श्रवणम्

1.34.5
त्रिर्नो᳚ र॒यिं व᳚हतमश्विना यु॒वं त्रिर्दे॒वता᳚ता॒ त्रिरु॒ताव᳚तं॒ धियः᳚ ।
त्रिः सौ᳚भग॒त्वं त्रिरु॒त श्रवां᳚सि नस्त्रि॒ष्ठं वां॒ सूरे᳚ दुहि॒ता रु᳚ह॒द्रथ᳚म् ॥
▶ पदपाठः (Word-by-word)
त्रिः । नः॒ । र॒यिम् । व॒ह॒त॒म् । अ॒श्वि॒ना॒ । यु॒वम् । त्रिः । दे॒व॑ता᳚ता । त्रिः । उ॒त । अ॒व॒त॒म् । धियः᳚ ।
त्रिः । सौ॒भ॒ग॒॑त्वम् । त्रिः । उ॒त । श्रवां᳚सि । नः॒ । त्रि॒॑स्थम् । वा॒म् । सूरे᳚ । दु॒हि॒ता । रु॒ह॒त् । रथ᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विना युवं नोऽस्मान्न्रयिं धनं त्रिर्वहतम् । त्रिवारं प्रापयतम् । देवताता देवतातौ देवैर्युक्ते कर्मणि त्रिस्त्रिवारमागच्छतमिति शेषः । उतापि च धियोऽस्मद्बुद्धीस्त्रिस्त्रिवारं रक्षतम् । सौभगत्वं सौभाग्यं त्रिर्वहतमिति शेषः । उतापि च श्रवांस्यन्नानि नोऽस्मभ्यं त्रिर्वहतम् । वां युवयोः संबंधिनं त्रिष्ठं चक्रत्रयेऽवस्थितं रथं सूरे सूर्यस्य दुहिता पुत्री । दुहिता दुर्हिता दूरे हिता (नि ३-३) इति यास्कः । सारूढवती ॥ देवताता । सर्वदेवात्तातिल् (पा ४-४-१४२) इति स्वार्थिकस्तातिल् प्रत्ययः । तेन देवतातिशब्देन देवसंबद्धो यज्ञो लक्ष्यते । देवताता मख इति तन्नामसु पठितत्वात् । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । सुपां सुलुगिति सप्तम्या डादेशः । त्रिष्ठम् । त्रिषु चक्रेषु तिष्ठतीति त्रिष्ठः । सुपि स्थः (पा ३-२-४) इति कः । अंबांबेत्यादिना (पा ८-३-९७) सकारस्य षत्वम् । सूरे । षू प्रेरणे । सुसूधागृधिभ्यः क्रन् (उ ४-२५) इति क्रन् । नित्त्वादाद्युदात्तः । विभक्तिव्यत्ययः । आ रुहत् । कृमृदृरुहिभ्यश्छंदसि (पा ३-१-५९) इति च्लेरङादेशः ॥ ५ ॥