श्रवणम्

1.34.10
आ ना᳚सत्या॒ गच्छ᳚तं हू॒यते᳚ ह॒विर्मध्व᳚ः पिबतं मधु॒पेभि᳚रा॒सभि᳚ः ।
यु॒वोर्हि पूर्वं᳚ सवि॒तोषसो॒ रथ᳚मृ॒ताय᳚ चि॒त्रं घृ॒तव᳚न्त॒मिष्य᳚ति ॥
▶ पदपाठः (Word-by-word)
आ । ना॒स॒त्या॒ । गच्छ᳚तम् । हू॒यते᳚ । ह॒विः । मध्वः᳚ । पि॒ब॒त॒म् । म॒धु॒॑पेभिः᳚ । आ॒स॑भिः᳚ ।
यु॒वोः । हि । पूर्व᳚म् । स॒वि॒ता । उ॒षसः᳚ । रथ᳚म् । ऋ॒ताय᳚ । चि॒त्रम् । घृ॒त॑व᳚न्तम् । इष्य᳚ति ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नासत्यावस्विनाविह कर्मण्या गच्छतम् । अत्रास्माभिर्हविर्हूयते । युवां च मधुपेभिर्मधुरद्रव्यपानयुक्तैरासभिर्भवदीयैरास्यैर्मध्वो मधुरद्रव्याणि हवीषि पिबतम् । सविता सूर्य उषसः पूर्वमुषःकालात्पुरा युवयोरश्विनोः संबंधिनं रथमृतायास्मद्यज्ञार्थमिष्यति हि । प्रेरयति खलु । कीदृशम् । चित्रं पूर्वोक्तैश्चक्रत्रयादिभिर्विचित्रं घृतवंतमक्षांजनसाधनेन घृतेनोपेतं ॥ गच्छतम् । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे । शपः पित्त्वादनुदात्तत्वम् । धातुस्वरः । अत्र गच्छतं पिबतं चेति चार्थप्रतीतेश्चादिलोपे विभाषेति प्रथमायास्तिङ् विभक्तेर्निघातप्रतिषेधः । हूयते । लसार्वधातुकानुदात्तत्वे यकः स्वरः । मध्वः । लिंगव्यत्ययः शसि यणादेशश्छांदसः । मधुपेभिः । मधु पिबंतीति मधुपानि । आतोऽनुपसर्गे क इति कप्रत्ययः । आसभिः । पद्दिन्नित्यादिनास्यशब्दस्यासनादेशः । युवोः । । युर्वोहि यंत्रमित्यत्रोक्तम् । इष्यति । इष गतौ । श्यनोनित्त्वा दाद्यादात्तत्वम् । हि चेति निघातप्रतिषेधः ॥ १० ॥