ति॒स्रः पृ᳚थि॒वीरु॒परि᳚ प्र॒वा दि॒वो नाकं᳚ रक्षेथे॒ द्युभि᳚र॒क्तुभि᳚र्हि॒तम् ॥
पदपाठः (Word-by-word)
ति॒स्रः । पृ॒थि॒वीः । उ॒परि᳚ । प्र॒वा । दि॒वः । नाक᳚म् । र॒क्षे॒थे॒ इति᳚ । द्यु॑भिः᳚ । अ॒क्तु॑भिः᳚ । हि॒तम् ॥
सायणभाष्यम् (Sayana Commentary)
हे अश्विना सप्तमातृभिः । इमं मे गंगॆ । ऋग्वे १०-७५-५ । इत्यादि मंत्रोक्ताः सप्तसंख्याका गंगाद्या नद्यो मातर उत्पादिका योषां जलविशेषाणां ते सप्तमातरः । तैः सिंधुभिः स्यंदनस्वभावैर्जलैर्वसतीवरीनामभिस्त्रिः सोमाभिषवः कृत इति शेषः । तथा चान्यत्र ब्राह्मणे समाम्नातम् । अष्टौ कृत्वोऽभिषुणोति एकादश कृत्वो द्वितीयं द्वादश कृत्वस्तृतीयमिति । तै सं ६-४-५-१ । आहावा यथोक्तजलयुक्तस्य सोमस्याधारभूताः कूपसदृशास्त्रयस्त्रिसंख्याका द्रोणकलशा धवनीयपूतभृदाख्या निष्पन्ना इति शेषः । तेषु त्रिषु पात्रविशेषॆषु त्रेधा त्रिभिः प्रकारैः सवनत्रयगतैर्हविष्कृतम् । सोमाख्यं हविः संपादितं द्रव्यं वर्तत इति शेषः । तिस्रः पृथिवीरुपरि त्रिभ्यः पृथिव्यादिलोकेभ्य ऊर्ध्वं प्रवा प्रवंतौ गच्छंतौ युवां दिवो नाकं द्युलोकसंबंधिनमादित्य रक्षेथे । कीदृशं नाकम् । द्युभिरहोभिरक्तुभी रात्रिभिश्च हितं स्थापितम् । अहनि सूर्य उदेति रात्रावस्तं गच्छतीत्येवमहोरात्राभ्यां सूर्यो व्यवस्थाप्यत इत्यर्थः ॥ सप्तमातृभिः बहुव्रीहिस्वरः । आहावाः । निपानमाहावः (पा ३-३-७४) इत्यङ् पूर्वाद्ध्वयतेरप्प्रत्ययः संप्रसारणं वृद्धिश्च निपातनात् । थाथादिनोत्तरपदांतोदात्तत्वम् । प्रवा । च्युङ् प्रुङ् गतौ । प्रवेते गच्छत इतिप्रवौ । पचाद्यच् । सुपां सुलुगित्याकारः । नाकम् । नास्मिन्नकमस्तीति नाकः । नभ्राण्न - पादित्यादिना नञः प्रकृति भावः । द्युभिः । ऊडिदमित्यादिना प्राप्तस्य विभक्तुस्यदात्त दिवो झल् । पा ६-१-१८२ इति प्रतिषेधः ॥ ८ ॥