यज्ञं यज्ञगतं हविर्मधुना मधुररसेन त्रिर्मिमिक्षतम् । त्रिवारं सिंचतम् । किंच दोषा उषसश्च रात्रीर्दिवसांश्च रात्रिषु दिवसेषु नैरंतर्येण वाजवतीर्बलकारिणीरिषोऽन्नान्यस्मभ्यं पिन्वतम् । सिंचतम् । प्रयच्छतमित्यर्थः ॥ अहन् ॥ सुपां सुलुगिति सप्तम्या लुक् । अवद्यगोहना । गुहू संवरणे । अवद्यस्य गूहयितारौ नंद्यादित्वाल्ल्युः । ऊदुपधाया गोहः (पा ६-४-८९) इति प्राप्तस्य ऊत्वस्याभावश्छांदसः । मिमिक्षतम् । मिह सेचने । सन्येकाच उपदेशेऽनुदात्तादितीट् प्रतिषेधः । हलंताच्चेति सनः कित्त्वाल्लघूपधगुणाभावः । द्विर्भावहलादिशेषौ । ढत्वकत्वषत्वानि । वाजवतीः । उगितश्चेति ङीप् । पिन्वतं पिवि मिवि णिवि सेचने । इदित्त्वान्नुम् । कर्तरि शप् ॥ ३ ॥

1.34.4 समानपद
त्रिर्व॒र्तिर्या᳚तं॒ त्रिरनु᳚व्रते ज॒ने त्रिः सु᳚प्रा॒व्ये᳚ त्रे॒धेव᳚ शिक्षतम् ।
त्रिर्ना॒न्द्यं᳚ वहतमश्विना यु॒वं त्रिः पृक्षो᳚ अ॒स्मे अ॒क्षरे᳚व पिन्वतम् ॥
▶ पदपाठः (Word-by-word)
त्रिः । व॒र्तिः । या॒त॒म् । त्रिः । अनु᳚॑व्रते । जने᳚ । त्रिः । सु॒प्र॒॑अ॒व्ये᳚ । त्रे॒धा॑इ᳚व । शि॒क्ष॒त॒म् ।
त्रिः । ना॒न्द्य᳚म् । व॒ह॒त॒म् । अ॒श्वि॒ना॒ । यु॒वम् । त्रिः । पृक्षः᳚ । अ॒स्मे इति᳚ । अ॒क्षरा᳚॑इव । पि॒न्व॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विना युवं त्रिर्वर्तिर्यातम् । अस्मदीयवर्तनसाधनं गृहं त्रिर्यातम् । त्रिवारं प्राप्नुतम् । तथानुव्रतेऽस्मदनुकूलव्यापारयुक्ते जने त्रिर्यातम् । त्रिवारं तदनुग्रहाय गच्छतम् । त्रिः सुप्राव्ये त्रिवारं सुष्टुं प्रकर्षेण भवद्भ्यां रक्षणीये प्रवर्तमानानस्मान् त्रेधेव त्रिभिरेव प्रकारैः शिक्षतम् । पुनःपुनरनुष्ठानमुपदेष्वव्यमित्यर्थः । तथा नांद्यं नंदनीयं संतोषकरं फलं त्रिर्वहतम् । प्रापयतम् । अस्मे अस्मासु पृक्षोऽन्नं त्रिः पिन्वतम् । त्रिवारं प्रयच्छतम् । तत्र दृष्टांतः । अक्षरेव । अक्षराण्युदकानि अक्षरा स्रोतस्तृप्तिरिति तन्नामसु पाठात् । तानि पर्जन्यो यथा प्रयच्छति तद्वत् ॥ वर्तिः । वर्ततेऽत्रेति वर्तिर्गृहम् । हृपिषिरुहिवृतीत्यादीना (उ ४-११८) इप्रत्ययः । सुपां सुलुगिति द्वितीयैकवचनस्य सुआदेशः । सुप्राव्ये । उपसर्गद्वयोपसृष्टादवतेः कर्मणि ण्यत् । संज्ञापूर्वको विधिरिनित्य इति वृद्ध्यभावः । तित्स्वरितमिति स्वरितत्वम् । शिक्षतम् । शिक्ष विद्योपादाने । नांद्यम् । ण्यदंतः । पृक्षः । पृची संपर्के । असुनि सुडागमः । अस्मे । सुपां सुलुगिति शे आदेशः । अक्षरा इव । अश्नुवते व्याप्नुवंतीत्यक्षराण्युदकानि । औणादिक क्सरप्रत्ययः । शेर्लोपः ॥ ४ ॥

1.34.5
त्रिर्नो᳚ र॒यिं व᳚हतमश्विना यु॒वं त्रिर्दे॒वता᳚ता॒ त्रिरु॒ताव᳚तं॒ धियः᳚ ।
त्रिः सौ᳚भग॒त्वं त्रिरु॒त श्रवां᳚सि नस्त्रि॒ष्ठं वां॒ सूरे᳚ दुहि॒ता रु᳚ह॒द्रथ᳚म् ॥
▶ पदपाठः (Word-by-word)
त्रिः । नः॒ । र॒यिम् । व॒ह॒त॒म् । अ॒श्वि॒ना॒ । यु॒वम् । त्रिः । दे॒व॑ता᳚ता । त्रिः । उ॒त । अ॒व॒त॒म् । धियः᳚ ।
त्रिः । सौ॒भ॒ग॒॑त्वम् । त्रिः । उ॒त । श्रवां᳚सि । नः॒ । त्रि॒॑स्थम् । वा॒म् । सूरे᳚ । दु॒हि॒ता । रु॒ह॒त् । रथ᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विना युवं नोऽस्मान्न्रयिं धनं त्रिर्वहतम् । त्रिवारं प्रापयतम् । देवताता देवतातौ देवैर्युक्ते कर्मणि त्रिस्त्रिवारमागच्छतमिति शेषः । उतापि च धियोऽस्मद्बुद्धीस्त्रिस्त्रिवारं रक्षतम् । सौभगत्वं सौभाग्यं त्रिर्वहतमिति शेषः । उतापि च श्रवांस्यन्नानि नोऽस्मभ्यं त्रिर्वहतम् । वां युवयोः संबंधिनं त्रिष्ठं चक्रत्रयेऽवस्थितं रथं सूरे सूर्यस्य दुहिता पुत्री । दुहिता दुर्हिता दूरे हिता (नि ३-३) इति यास्कः । सारूढवती ॥ देवताता । सर्वदेवात्तातिल् (पा ४-४-१४२) इति स्वार्थिकस्तातिल् प्रत्ययः । तेन देवतातिशब्देन देवसंबद्धो यज्ञो लक्ष्यते । देवताता मख इति तन्नामसु पठितत्वात् । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । सुपां सुलुगिति सप्तम्या डादेशः । त्रिष्ठम् । त्रिषु चक्रेषु तिष्ठतीति त्रिष्ठः । सुपि स्थः (पा ३-२-४) इति कः । अंबांबेत्यादिना (पा ८-३-९७) सकारस्य षत्वम् । सूरे । षू प्रेरणे । सुसूधागृधिभ्यः क्रन् (उ ४-२५) इति क्रन् । नित्त्वादाद्युदात्तः । विभक्तिव्यत्ययः । आ रुहत् । कृमृदृरुहिभ्यश्छंदसि (पा ३-१-५९) इति च्लेरङादेशः ॥ ५ ॥

1.34.6
त्रिर्नो᳚ अश्विना दि॒व्यानि᳚ भेष॒जा त्रिः पार्थि᳚वानि॒ त्रिरु᳚ दत्तम॒द्भ्यः ।
ओ॒मानं᳚ शं॒योर्मम᳚काय सू॒नवे᳚ त्रि॒धातु॒ शर्म᳚ वहतं शुभस्पती ॥
▶ पदपाठः (Word-by-word)
त्रिः । नः॒ । अ॒श्वि॒ना॒ । दि॒व्यानि᳚ । भे॒ष॒जा । त्रिः । पार्थि᳚वानि । त्रिः । ऊं॒ इति᳚ । द॒त्त॒म् । अ॒त्॑भ्यः ।
ओ॒मान᳚म् । श॒म्॑योः । मम᳚काय । सू॒नवे᳚ । त्रि॒॑धातु᳚ । शर्म᳚ । व॒ह॒त॒म् । शु॒भः॒ । प॒ती॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विना नोऽस्मभ्यं दिव्यानि द्युलोकवर्तीनि भेषजा जौषधानि त्रिर्दत्तम् । तथा पार्थिवानि पृथिव्यामुत्पन्नान्यौषधानि त्रिर्दत्तम् । अद्भ्य उ अंतरिक्षसकाशादप्यौषधानि त्रिर्दत्तम् । आप इत्यंतरिक्षनाम अपः पृथिवी भूरिति तन्नामसु पाठात् । शंयोरेतन्नामकस्य बृहस्पतिपुत्रस्य । ते शंयुं बार्हस्पत्यमब्रुवन् । तै सं २-६-१०-१ । इति ब्राह्मणांतरात् । तस्य संबंधिनमीमानं सुखविशेषं ममकाय सूनवे मदीयाय पुत्राय दत्तम् । हे शुभस्पती शोभनस्यौषधजातस्य पालकौ युवां त्रिधातु वातपित्तश्लेष्मधातुत्रयशमन विषयं सुखम् । वहतम् । प्रापयतं ॥ दिव्यानि । दंडादित्वाद्यप्रत्ययः (पा ५-१-६६) भेषजा । भिषज् चिकित्सायाम् । पुंसि संज्ञायामिति घः । शंयोः । शसुउपशमे । क्विप् । शम् । यु मिश्रणे । अस्माद्विच् । कृदुत्तरपदप्रकृतिस्वरः । त्रिधातु । सितनिगमिमसिसच्यविधाञ् क्रुशिभ्यस्तुन् (उ १-७०) अद्भ्यः । ऊडिदमित्यादिना विभक्तेरुदात्तत्वम् । ओमानं अवतेरन्येभ्योऽपि दृश्यंत इति मनिन् । ज्वरत्वरेत्यादिनाकारवकारयोरूठ् । सार्वधातुकार्धधातुकलक्षणो गुणः । यदि ज्वरत्वरेत्यत्रानुनासिके च । पा ६-४२० । इति नानुवर्तते । तर्हि पूर्वेणैव सूत्रेण वकारस्य ऊडादेशो भविष्यति । शुभस्पती । शुभदीप्तौ । संपदादिलक्षणः क्विप् । षष्ठ्याः पतिपुत्रेति संहितायां विसर्जनीयस्य सत्वम् । सुबामंत्रित इति परांगवद्भावात् । षष्ठ्यामंत्रितसमुदायस्या,ष्टमिकं सर्वानुदात्तत्वं ॥ ६ ॥

1.34.7
त्रिर्नो᳚ अश्विना यज॒ता दि॒वेदि᳚वे॒ परि᳚ त्रि॒धातु᳚ पृथि॒वीम᳚शायतम् ।
ति॒स्रो ना᳚सत्या रथ्या परा॒वत᳚ आ॒त्मेव॒ वात॒ः स्वस᳚राणि गच्छतम् ॥
▶ पदपाठः (Word-by-word)
त्रिः । नः॒ । अ॒श्वि॒ना॒ । य॒ज॒ता । दि॒वे॑दि᳚वे । परि᳚ । त्रि॒॑धातु᳚ । पृ॒थि॒वीम् । अ॒शा॒य॒त॒म् ।
ति॒स्रः । ना॒स॒त्या॒ । र॒थ्या॒ । प॒रा॒॑वतः᳚ । आ॒त्मा॑इ᳚व । वातः᳚ । स्वस᳚राणि । ग॒च्छ॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विना दिवे दिवे प्रतिदिनम् । दिवेदिवे द्यविद्यवीत्यहर्नामसु पठितत्वात् । यजता यष्टव्यौ युवां नोऽस्मदीयां पृथिवीं वेदिरूपां भूमिं परि सर्वतः प्राप्य त्रिधातु कक्ष्यात्रययुक्त आस्तिर्णे बर्हिषि त्रिस्त्रिवारमशायतम् । शयनं कुरुतम् । हे रथ्या रथ्यौ रथस्वामिनौ तिस्रस्त्रिसंख्याका ऐष्टिकपाशुकसौमिकरूपा वेदीर्गच्छतम् । तत्र दृष्टांतः । स्वसराणि शरीराण्यात्मेव वातः । यथा प्राणिनामात्मभूतः प्राणवायुस्तदीयानि शरीराणि गच्छति तद्वत् ॥ यजता । यजतेर्भृमृदृशीत्यादिना (उ ५-११०) अतच् । चित इत्यंतोदात्तत्वम् । त्रिधातु । त्रेधा धीयते निधीयत इति त्रिधातु । सितनिगमीत्यादिना धाञस्तुन् । नित्त्वादाद्युदात्तत्वम् । समासे कृदुत्तरपदप्रकृतिस्वरत्वेन तदेव शिष्यते । सुपां सुलुगिति सप्तम्या लुक् । अशायतम् । अदादित्वाच्छपो लुक् । अशयातामित्यस्य ह्रस्वदीर्घयोर्व्यत्यासः । नासत्या । सत्सु साधू सत्यौ । न सत्यावसत्यौ । न असत्यौ नासत्यौ । सत्यावेव नासत्यावित्यौर्णवाभ इति यास्कः (नि ६-१३) नभ्राण्नपादित्यादिना नञः प्रकृतिभावः । रथ्या रथार्हौ स्वामिनावित्यर्थः । छंदसि च (पा ५-१-६७) इति यप्रत्ययः । स्वसराणि । सरंति गच्छंतीति सरा इंद्रियाणि । स्वकीयाः सरा येषां सरीराणाम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ ७ ॥

1.34.8
त्रिर᳚श्विना॒ सिन्धु᳚भिः स॒प्तमा᳚तृभि॒स्त्रय᳚ आहा॒वास्त्रे॒धा ह॒विष्कृ॒तम् ।
ति॒स्रः पृ᳚थि॒वीरु॒परि᳚ प्र॒वा दि॒वो नाकं᳚ रक्षेथे॒ द्युभि᳚र॒क्तुभि᳚र्हि॒तम् ॥
▶ पदपाठः (Word-by-word)
त्रिः । अ॒श्वि॒ना॒ । सिन्धु᳚॑भिः । स॒प्तमा᳚तृ॑भिः । त्रयः᳚ । आ॒॑हा॒वाः । त्रे॒धा । ह॒विः । कृ॒तम् ।
ति॒स्रः । पृ॒थि॒वीः । उ॒परि᳚ । प्र॒वा । दि॒वः । नाक᳚म् । र॒क्षे॒थे॒ इति᳚ । द्यु॑भिः᳚ । अ॒क्तु॑भिः᳚ । हि॒तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विना सप्तमातृभिः । इमं मे गंगॆ । ऋग्वे १०-७५-५ । इत्यादि मंत्रोक्ताः सप्तसंख्याका गंगाद्या नद्यो मातर उत्पादिका योषां जलविशेषाणां ते सप्तमातरः । तैः सिंधुभिः स्यंदनस्वभावैर्जलैर्वसतीवरीनामभिस्त्रिः सोमाभिषवः कृत इति शेषः । तथा चान्यत्र ब्राह्मणे समाम्नातम् । अष्टौ कृत्वोऽभिषुणोति एकादश कृत्वो द्वितीयं द्वादश कृत्वस्तृतीयमिति । तै सं ६-४-५-१ । आहावा यथोक्तजलयुक्तस्य सोमस्याधारभूताः कूपसदृशास्त्रयस्त्रिसंख्याका द्रोणकलशा धवनीयपूतभृदाख्या निष्पन्ना इति शेषः । तेषु त्रिषु पात्रविशेषॆषु त्रेधा त्रिभिः प्रकारैः सवनत्रयगतैर्हविष्कृतम् । सोमाख्यं हविः संपादितं द्रव्यं वर्तत इति शेषः । तिस्रः पृथिवीरुपरि त्रिभ्यः पृथिव्यादिलोकेभ्य ऊर्ध्वं प्रवा प्रवंतौ गच्छंतौ युवां दिवो नाकं द्युलोकसंबंधिनमादित्य रक्षेथे । कीदृशं नाकम् । द्युभिरहोभिरक्तुभी रात्रिभिश्च हितं स्थापितम् । अहनि सूर्य उदेति रात्रावस्तं गच्छतीत्येवमहोरात्राभ्यां सूर्यो व्यवस्थाप्यत इत्यर्थः ॥ सप्तमातृभिः बहुव्रीहिस्वरः । आहावाः । निपानमाहावः (पा ३-३-७४) इत्यङ् पूर्वाद्ध्वयतेरप्प्रत्ययः संप्रसारणं वृद्धिश्च निपातनात् । थाथादिनोत्तरपदांतोदात्तत्वम् । प्रवा । च्युङ् प्रुङ् गतौ । प्रवेते गच्छत इतिप्रवौ । पचाद्यच् । सुपां सुलुगित्याकारः । नाकम् । नास्मिन्नकमस्तीति नाकः । नभ्राण्न - पादित्यादिना नञः प्रकृति भावः । द्युभिः । ऊडिदमित्यादिना प्राप्तस्य विभक्तुस्यदात्त दिवो झल् । पा ६-१-१८२ इति प्रतिषेधः ॥ ८ ॥

1.34.9
क्व१॒᳚ त्री च॒क्रा त्रि॒वृतो॒ रथ᳚स्य॒ क्व१॒᳚ त्रयो᳚ व॒न्धुरो॒ ये सनी᳚ळाः ।
क॒दा योगो᳚ वा॒जिनो॒ रास᳚भस्य॒ येन᳚ य॒ज्ञं ना᳚सत्योपया॒थः ॥
▶ पदपाठः (Word-by-word)
क्व᳚ । त्री । च॒क्रा । त्रि॒॑वृतः᳚ । रथ᳚स्य । क्व᳚ । त्रयः᳚ । व॒न्धुरः᳚ । ये । स॑नी᳚ळाः ।
क॒दा । योगः᳚ । वा॒जिनः᳚ । रास᳚भस्य । येन᳚ । य॒ज्ञम् । ना॒स॒त्या॒ । उ॒प॒॑या॒थः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नासत्यावश्विनौ त्रिवृतस्त्रिसंख्याकैरश्रिभिरुपेतस्य भवदीयस्य रथस्य । ईषाद्वयं पूर्वभागे संयुज्यते । सेयमेकाश्रिः । पृष्ठभागे वियुज्यते । तत्र कोणद्वयं संपद्यते । ईदृशस्य रथस्य संबंधीनि त्री चक्रा त्रीणि चक्राणि क्व । कुत्र स्थितानीत्यस्माभिर्न दृश्यते । ये काष्ठ विशेषाः सनीळाः । नीळं गृहसदृशं रथस्योपर्युपवेशस्थानम् । तेन सह वर्तंत इति सनीळास्तेकाष्ठविशेषा वंधुरो नीड बंधनाधारभूतास्त्रयोऽक्षेण सहिते द्वे ईषे इत्येवं त्रिसंख्याकाः क्व । कुत्र स्थिता इत्यस्माभिर्न ज्ञायते । वाजिनो बलवतो रासभस्य भवदीयाश्वस्थानीयस्य गर्दभस्य योगो रथे योजनं कदा । कस्मिन्काले निष्पन्नमित्यस्माभिर्न दृश्यते । येन चक्र त्रयनीडकाष्ठत्रयरासभयोजनसहितेन रथेन यज्ञमस्मदीयं यागस्थानमुपयाथो युवां प्राप्नुथः । तादृशस्य रथस्येति पूर्वत्रान्वयः ॥ त्री चक्रा । उभयत्रापि शेश्छंदसि बहुलमिति शेर्लोपः । वंधुरः । बंधेरौणादिक उरप्रत्ययः । वत्वं छांदसम् । स नीळाः । वोपसर्जनस्येति सभावः ॥ ९ ॥

1.34.10
आ ना᳚सत्या॒ गच्छ᳚तं हू॒यते᳚ ह॒विर्मध्व᳚ः पिबतं मधु॒पेभि᳚रा॒सभि᳚ः ।
यु॒वोर्हि पूर्वं᳚ सवि॒तोषसो॒ रथ᳚मृ॒ताय᳚ चि॒त्रं घृ॒तव᳚न्त॒मिष्य᳚ति ॥
▶ पदपाठः (Word-by-word)
आ । ना॒स॒त्या॒ । गच्छ᳚तम् । हू॒यते᳚ । ह॒विः । मध्वः᳚ । पि॒ब॒त॒म् । म॒धु॒॑पेभिः᳚ । आ॒स॑भिः᳚ ।
यु॒वोः । हि । पूर्व᳚म् । स॒वि॒ता । उ॒षसः᳚ । रथ᳚म् । ऋ॒ताय᳚ । चि॒त्रम् । घृ॒त॑व᳚न्तम् । इष्य᳚ति ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नासत्यावस्विनाविह कर्मण्या गच्छतम् । अत्रास्माभिर्हविर्हूयते । युवां च मधुपेभिर्मधुरद्रव्यपानयुक्तैरासभिर्भवदीयैरास्यैर्मध्वो मधुरद्रव्याणि हवीषि पिबतम् । सविता सूर्य उषसः पूर्वमुषःकालात्पुरा युवयोरश्विनोः संबंधिनं रथमृतायास्मद्यज्ञार्थमिष्यति हि । प्रेरयति खलु । कीदृशम् । चित्रं पूर्वोक्तैश्चक्रत्रयादिभिर्विचित्रं घृतवंतमक्षांजनसाधनेन घृतेनोपेतं ॥ गच्छतम् । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे । शपः पित्त्वादनुदात्तत्वम् । धातुस्वरः । अत्र गच्छतं पिबतं चेति चार्थप्रतीतेश्चादिलोपे विभाषेति प्रथमायास्तिङ् विभक्तेर्निघातप्रतिषेधः । हूयते । लसार्वधातुकानुदात्तत्वे यकः स्वरः । मध्वः । लिंगव्यत्ययः शसि यणादेशश्छांदसः । मधुपेभिः । मधु पिबंतीति मधुपानि । आतोऽनुपसर्गे क इति कप्रत्ययः । आसभिः । पद्दिन्नित्यादिनास्यशब्दस्यासनादेशः । युवोः । । युर्वोहि यंत्रमित्यत्रोक्तम् । इष्यति । इष गतौ । श्यनोनित्त्वा दाद्यादात्तत्वम् । हि चेति निघातप्रतिषेधः ॥ १० ॥

1.34.11
आ ना᳚सत्या त्रि॒भिरे᳚काद॒शैरि॒ह दे॒वेभि᳚र्यातं मधु॒पेय᳚मश्विना ।
प्रायु॒स्तारि᳚ष्टं॒ नी रपां᳚सि मृक्षतं॒ सेध᳚तं॒ द्वेषो॒ भव᳚तं सचा॒भुवा᳚ ॥
▶ पदपाठः (Word-by-word)
आ । ना॒स॒त्या॒ । त्रि॒॑भिः । ए॒का॒द॒शैः । इ॒ह । दे॒वेभिः᳚ । या॒त॒म् । म॒धु॒॑पेय᳚म् । अ॒श्वि॒ना॒ ।
प्र । आयुः᳚ । तारि᳚ष्टम् । निः । रपां᳚सि । मृ॒क्ष॒त॒म् । सेध᳚तम् । द्वेषः᳚ । भव᳚तम् । स॒चा॒॑भुवा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नासत्या असत्येनानृतेन रहितावश्विना अश्विदेवौ युवां त्रिभिरेकादशैः ये देवासो दिव्येकादश स्थ । ऋग्वे १-१३९-११ । इत्यादिमंत्रप्रतिपादितैस्त्रिसंख्याकैरेकादशात्मकवर्गत्रयगतैर्देवैः सह मधुपेयं सोमात्मकं मधुरद्रव्यपानमभिलक्ष्येहास्मिन्देवयजनदेश आ यातम् । आगच्छतम् । आयुरस्मदीयमायुष्यं प्रतारिष्टम् । प्रवर्धयतम् । रपांस्यस्मदीयानि पापानि निर्मृक्षतम् । निःशेषेण शोधयतम् । द्वेषो द्वेषकर्तृन् सेधतम् । प्रतिषेधतम् । सचाभुवा अस्माभिः । सहावस्थितौ भवतं ॥ त्रिभिः । षट् त्रिचतुर्भ्य इति विभक्तेरुदात्तत्वम् । एकादशैः एकादशानां पूरणैः । तस्य पूरणे (पा ५-२-४८) इति डट् । मधुपेयम् । पा पाने अचो यदिति कर्मणि यत् । ईद्यति (पा ६-४-६५) इत्याकारस्य ईकारादेशः । यतोऽनाव इत्याद्युदात्तत्वम् । मधु च तत्पेयमिति समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । तारिष्टम् । तृ प्लवनतरणयोः । छांदसे प्रार्थनायां लुजि च्लेः सिच् । इडागमः । वृतो वा (पा ७-२-३८) इति प्राप्तस्येटो दीर्घस्य सिचि च परस्मैपदेषु (पा ७-२-४०) इति प्रतिषेधः । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । अत्र तारिष्टं मृक्षतं चेति चशब्दार्थप्रतीतेस्तस्य चाप्रयोगाच्चादिलोपे विभाषेति निघातप्रतिषेधः । आदिः सिचोऽन्यतरस्याम् (पा ६-१-१८७) इत्याद्युदात्तत्वम् । मृक्षतम् । मृश आमर्शने । छंदसि लुङ् लङ् लिट इति लोडर्थे लुङ् । शल इगुपधादनिटः क्सः (पा ३-१-४५) इति क्सादेशः । एकाच उपदेशेऽनुदात्तादितीट् प्रतिषेधः । षत्वकुत्वे । पूर्ववदडभावः । सेधतम् । षिधु गत्याम् । अत्र केवलोऽपि षिधिः प्रतिपूर्वस्यार्थे वर्तते । प्रार्थनायां लोट् । शपः पित्त्वादनुदात्तत्वं तिङश्च लसार्वधातुकस्वरेण धातुस्वरः । पादादित्वात्तिङः परत्वाद्वा निघाताभावः । द्वेषः । अन्येभ्योऽपि दृश्यंत इति कर्तरि विच् । भवतम् । द्वेष इत्यस्य वाक्यांतरगतत्वात्तदपेक्षयास्य निघातो न भवति । समानवाक्ये च निघातयुष्मदस्मदादेशा वक्तव्याः । पा ८-१-१८-५ । इति वचनात् । सुचाभुवा । सचेत्ययं निपातः सहशब्दसमानार्थः । तथा च यास्कः । सचा सहेत्यर्थ इति (नि ५-५) सचा भवत इति सचाभुवौ । क्विप् । ओः सुपि (पा ६-४-८३) इति यणादेशस्य न भूसुधियोः (पा ६-४-८५) इति प्रतिषेधः सुपां सुलुगिति विभक्तेराकारः ॥ ११ ॥

1.34.12 समानपद
आ नो᳚ अश्विना त्रि॒वृता॒ रथे᳚ना॒र्वाञ्चं᳚ र॒यिं व᳚हतं सु॒वीर᳚म् ।
शृ॒ण्वन्ता᳚ वा॒मव᳚से जोहवीमि वृ॒धे च᳚ नो भवतं॒ वाज᳚सातौ ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । अ॒श्वि॒ना॒ । त्रि॒॑वृता᳚ । रथे᳚न । अ॒र्वाञ्च᳚म् । र॒यिम् । व॒ह॒त॒म् । सु॒॑वीर᳚म् ।
शृ॒ण्वन्ता᳚ । वा॒म् । अव᳚से । जो॒ह॒वी॒मि॒ । वृ॒धे । च॒ । नः॒ । भ॒व॒त॒म् । वाज᳚॑सातौ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विना त्रिवृता रथेन अप्रतिहतगतित्वात् त्रिषु लोकेषु वर्तमानेन रथेन सह नोऽस्माकमर्वांचमभिमुखं सुवीरं शोभनैर्वीरैः पुत्रभृत्यादिभिरुपेतं रयिं धनमा वहतम् । आनीय प्रापयतम् । शृण्वंतास्मदीयस्तुतिं शृण्वंतौ वां युवामवसेऽस्मद्रक्षणार्थं जोहवीमि । आह्वयामि । नोऽस्माकं वाजसातौ संग्रामे । वाजसातौ महाधन इति संग्रामनामसु पाठात् । वृधे वर्धनाय च भवतं ॥ सुवीरम् । शोभना वीरा यस्येति बहुव्रीहौ वीरवीर्यौ चेत्युत्तरपदाद्युदात्तत्वम् । शृण्वंता । श्रु श्रवणे । शतरि श्रुवः शृ च (पा ३-१-७४) इति श्नुः शृभावश्च । हुश्नुवोः सार्वधातुक इति यणादेशः । सुपां सुलुगित्याकारः । जोहवीमि । ह्वेञ् स्पर्धायां शब्दे च । यङ् लुक्यभ्यस्तस्य च (पा ६-१-३३) इति कृतसंप्रसारणादस्माल्लडुत्तमैकवचने यङो वा (पा ७-३-९४) इतीडागमः । वधे । वृधु वृद्धावित्यस्मात्संपदादिलक्षणो भावे क्विप् । वाजसातौ । षणु दाने । क्तिनि तितुत्रेत्यादिना इट् प्रतिषेधः । जनसनेत्यादिना आत्वम् । वाजानां सातिर्यस्मिन्निति पूर्वपदप्रकृतिस्वरत्वं ॥ ५ ॥ १२ ॥