श्रवणम्

1.34.9
क्व१॒᳚ त्री च॒क्रा त्रि॒वृतो॒ रथ᳚स्य॒ क्व१॒᳚ त्रयो᳚ व॒न्धुरो॒ ये सनी᳚ळाः ।
क॒दा योगो᳚ वा॒जिनो॒ रास᳚भस्य॒ येन᳚ य॒ज्ञं ना᳚सत्योपया॒थः ॥
▶ पदपाठः (Word-by-word)
क्व᳚ । त्री । च॒क्रा । त्रि॒॑वृतः᳚ । रथ᳚स्य । क्व᳚ । त्रयः᳚ । व॒न्धुरः᳚ । ये । स॑नी᳚ळाः ।
क॒दा । योगः᳚ । वा॒जिनः᳚ । रास᳚भस्य । येन᳚ । य॒ज्ञम् । ना॒स॒त्या॒ । उ॒प॒॑या॒थः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नासत्यावश्विनौ त्रिवृतस्त्रिसंख्याकैरश्रिभिरुपेतस्य भवदीयस्य रथस्य । ईषाद्वयं पूर्वभागे संयुज्यते । सेयमेकाश्रिः । पृष्ठभागे वियुज्यते । तत्र कोणद्वयं संपद्यते । ईदृशस्य रथस्य संबंधीनि त्री चक्रा त्रीणि चक्राणि क्व । कुत्र स्थितानीत्यस्माभिर्न दृश्यते । ये काष्ठ विशेषाः सनीळाः । नीळं गृहसदृशं रथस्योपर्युपवेशस्थानम् । तेन सह वर्तंत इति सनीळास्तेकाष्ठविशेषा वंधुरो नीड बंधनाधारभूतास्त्रयोऽक्षेण सहिते द्वे ईषे इत्येवं त्रिसंख्याकाः क्व । कुत्र स्थिता इत्यस्माभिर्न ज्ञायते । वाजिनो बलवतो रासभस्य भवदीयाश्वस्थानीयस्य गर्दभस्य योगो रथे योजनं कदा । कस्मिन्काले निष्पन्नमित्यस्माभिर्न दृश्यते । येन चक्र त्रयनीडकाष्ठत्रयरासभयोजनसहितेन रथेन यज्ञमस्मदीयं यागस्थानमुपयाथो युवां प्राप्नुथः । तादृशस्य रथस्येति पूर्वत्रान्वयः ॥ त्री चक्रा । उभयत्रापि शेश्छंदसि बहुलमिति शेर्लोपः । वंधुरः । बंधेरौणादिक उरप्रत्ययः । वत्वं छांदसम् । स नीळाः । वोपसर्जनस्येति सभावः ॥ ९ ॥