प्रथमं मण्डलम् - सूक्तम् 9

10 ऋचः

ऋषिः: मधुच्छंदा वैश्वामित्रः देवता: इंद्रः छन्दः: गायत्री

सूक्तम् 1.9 - सम्पूर्णम्

1 / 10
ऋक्: 1.9.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
1.9.1
इन्द्रेहि॒ मत्स्यन्ध᳚सो॒ विश्वे᳚भिः सोम॒पर्व᳚भिः ।
म॒हा{4} अ᳚भि॒ष्टिरोज᳚सा ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚ । आ । इ॒हि॒ । मत्सि᳚ । अन्ध᳚सः । विश्वे᳚भिः । सो॒म॒पर्व᳚॑भिः ।
म॒हान् । अ॒भि॒ष्टिः । ओज᳚सा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र एहि । अस्मिन्कर्मण्यागच्छ । आगत्य च विश्वेभिः सर्वैः सोमपर्वभिः सोमरसरूपैरंधसोंऽधोभिरन्नैर्मत्सि । माद्य । हृष्टो भव । तत ऊर्ध्वमोजसा बलेन महान्भूत्वाभिष्टिः शत्रूणामभिभविता भवेति शेषः । अष्टाविंशतिसंख्याकेषु बलानामस्वोजः पाज इति पठितं ॥ आ इहि । आद्गुणः (पा ६-१-८७) इंद्र एहि । यो ह्युभयोः । स्थाने लभतेऽसावन्यतरव्यपदेशमित्याङ्माङोरेकादेशस्याङ् व्यपदेशादोमाङोश्च (पा ६-१-९५) इति पररूपम् । मत्सि । माद्य । मदी हर्षग्ल पनयोः । लोटः सिप् । सर्वे विधयश्छंदसि विकल्प्यंत इति सेर्हिरादेशः (पा ३-४-८७) न भवति । दिवादिभ्यः श्यन् (पा ३-१-६९) इति श्शन् । बहुलं छंदसीति श्यनो लुक् । न लुमतांगस्य (पा १-१-६३) इति प्रत्ययलक्षणप्रतिषेधाच्छमामष्टनां दीर्घः श्यनि । पा ७- -७४ । इत्युपधादीर्घो न भवति । सिपः पित्त्वाद्धातुस्वर एव । अंधसः । अदेर्नुम् धश्च (उ ४-२०५) इत्यसुन् । व्यत्ययेन तृतीयाबहुवचनं कर्तव्यम् । नित्त्वादाद्युदात्तः । विश्वेभिः । अशिप्रुषीत्यादिना (उ १-१५१) क्वन् । नित्त्वादाद्युदात्तत्वम् । ऐसादेशो बहुलं छंदसीति न भवति । सोमपर्वभिः । लतारूपं सोमं पृणंति पूरयंतीति सोमपर्वाणः सोम रसा । पृ पालकपूरणयोः । अन्येभ्योऽपि दृश्यंत इति वनिप् । गुणो रपरत्वम् । वनिपः पित्त्वाद्धातुस्वर एव । उपपदसमासे कृदुत्तरपदप्रकृतिस्वरेण पुनः स एव भवति । अभिष्टिरभिगंता । इष गतौ । मंत्रे वृषेत्यादिना (पा ३-३-९६) क्तिन्नुदात्तः । स हि भावपरोऽपि भवितारं लक्षयति । कित्त्वाल्लघूपधगुणाभावः । तितुत्रतथसिसुसरकसेषु । च (पा ७-२-९) इतीडागमो न भवति । अभिशब्दस्येकार एमनादिषु पररूपं वक्त्यव्यम् । पा ६-१-९४-६ । इति पररूपत्वम् । प्रादिसमासे कृदुत्तरपदप्रकृतिस्वरत्वम् । ओजसा । उब्जेर्बलोपश्च (उ ४-१९१) इत्यसुन् । नित्त्वादाद्युदात्तः ॥ १ ॥

1.9.2
एमे᳚नं सृजता सु॒ते म॒न्दिमिन्द्रा᳚य म॒न्दिने᳚ ।
चक्रिं॒ विश्वा᳚नि॒ चक्र᳚ये ॥
▶ पदपाठः (Word-by-word)
आ । ई॒म् । ए॒न॒म् । सृ॒ज॒त॒ । सु॒ते । म॒न्दिम् । इन्द्रा᳚य । म॒न्दिने᳚ ।
चक्रि᳚म् । विश्वा᳚नि । चक्र᳚ये ॥
▶ सायणभाष्यम् (Sayana Commentary)

ईमित्यनर्थकः पादपूरणाय प्रयुक्तः । हे अध्वर्यवः सुतेऽभिषुते चमसस्थे सोम एनं सोममिंद्रायेंद्रार्थमासृजत । पुनरभ्युन्नयत । शुक्रामंथिचमसगणे पुनरभ्युन्नयनमापस्तंबेनोक्तम् । होत्रकाणां चमसाध्वर्यवः सकृत्सकृद्धुत्वा शुक्रस्याभ्युन्नीयोपावर्तध्वमिति । आप १२-२३-४ । इति । कीदृशमेनंमंदिं हर्षहेतुं चक्रिं साधुकरणशीलम् । कीदृशायेंद्राय । मंदिने हर्ष युक्ताय विश्वानि सर्वाणि कर्माणि चक्रये कृतवते । सर्वकर्मनिष्पादनशीलाये । त्यर्थः । ईमित्यस्य पादपूरणार्थत्वं यास्क आह । अथ ये प्रवृत्तेऽर्थेऽमिताक्षरेषु ग्रंथेषु वाक्यपूरणा आगच्छंति पदपूरणास्ते मिताक्षरेष्वनर्थका कमीमिद्विति (नि १-९) इति । अस्यायमर्थः । अन्यैरेव पदैर्विवक्षितेऽर्थे समाप्ते सति ये शब्दा ईमित्यादयः प्रयुक्तास्ते शब्दा अमिताक्षरेषु छंदोराहित्येन परिमिता । क्षररहितेषु ब्राह्मणादिवाक्येषु वाक्यपूरणार्थ द्रष्टव्याः । मिताक्षरेषु छंदोयुक्तेषु ग्रंथेषु पादपूरणार्थाः । ते च कमीमित्यादय इति । ईमित्यस्य शब्दस्यानर्थक्यायैतामृचमुदाजहार । एमेनं सृजता सुते । आसृजतैनं सुते (नि १-१०) इति ॥ एनम् । इदमो द्वितीयायां द्वितीयाटौः स्वेनः (पा २-४-३४) इत्येनादेशोऽनुदात्त इत्यनुवृत्तेः सर्वानुदात्तः । सृजत । संहितायामन्येषामपिदृश्यते (पा ६-३-१३७) इति दीर्घः । मंदिम् । प्रमोदहेतुम् । मदि स्तुतिमोदमदस्वप्नकांतिगतिषु । इदितो नुम् । धातोरिति नुम् । मंदमानं प्रयुंक्त इत्यर्थे हेतुमति च (पा ३-१-२६) इति णिच् । ण्यंतस्याजंतत्वादच इः (उ ४-१३८) इतीकारप्रत्ययः । णेरनिटीति णिलोपः । प्रत्ययस्वरेणांतोदात्तत्वं मुंदिने । मंदेः पूर्ववत् । चतुर्थ्यैकवचनेऽनपुंसकस्यापि (पा ७-१-७३) व्यत्य । येन नुमागमः । चक्रिम् । डुकृञ् करणे । आदृगमहनजनः किकिनौ लिट् च पा ३-२-१७१ । इति तच्छीलतद्धर्मतत्साधुकारिषु कर्तृषु किन्प्रत्ययः । तस्य कित्त्वाद्गुणाभावः । यणादेशः । लिड्वद्भावाद्द्विर्वचनम् । द्विर्वचनेऽचि (पा १-१-५९) इति यणादेशस्य स्थानिवद्भावात्कृशब्दो द्विरुच्यते । अभ्यासस्योरत्वरपरत्वश्चुत्वहलादिशेषाः । किनो नित्त्वादाद्युदात्तः । विश्वानि । विशेः क्वन् । नित्त्वादाद्युदात्तः । अस्य चक्रय इति कृदंतेन योगेऽपि कर्तृकर्मणोः कृति (पा २-३-६५) इति षष्ठी न भवति । किकिनौ लिट् चेति किनो लिड्वद्भावेन न लोकाव्ययनिष्ठाखलर्थतृनाम् (पा २-३-६९) इति निषेधात् ॥ २ ॥

1.9.3
मत्स्वा᳚ सुशिप्र म॒न्दिभि॒ः स्तोमे᳚भिर्विश्वचर्षणे ।
सचै॒षु सव᳚ने॒ष्वा ॥
▶ पदपाठः (Word-by-word)
मत्स्व᳚ । सु॒॑शि॒प्र॒ । म॒न्दि॑भिः᳚ । स्तोमे᳚भिः । वि॒श्व॒॑च॒र्ष॒णे॒ ।
सचा᳚ । ए॒षु । सव᳚नेषु । आ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सुशिप्र हे शोभनहनो शोभननासिक वा । शिप्रे हनू नासिके वा (नि ६-१७) इति यास्केनोक्तत्वात् । तादृश हे इंद्र मंदिभिर्हर्षहेतुभिः स्तोमेभिः स्तोत्रैर्मत्स्व । हृष्टो भव । हे विश्वचर्षणे सर्वमनुष्ययुक्त । सर्वैर्यजमानैः । पूज्येत्यर्थः । तादृशेंद्र त्वमेषु यागगतेषु त्रिषु सवनेषु सचा देवैरन्यैः सहा गच्छेति शेषः ॥ मदि स्तुतीत्यस्य लोट्यनित्यमागमशासनमिति कृत्वेदितो नुम् धातोरिति नुम् न भवति । अनुदात्तेत्त्वात्तास्यनुदात्तेन्ङिददुपदेशात् (पा ६-१-१८६) इति लसार्वधातुकानुदात्तत्वम् । धातुस्वर एव । संहितायां द्व्यचोऽतस्तिङः (पा ६-३-१३५) इति दीर्घत्वम् । सुशिप्रेत्यामंत्रितनिघातः । मंदिभिः । गत मंत्रे व्याख्यातम् । स्तोमेभिः । मन्प्रत्ययस्य नित्त्वादाद्युदात्त्वम् । बहुलं छंदसीति भिस ऐसादेशो न भवति । विश्वचर्षणे । निघातः । सचा । उक्तम् । एषु । ऊडिदमित्यादिना विभक्तेरुदात्तत्वं ॥ ३ ॥

1.9.4
असृ᳚ग्रमिन्द्र ते॒ गिर॒ः प्रति॒ त्वामुद᳚हासत ।
अजो᳚षा वृष॒भं पति᳚म् ॥
▶ पदपाठः (Word-by-word)
असृ᳚ग्रम् । इ॒न्द्र॒ । ते॒ । गिरः᳚ । प्रति᳚ । त्वाम् । उत् । अ॒हा॒स॒त॒ ।
अजो᳚षाः । वृ॒ष॒भम् । पति᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र ते गिरस्त्वदीयाः स्तुतीरसृग्रम् । सृष्टवानस्मि । ताश्च गिरः स्वर्गेऽवस्थितं त्वां प्रत्युदहासत । उद्गत्य प्राप्नुवन् । तादृशीर्गिरस्त्वमजोषाः । सेवितवानसि । कीदृशं त्वाम् । वृषभं कामानां वर्षितारं पतिं सोमस्य पातारं यजमानानां पालयितारं वा । पाता वा पालयिता वा (नि ४-२६) इति यास्केनोक्तत्वात् ॥ असृग्रम् । असृजम् । सृज विसर्गे । लङो मिप् । तुदादिभ्यःशः (पा ३-१-७७) बहुलं छंदसि (पा ७-१-८) इत्यत्र विकरणस्य रुडागमः । जकारस्य गकारः । लुङ् लङ् लृङ् क्ष्वडुदात्त इत्यडागम उदात्तः । सति शिष्वत्वात्स एव शिष्यते । गिरः । प्रातिपदिकस्वरः । अहासत । ओहाङ् गतौ । लुङ् । झस्यादादेशः (पा ७-१-५) च्ले सिच् (पा ३-१-४४) अडागमो निघातश्च । अजोषाः । जुषी प्रीतिसेवनयोः । लङस्थास् । तुदादिभ्यः शः । तस्य छंदस्युभयथा (पा ३-४-११७) इत्यार्धधातुकत्वेन ङित्त्वाभावाल्लघूपधगुणाः । थासस्थकारलोपश्छांदसः । सवर्णदीर्घः । अडागमः । सति शिष्टत्वादुदात्तः । शिष्यते । वृषभम् । पृषु वृषु मृषु सेचने । अभिजित्यनुवृत्तावृषिवृषिभ्यां कित् (उ ३-१२३) इत्यभब् प्रत्ययः । कित्त्वाद्गुणाभावः । चित्त्वादंतोदात्तः । पतिम् । पा रक्षणे । पातेर्डतिः (उ ४-५७) डित्वाट्वलोपः । प्रत्ययाद्युदात्तत्वं ॥ ४ ॥

1.9.5
सं चो᳚दय चि॒त्रम॒र्वाग्राध᳚ इन्द्र॒ वरे᳚ण्यम् ।
अस॒दित्ते᳚ वि॒भु प्र॒भु ॥
▶ पदपाठः (Word-by-word)
सम् । चो॒द॒य॒ । चि॒त्रम् । अ॒र्वाक् । राधः᳚ । इ॒न्द्र॒ । वरे᳚ण्यम् ।
अस᳚त् । इत् । ते॒ । वि॒॑भु । प्र॒॑भु ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र वरेण्यं श्रेष्ठं राधो घनं चित्रं मणिमुक्तादिरूपेण बहुविधमर्वागस्मदभिमुखं यथा भवति तथा संचोदय । सम्यक् प्रेरय । भोगाय यावत्पर्याप्तं तावद्विभुशब्देनोच्यते । ततोऽप्यधिकं प्रभुशब्देन । तादृशं धनं ते तवैवासदित् । अस्त्येव । तस्मादस्मभ्यं प्रयच्छेत्यर्थः । मघमित्यादिष्वष्टाविंशतिधननामसु रायो राध इति पठितं ॥ चोदय । चुद प्रेरणे । ण्यंताल्लोट् । तिङ्ङतिङ इति निघातः । राधः । राध्नुवंत्यनेनेति राधो धनम् । सर्वधातुभ्योऽसुन् उ ४-१८८ । नित्त्वादाद्युदात्तः । वरेण्यम् । वृङ एण्यः । वृषादित्त्वादाद्युदात्तः । असत् । अस भुवि । लेट् । तिप् । इतश्च लोपः (पा ३-४-९७) इतीकारलोपः । लेटोऽडाटावित्यडागमः । अदिप्रभृतिभ्यः शप इति शपो लुक् । आगमा अनुदात्ता इत्यटोऽनुदात्तत्वाद्धातुस्वर एव । विभु । विभवतीति विभु । भुव इत्यनुवृत्तौ विप्रसंभ्यो ड्वसंज्ञायाम् (पा ३-२-१८०) इति डुप्रत्ययः । डित्वाट्वलोपः । प्रत्यय स्वरेणोकार उदात्तः । कृदुत्तरपदप्रकृतिस्वरेण स एव शिष्यते एवं प्रभु ॥ ५ ॥

1.9.6
अ॒स्मान्त्सु तत्र᳚ चोद॒येन्द्र᳚ रा॒ये रभ᳚स्वतः ।
तुवि᳚द्युम्न॒ यश᳚स्वतः ॥
▶ पदपाठः (Word-by-word)
अ॒स्मान् । सु । तत्र᳚ । चो॒द॒य॒ । इन्द्र᳚ । रा॒ये । रभ᳚स्वतः ।
तुवि᳚॑द्युम्न । यश᳚स्वतः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे तुविद्युम्न प्रभूतधनेंद्र राये धनसिद्ध्यर्थमस्माननुष्ठातृन् तत्र कर्मणि सु चोदय । सुष्टु प्रेरय । कीदृशानस्मान् । रभस्वत उद्योगवतो यशस्वतः कीर्तिमतः ॥ तत्र तच्छब्दात्सप्तम्यास्त्रल् (पा ५-३-१०) लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । इंद्र । आमंत्रिताद्युदात्तत्वम् । पादादित्वान्न निघातः । राये । ऊडिदमित्यादिना । विभक्तेरुदात्तत्वम् । रभस्वतः । रभ राभस्ये । राभस्यं कार्योपक्रमः । सर्वधातुभ्योऽसुन् । नित्त्वादाद्युदात्तः । मतुपः पित्त्वादनुदात्तत्वम् । स्वादिष्वसर्वनामस्थाने (पा १-४-१७) इति न पदत्वं तसौ मत्वर्थे (पा १-४-१९) इति भसंज्ञया बाधितत्वात् । आ कडारादेका संज्ञा (पा १-४-१) इति नियमात् तुविद्युम्न । तुवि बुहु द्युम्नं धनं यस्य । षाष्ठिं कमामंत्रिताद्युदात्तत्वम् । यशस्वतः । यशो स्यास्तीति मतुप् । अस्मायामेधास्रजो विनिः (पा ५-२-१२१) इति विनिना न बाध्यते मतुपः सर्वत्र समुच्चयात् । यशस्शब्दो नब्विषयस्यानिसंतस्येत्याद्युदात्तः । मतुपः पित्त्वात्स एव शिष्यते ॥ ६ ॥

1.9.7
सं गोम᳚दिन्द्र॒ वाज᳚वद॒स्मे पृ॒थु श्रवो᳚ बृ॒हत् ।
वि॒श्वायु᳚र्धे॒ह्यक्षि᳚तम् ॥
▶ पदपाठः (Word-by-word)
सम् । गो॑म᳚त् । इ॒न्द्र॒ । वाज᳚॑वत् । अ॒स्मे इति᳚ । पृ॒थु । श्रवः᳚ । बृ॒हत् ।
वि॒श्व॑आ᳚युः । धे॒हि॒ । अक्षि᳚तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र श्रवो धनमस्मे सं धेहि । अस्मभ्यं सम्यक् प्रयच्छ । कीदृशं श्रवः । गोमत् बह्वीभिर्गोभिरुपेतं वाजवत् प्रभूतेनान्नेनोपेतं पृथु परिमाणेनाधिकं बृहत् गुणैरधिकं विश्वायुः कृत्स्नायुष्यकारणं अक्षितं विनाशरहितं गोमत् । वाजवत् । उभयत्र मतु पोऽनुदात्तत्त्वात्प्रातिपदिकस्वर एव । वाजशब्दो वृषादिराद्युदात्तः । अस्मे । अस्मच्छब्दाच्चतुर्थीबहुवचनस्य सुपां सुलुगित्यादिना शे आदेशः । शित्त्वात्सर्वादेशः । प्रातिपदिकस्वरेणांतोदात्तत्वम् । शेषे लोपष्टिलोप इति पक्षे (पा ७-२-९०) उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । अंत्यलोपपक्षेऽतो गुण इति पररूप एकादेश उदात्तेनोदात्त इत्युदात्तत्वम् । पृथु । प्रथ प्रख्याने । प्रथिम्रदिभ्रस्जां संप्रसारणं सलोपश्च (उ १-२९) इति कुप्रत्ययः । रेफस्य संप्रसारणमृकारः । परपूर्वत्वम् । कोः कित्त्वान्न लघूपधगुणः । श्रूयत इति श्रवो धनम् । असुन्प्रत्ययः । नित्त्वादाद्युदात्तः । बृहत् । प्रातिपदिकस्वरः । विश्वायुः । विश्वमायुर्यस्मिन्दने । विश्वशब्दः क्वन्प्रत्ययांतः । तस्य बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वे प्राप्ते परादिश्छंदसि बहुलमिति पूर्वपदांतोदात्तत्वम् । एकादेश उदात्तेनोदात्त इत्युदात्तः । अक्षितम् । क्षि क्षय इत्यस्मादंतर्णीतण्यर्थात्कर्मणि निष्ठा । तेन स्यदर्थत्वान्निष्ठायामण्यदर्थे (पा ६-४-६०) इति न दीर्घत्वम् । अत एव क्षियो दीर्घात् (पा ८-२-४६) इति न निष्ठानत्वम् । नञ् समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वं ॥ ७ ॥

1.9.8
अ॒स्मे धे᳚हि॒ श्रवो᳚ बृ॒हद्द्यु॒म्नं स᳚हस्र॒सात᳚मम् ।
इन्द्र॒ ता र॒थिनी॒रिषः᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒स्मे इति᳚ । धे॒हि॒ । श्रवः᳚ । बृ॒हत् । द्यु॒म्नम् । स॒ह॒स्र॒॑सात᳚मम् ।
इन्द्र᳚ । ताः । र॒थिनीः᳚ । इषः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र बृहच्छ्रवो महतीं कीर्तिमस्मे धेहि । अस्मभ्यं प्रयच्छ । तथा सहस्रसातममतिशयेन सहस्रसंख्यादानोपेतं द्युम्नं धनमस्मे धेहि । तथा ता व्रीहियवादिरूपेण प्रसिद्धा रथिनीर्बहुरथोपेता इषोऽन्नान्यस्मे धेहि ॥ अस्मे सुपां सुलुगित्यादिना शे आदेशः । धेहि । घ्वसोरेद्धावभ्यासलोपश्च । पा ६-४-११९ इत्येत्वाभ्यासलोपौ । श्रूयत इति श्रवः । असुनो नित्त्वादाद्युदात्तत्वम् । सहस्रं सुनुते ददातीति सहस्रसाः । षणु दाने । जनसनखनक्रमगमो विट् (पा ३-२-६७) विड्वनोरनुनासिकस्यात् (पा ६-४-४१) इत्याकारादेशः । धातुस्वरेणांतोदात्तः पुनः कृदुत्तरपदप्रकृतिस्वरेण स एव शिष्यते । रथा आसां संतीति रथिन्य इति प्रत्यय स्याद्युदात्तत्वम् । ऋन्नेभ्यो ङीप् (पा ४-१-५) स च पित्त्वादनुदात्तः । इषो यौगिकत्वे धातुस्वरः । रूढत्वे प्रातिपदिकस्वरः ॥ ८ ॥

1.9.9
वसो॒रिन्द्रं॒ वसु᳚पतिं गी॒र्भिर्गृ॒णन्त᳚ ऋ॒ग्मिय᳚म् ।
होम॒ गन्ता᳚रमू॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
वसोः᳚ । इन्द्र᳚म् । वसु᳚॑पतिम् । गीः॒॑भिः । गृ॒णन्तः᳚ । ऋ॒ग्मिय᳚म् ।
होम᳚ । गन्ता᳚रम् । ऊ॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वसोर्वसुनोऽस्मदीयस्य धनस्योतये रक्षार्थमिंद्रं होम । वयमाह्वयामः । किं कुर्वंतः । गीर्भिः स्तुतिभिर्गृणंतः स्तुवंतः । कीदृशमिंद्रम् । वसुपतिं धनपालकं ऋग्मियं ऋचां मातारं गंतारं यागदेशे गमनशीलं ॥ वसोः । वस निवासे । शृस्वृस्निहीत्यादिना (उ १-११) उप्रत्ययः । निदित्यनुवृत्तेर्नित्वादाद्युदात्तः । वसुपतिम् । समासांतोदात्तत्वे प्राप्ते पत्यावैश्वर्ये (पा ६-२-१८) इति पूर्वपदप्रकृतिस्वरत्वम् । गीर्भिः । सावेकाच इति विभक्तेरुदात्तत्वम् । गृणुतः । गृ शब्दे । लटः शतृ । क्र्यादिभ्यः श्ना (पा ३-१-८१) शतुः सार्वधातुकमपिदिति ङित्त्वात् श्नाभ्यस्तयोरातः (पा ६-४-११२) इत्याकारलोपः । शतुरकारस्य प्रत्ययस्वरेणोदात्तत्वम् । ऋग्मियम् । ऋचो मिमीत इत्यृग्मीः । तमृग्मियम् । माङ् माने शब्धे च । क्विप्चेति क्विप् । घुमास्थेत्यादिना (पा ६-४-६६) ईत्वम् । चकारस्य चोः कुः । झलां जशोंते (पा ८-२-३९) इति जठ्त्वम् । गकारः । द्वितीयै कवचनेऽचि श्नुधात्वित्यादिना (पा ६-४-७७) इयङादेशः । एरनेकाच इति यणादेशः (पा ६-४-८२) सर्वे विधयश्छंदसि विकल्प्यंत इति न भवति । कृदुत्तरपदप्रकृतिस्वरेणेकार उदात्तः । होम । आह्वयामः । ह्वेञ् स्पर्धायां शब्दे च । लट् । तस्यास्मदो बहुत्वेऽपि व्यत्ययेन मिप् । इकारस्य व्यत्ययेनाकारः । शपो बहुलु छंदसीति लुक् । बहुलं छंदसि (पा ६-१-३४) इति ह्वः । संप्रसारणं परपूर्वत्वं गुणः । धातोः (पा ६-१-१६२) इत्योकार उदात्तः । मिपः पित्स्वरेणायदात्तत्वम् । गंतारम् । गम्लैसृप्ल्कगतौ । ताच्छील्ये तृन् । नित्त्वादाद्युदात्तः । ऊतये । ऊतयूती त्यादिना क्तिन्नुदात्तो निपाशितः ॥ ९ ॥

1.9.10
सु॒तेसु᳚ते॒ न्यो᳚कसे बृ॒हद्बृ᳚ह॒त एद॒रिः ।
इन्द्रा᳚य शू॒षम᳚र्चति ॥
▶ पदपाठः (Word-by-word)
सु॒ते॑सु᳚ते । नि॑ओ᳚कसे । बृ॒हत् । बृ॒ह॒ते । आ । इत् । अ॒रिः ।
इन्द्रा᳚य । शू॒षम् । अ॒र्च॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आकार इच्छब्दश्च पादपूरणौ । यद्वा । व्याप्तिवचन आकारः । अङीषदर्थेऽभिव्याप्तौ । अम । ३-४-३२ । इत्यभिधानात् । इच्छब्दोऽपिशब्दार्थः । इयर्ति गच्छत्यनुष्ठेयं कर्म प्राप्नोतीत्यरिर्यजमानः । एदरिः सर्वोऽपि यजमान इंद्राय सुते सुत इंद्रार्थमभिषुते तत्तत्सोमे शूषं बलमर्चति स्तौति । इंद्रस्य पराक्रमं प्रशंसतीत्यर्थः । कीदृशं शूषम् । बृहत् प्रौढम् । कीदृशायेंद्राय । न्योकसे नियतस्थानाय बृहते प्रौढाय ॥ सुते सुते । षुञ् अभिषवे । क्तप्रत्ययः प्रत्ययस्वरेणोदात्तः । नित्यवीप्सयोरिति वीप्सायां द्विर्भावः । तस्य परमाम्रेडितमिति द्वितीयस्याम्रेडितत्वेनानुदात्तं च । पा । ८-१-३ । इत्यनुदात्तत्वम् । न्योकसे । नियतमोको यस्य तस्मै । निशब्ङो निपाता आद्युदात्ता इत्युदात्तः । तस्य यणादेश उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य (पा ८-२-४) इत्योकारः स्वरितः । बृहते । बृहन्महतोरुपसंख्यानम् । पा ६-१-१७३-१ । इत्यजादिविभक्तेरुदात्तत्वम् । अरिः । ऋ गतौ । अच इः (उ ४-१३८) इतीकारप्रत्ययः । गुणो रपरत्वम् । प्रत्ययस्वेरेणेकार उदात्तः । इंद्राय । ऋच्रेंद्रेत्यादिना रन्प्रत्यय इकार उदात्तः । शूषम् । प्रातिपदिकस्वरः । अर्चति । निघातस्वरः ॥ १८ ॥ १० ॥