अ॒स्मे धे᳚हि॒ श्रवो᳚ बृ॒हद्द्यु॒म्नं स᳚हस्र॒सात᳚मम् ।
इन्द्र॒ ता र॒थिनी॒रिषः᳚ ॥
इन्द्र॒ ता र॒थिनी॒रिषः᳚ ॥
पदपाठः (Word-by-word)
अ॒स्मे इति᳚ । धे॒हि॒ । श्रवः᳚ । बृ॒हत् । द्यु॒म्नम् । स॒ह॒स्र॒॑सात᳚मम् ।
इन्द्र᳚ । ताः । र॒थिनीः᳚ । इषः᳚ ॥
इन्द्र᳚ । ताः । र॒थिनीः᳚ । इषः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे इंद्र बृहच्छ्रवो महतीं कीर्तिमस्मे धेहि । अस्मभ्यं प्रयच्छ । तथा सहस्रसातममतिशयेन सहस्रसंख्यादानोपेतं द्युम्नं धनमस्मे धेहि । तथा ता व्रीहियवादिरूपेण प्रसिद्धा रथिनीर्बहुरथोपेता इषोऽन्नान्यस्मे धेहि ॥ अस्मे सुपां सुलुगित्यादिना शे आदेशः । धेहि । घ्वसोरेद्धावभ्यासलोपश्च । पा ६-४-११९ इत्येत्वाभ्यासलोपौ । श्रूयत इति श्रवः । असुनो नित्त्वादाद्युदात्तत्वम् । सहस्रं सुनुते ददातीति सहस्रसाः । षणु दाने । जनसनखनक्रमगमो विट् (पा ३-२-६७) विड्वनोरनुनासिकस्यात् (पा ६-४-४१) इत्याकारादेशः । धातुस्वरेणांतोदात्तः पुनः कृदुत्तरपदप्रकृतिस्वरेण स एव शिष्यते । रथा आसां संतीति रथिन्य इति प्रत्यय स्याद्युदात्तत्वम् । ऋन्नेभ्यो ङीप् (पा ४-१-५) स च पित्त्वादनुदात्तः । इषो यौगिकत्वे धातुस्वरः । रूढत्वे प्रातिपदिकस्वरः ॥ ८ ॥