प्रथमं मण्डलम् - सूक्तम् 182

8 ऋचः

ऋषिः: अगस्त्यो मैत्रावरुणिः देवता: अश्विनौ छन्दः: जगती

सूक्तम् 1.182 - सम्पूर्णम्

1 / 8
ऋक्: 1.182.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
1.182.1
अभू᳚दि॒दं व॒युन॒मो षु भू᳚षता॒ रथो॒ वृष᳚ण्वा॒न्मद᳚ता मनीषिणः ।
धि॒यं॒जि॒न्वा धिष्ण्या᳚ वि॒श्पला᳚वसू दि॒वो नपा᳚ता सु॒कृते॒ शुचि᳚व्रता ॥
▶ पदपाठः (Word-by-word)
अभू᳚त् । इ॒दम् । व॒युन᳚म् । ओ इति᳚ । सु । भू॒ष॒त॒ । रथः᳚ । वृष᳚ण्॑वान् । मद᳚त । म॒नी॒षि॒णः॒ ।
धि॒य॒म्॑जि॒न्वा । धिष्ण्या᳚ । वि॒श्पला᳚वसू॒ इति᳚ । दि॒वः । नपा᳚ता । सु॒॑कृते᳚ । शुचि᳚॑व्रता ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमनीषिणः मनस्विनोमेधाविनऋत्विजः अस्माकमिदंवयुनंप्रज्ञानमभूत् उत्पन्नं कीदृशंतदिति उच्यते व्रुषण्वान् अभिमतवर्षणवान् रथः अश्विनोःसंबन्धीगमनसाधनोरथः आगतइतिशेषः तत्स्था- वश्विनौओषुभूषत ओइतिनिपातद्वयसमुदायात्मकैकोनिपातः सुष्ठ्वाभूषत अभिमुखाभवतस्तोतुं तादृशौमहानुभावावश्विनौमदत अन्तर्भावितण्यर्थोयं मादयतसंभावयत अश्विनौविशेष्येते सुकृते सुष्ठुकृतवते मह्यंधियंजिन्वा कर्मणोबुद्धेर्वाप्रीणयितारौधिष्णयाधिषणार्हौस्तुत्यौ विश्वलावसू विशां- प्रजानां अस्माकंपालयितृधनौविश्पलाख्यायाः छिन्नजङ्घायाः हिरण्मयजंघाप्रदानेनतथाभूतौ स- द्योजंघामायसींविश्पलायाइत्यादिनिगमः । दिवः आदित्यस्यनपाता नप्तारौ नपातयितारौवा शुचिव्रता दीप्तकर्माणौ ईदृशावश्विनौमदत ॥ १ ॥

1.182.2
इन्द्र᳚तमा॒ हि धिष्ण्या᳚ म॒रुत्त᳚मा द॒स्रा दंसि᳚ष्ठा र॒थ्या᳚ र॒थीत᳚मा ।
पू॒र्णं रथं᳚ वहेथे॒ मध्व॒ आचि᳚तं॒ तेन᳚ दा॒श्वांस॒मुप᳚ याथो अश्विना ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚॑तमा । हि । धिष्ण्या᳚ । म॒रुत्॑त᳚मा । द॒स्रा । दंसि᳚ष्ठा । र॒थ्या᳚ । र॒थि॑त᳚मा ।
पू॒र्णम् । रथ᳚म् । व॒हे॒थे॒ इति᳚ । मध्वः᳚ । आ॑चि᳚तम् । तेन᳚ । दा॒श्वांस᳚म् । उप᳚ । या॒थः॒ । अ॒श्वि॒ना॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअश्विनौ युवामिन्द्रतमाहि ईश्वरतमौखलु एवंप्रतिविशेषणंहिःसंबंद्भ्यः तथा धिष्ण्या स्तुत्यर्हौ मरुत्तमा मरुद्वद्वेगगामिनौमितरागिणौमितराविणौवा दस्रा उपक्षपयितारौशत्रूणां दंसिष्ठा अति- शयकर्माणौ रथ्यारथार्हौरथवन्तौ यथारथिनोनेतारः तेषांश्रेष्ठौरथीरध्वराणामितिने तृपरतयाव्या- ख्यातत्वात् ईदृशौयुवांमध्वोमधुसदृशस्योदकस्यामृतस्यवापूर्णंपूरितं आचितंसर्वतः सन्नद्धंरथं वहेथे नयथः तेनोक्तगुणविशिष्टेनरथेन हेअश्विना अश्विनौउक्तगुणविशिष्टौ सन्तौ दाश्वांसंउपयायः यज्ञ- मभिप्राप्नुथः ॥ २ ॥

1.182.3
किमत्र᳚ दस्रा कृणुथ॒ः किमा᳚साथे॒ जनो॒ यः कश्चि॒दह᳚विर्मही॒यते᳚ ।
अति᳚ क्रमिष्टं जु॒रतं᳚ प॒णेरसुं॒ ज्योति॒र्विप्रा᳚य कृणुतं वच॒स्यवे᳚ ॥
▶ पदपाठः (Word-by-word)
किम् । अत्र᳚ । द॒स्रा॒ । कृ॒णु॒थः॒ । किम् । आ॒सा॒थे॒ इति᳚ । जनः᳚ । यः । कः । चि॒त् । अह᳚विः । म॒ही॒यते᳚ ।
अति᳚ । क्र॒मि॒ष्ट॒म् । जु॒रत᳚म् । प॒णेः । असु᳚म् । ज्योतिः᳚ । विप्रा᳚य । कृ॒णु॒त॒म् । व॒च॒स्यवे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेदस्रा उपक्षपयितारौयुवां अत्रास्मिन् मनुष्येकिंक्रुणुथः कुरुथः हविषोभावादितिभावः तत्रैवकि- मासाथे किंतिष्ठथः अत्रेत्युक्तंकुत्रेत्याह—यःकश्चिज्जनोजन्मवान् अहविः यज्ञार्थहवीरहितोमहीयते- पूज्यतेस्वयं नयुष्मान्पूजयति तंजनमतिक्रमिष्टं पराभूयतिष्ठतं नकेवलमतिक्रममात्रं किन्तु पणेर्वणि- ग्भूतस्यलुब्धकस्यायष्टुः तस्यासुंप्राणंजुरतं अहिंसिष्टं अनीनशतं विप्रायमेधाविनेवचस्यवे वचसःस्तो- त्ररूपस्ययुवाभ्यामिच्छतेमह्यंज्योतिः कृणुतं युष्मद्यजनविषयज्ञानंकुरुतम् ॥ ३ ॥

1.182.4 समानपद
ज॒म्भय᳚तम॒भितो॒ राय᳚त॒ः शुनो᳚ ह॒तं मृधो᳚ वि॒दथु॒स्तान्य᳚श्विना ।
वाचं᳚वाचं जरि॒तू र॒त्निनीं᳚ कृतमु॒भा शंसं᳚ नासत्यावतं॒ मम᳚ ॥
▶ पदपाठः (Word-by-word)
ज॒म्भय᳚तम् । अ॒भितः᳚ । राय᳚तः । शुनः᳚ । ह॒तम् । मृधः᳚ । वि॒दथुः᳚ । तानि᳚ । अ॒श्वि॒ना॒ ।
वाच᳚म्॑वाचम् । ज॒रि॒तुः । र॒त्निनी᳚म् । कृ॒त॒म् । उ॒भा । शंस᳚म् । ना॒स॒त्या॒ । अ॒व॒त॒म् । मम᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअश्विनौ रायतःनिन्दतः शब्दयतोस्मान् हन्तुं आगच्छतोवा शुनः श्वसदृशानभितोजंभयतंना- शयतं तथामृधस्तेषांसङ्ग्रामान् सङ्ग्रामंकुर्वतोवा हतं मारयतं तानिहननोपायान् विदथुः जानीथः किञ्च जरितुर्युष्मान् स्तोतुर्वाचंवाचंतांतांस्तुतिलक्षणांवाचंरत्निनीं कृतंसर्वामपिस्तुतिंरमणीयफल- वतीं कुरुतं हेनासत्या सत्यभूतौ युवामुभाउभौ मममदीयांशंसंस्तुतिं अवतं रक्षतम् ॥ ४ ॥

1.182.5
यु॒वमे॒तं च᳚क्रथु॒ः सिन्धु᳚षु प्ल॒वमा᳚त्म॒न्वन्तं᳚ प॒क्षिणं᳚ तौ॒ग्र्याय॒ कम् ।
येन᳚ देव॒त्रा मन᳚सा निरू॒हथु᳚ः सुपप्त॒नी पे᳚तथु॒ः क्षोद᳚सो म॒हः ॥
▶ पदपाठः (Word-by-word)
यु॒वम् । ए॒तम् । च॒क्र॒तुः॒ । सिन्धु᳚षु । प्ल॒वम् । आ॒त्म॒न्॑वन्त᳚म् । प॒क्षिण᳚म् । तौ॒ग्र्याय᳚ । कम् ।
येन᳚ । दे॒व॒॑त्रा । मन᳚सा । निः॒॑ऊ॒हथुः᳚ । सु॒॑प॒प्त॒नि । पे॒त॒थुः॒ । क्षोद᳚सः । म॒हः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअश्विनौ युवंयुवांसिन्धुषुसमुद्रोदकेषुएतंप्लवं प्रसिद्धप्लुतिसाधनं प्लवंनावं आत्मन्वन्तं दार्ढ्य- वन्तं पक्षिणं पक्षवद्गतिसाधनरथवन्तं तौग्र्यायतुग्रनाम्नोराज्ञः पुत्राय भुज्युनाम्नेराज्ञेकंसुखकरंचक्रथुः तौग्र्योभुज्यूराजासमुद्रवर्तीससेनः परचक्रंप्रमथितुंप्रस्थितः तंप्रतीपबलान्यागत्यापातयन् सचप्रसाद- फलकराश्विनौस्तुत्वास्वात्मानंचररक्षेत्ययमितिहासोबहुधापूर्वंप्रपञ्चितः यद्वा कमितिपदपूरणः त- स्यजलसञ्चारिरथस्य सहायभूतान् बहून् रथादीनकुरुतमित्यर्थः अयमर्थस्तुतम् हथुर्नौभिःश्चतस्रो- नावस्त्रिभीरथैरित्यादिमन्त्रान्तरेषुप्रसिद्धः । येनयुष्मद्दत्तेनप्लवेनदेवत्रादेवेषुमध्येमनसानुग्रहयुक्त्या- बुद्ध्यायेनमनसेतिवायोज्यं निरूहथुः निर्गमनंकुरुथः तथासुपप्तनिशोभनपतनंयथाभवति सुपनौ- युवांमहोमहतःक्षोदसः उदकनामैतत् उदकात्पेतथुः तदधःपतथ उत्तरीतुम् ॥ ५ ॥

1.182.6
अव᳚विद्धं तौ॒ग्र्यम॒प्स्व१॒᳚न्तर᳚नारम्भ॒णे तम᳚सि॒ प्रवि᳚द्धम् ।
चत᳚स्रो॒ नावो॒ जठ᳚लस्य॒ जुष्टा॒ उद॒श्विभ्या᳚मिषि॒ताः पा᳚रयन्ति ॥
▶ पदपाठः (Word-by-word)
अव᳚॑विद्धम् । तौ॒ग्र्यम् । अ॒प्॑सु । अ॒न्तः । अ॒ना॒र॒म्भ॒णे । तम᳚सि । प्र॑वि᳚द्धम् ।
चत᳚स्रः । नावः᳚ । जठ᳚लस्य । जुष्टाः᳚ । उत् । अ॒श्वि॑भ्या᳚म् । इ॒षि॒ताः । पा॒र॒य॒न्ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अप्स्वन्तर्मध्येअवविद्धंअवस्ताच्छत्रुभिःपातितं अनारंभणेआलंभनरहिते तमसितमोवत्तमः दृष्टि- श्वासादिप्रतिबन्धकेजलमध्येप्रविद्धप्रकर्षेणपीडितंतौग्र्यंभुज्युंजठलस्यजठरस्यजठरवदुदकधारकस्य- मध्येजुष्टाः सेविताः यद्वा कर्मणिषष्ठी जठरंप्राप्ताः अन्तर्जलंप्रविष्टाः अश्विभ्यामिषिताः चतस्रोनाव- उत्पारयन्ति ऊर्ध्वंप्रापयन्ति ॥ ६ ॥

1.182.7
कः स्वि᳚द्वृ॒क्षो निष्ठि᳚तो॒ मध्ये॒ अर्ण᳚सो॒ यं तौ॒ग्र्यो ना᳚धि॒तः प॒र्यष᳚स्वजत् ।
प॒र्णा मृ॒गस्य᳚ प॒तरो᳚रिवा॒रभ॒ उद᳚श्विना ऊहथु॒ः श्रोम᳚ताय॒ कम् ॥
▶ पदपाठः (Word-by-word)
कः । स्वि॒त् । वृ॒क्षः । निः॑स्थि᳚तः । मध्ये᳚ । अर्ण᳚सः । यम् । तौ॒ग्र्यः । ना॒धि॒तः । प॒रि॒॑अस᳚स्वजत् ।
प॒र्णा । मृ॒गस्य᳚ । प॒तरोः᳚॑इव । आ॒॑रभे᳚ । उत् । अ॒श्वि॒ना॒ । ऊ॒ह॒थुः॒ । श्रोम᳚ताय । कम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

कःस्वित् कश्चिदनुग्राहकोवृक्षः वृक्षविकारोरथः विकारेप्रकृतिशब्दः यद्वा संस्तषाभिप्रायमेतत् स्तोत्राख्योवृक्षइत्यर्थः कीदृशोरथः निष्ठितः निश्चलंवर्तमानः कुत्रेतिउच्यते अर्णसः उदकस्यमध्येयं- वृक्षंतौग्र्यः तुग्रपुत्रोभुज्युर्नाधितोयाचमानः पर्यषस्वजत् परिष्व क्तमकरोत् आलम्बने दृष्टान्तः— पतरोः पतनशीलस्यमृगस्यमार्जयितुः शोधयितुर्हिंसकादेरारभे आलंबनायपर्णानीव तानियथा आलं- बनाय्प्रभवन्ति तद्वत् हेअश्विनौ श्रोमतायकीर्तिमत्त्वायौदूहथुः ऊर्ध्वं प्रापयथः स्तुतिपक्षे स्तोत्राख्यं- वृक्षमाश्रितवन्तंतमूहथुरित्यर्थः ॥ ७ ॥

1.182.8
तद्वां᳚ नरा नासत्या॒वनु᳚ ष्या॒द्यद्वां॒ माना᳚स उ॒चथ॒मवो᳚चन् ।
अ॒स्माद॒द्य सद᳚सः सो॒म्यादा वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ॥
▶ पदपाठः (Word-by-word)
तत् । वा॒म् । न॒रा॒ । ना॒स॒त्यौ॒ । अनु᳚ । स्या॒त् । यत् । वा॒म् । माना᳚सः । उ॒चथ᳚म् । अवो᳚चन् ।
अ॒स्मात् । अ॒द्य । सद᳚सः । सो॒म्यात् । आ । वि॒द्याम᳚ । इ॒षम् । वृ॒जन᳚म् । जी॒र॑दा᳚नुम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेनरा नेतारौकर्मणोनराकारौवा हेनासत्या असत्यरहितौसत्यफलौवा वांयुवांतत्तादृशं स्तोत्रं- अनुस्यात् अनुकूलंभवतु अनुभवतुवा वांतदित्युक्तंयदित्याह वांप्रतिमानासः पूजावन्तोस्मदीयाहो- त्रादयोयत् उचथंस्तोत्रमवोचन् अकुर्वन् तद्वामनुष्यात् हेअश्विनौ अद्यास्मिन्प्रधानयागदिने अस्मा- दस्माभिः क्रियमाणात् सदसःसंबन्धिनः सोम्यात् सोमयागसंपादकात् आइत्यप्यर्थे अस्माभिर्यजमा- नैरद्यक्रियमाणादपिस्तोत्रात् प्रीणयतमिति विद्यामेतिगतम् ॥ ८ ॥

तंयुञ्चाथामितिषळृचंचतुर्थंसूक्तंत्रैष्टुभमागस्त्यंआश्विनं अनुक्रमणिका—तंयुञ्चाथांषट् ।