त्रिर्ना॒न्द्यं᳚ वहतमश्विना यु॒वं त्रिः पृक्षो᳚ अ॒स्मे अ॒क्षरे᳚व पिन्वतम् ॥
पदपाठः (Word-by-word)
त्रिः । ना॒न्द्य᳚म् । व॒ह॒त॒म् । अ॒श्वि॒ना॒ । यु॒वम् । त्रिः । पृक्षः᳚ । अ॒स्मे इति᳚ । अ॒क्षरा᳚॑इव । पि॒न्व॒त॒म् ॥
सायणभाष्यम् (Sayana Commentary)
हे अश्विना युवं त्रिर्वर्तिर्यातम् । अस्मदीयवर्तनसाधनं गृहं त्रिर्यातम् । त्रिवारं प्राप्नुतम् । तथानुव्रतेऽस्मदनुकूलव्यापारयुक्ते जने त्रिर्यातम् । त्रिवारं तदनुग्रहाय गच्छतम् । त्रिः सुप्राव्ये त्रिवारं सुष्टुं प्रकर्षेण भवद्भ्यां रक्षणीये प्रवर्तमानानस्मान् त्रेधेव त्रिभिरेव प्रकारैः शिक्षतम् । पुनःपुनरनुष्ठानमुपदेष्वव्यमित्यर्थः । तथा नांद्यं नंदनीयं संतोषकरं फलं त्रिर्वहतम् । प्रापयतम् । अस्मे अस्मासु पृक्षोऽन्नं त्रिः पिन्वतम् । त्रिवारं प्रयच्छतम् । तत्र दृष्टांतः । अक्षरेव । अक्षराण्युदकानि अक्षरा स्रोतस्तृप्तिरिति तन्नामसु पाठात् । तानि पर्जन्यो यथा प्रयच्छति तद्वत् ॥ वर्तिः । वर्ततेऽत्रेति वर्तिर्गृहम् । हृपिषिरुहिवृतीत्यादीना (उ ४-११८) इप्रत्ययः । सुपां सुलुगिति द्वितीयैकवचनस्य सुआदेशः । सुप्राव्ये । उपसर्गद्वयोपसृष्टादवतेः कर्मणि ण्यत् । संज्ञापूर्वको विधिरिनित्य इति वृद्ध्यभावः । तित्स्वरितमिति स्वरितत्वम् । शिक्षतम् । शिक्ष विद्योपादाने । नांद्यम् । ण्यदंतः । पृक्षः । पृची संपर्के । असुनि सुडागमः । अस्मे । सुपां सुलुगिति शे आदेशः । अक्षरा इव । अश्नुवते व्याप्नुवंतीत्यक्षराण्युदकानि । औणादिक क्सरप्रत्ययः । शेर्लोपः ॥ ४ ॥