प्रथमं मण्डलम् - सूक्तम् 124

13 ऋचः

ऋषिः: कक्षीवान् दैर्घतमस औशिजः देवता: उषाः छन्दः: त्रिष्टुप्

सूक्तम् 1.124 - सम्पूर्णम्

1 / 13
ऋक्: 1.124.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (13)
1.124.1
उ॒षा उ॒च्छन्ती᳚ समिधा॒ने अ॒ग्ना उ॒द्यन्त्सूर्य᳚ उर्वि॒या ज्योति᳚रश्रेत् ।
दे॒वो नो॒ अत्र᳚ सवि॒ता न्वर्थं॒ प्रासा᳚वीद्द्वि॒पत्प्र चतु᳚ष्पदि॒त्यै ॥
▶ पदपाठः (Word-by-word)
उ॒षाः । उ॒च्छन्ती᳚ । स॒म्॑इ॒धा॒ने । अ॒ग्नौ । उ॒त्॑यन् । सूर्यः᳚ । उ॒र्वि॒या । ज्योतिः᳚ । अ॒श्रे॒त् ।
दे॒वः । नः॒ । अत्र᳚ । स॒वि॒ता । नु । अर्थ᳚म् । प्र । अ॒सा॒वी॒त् । द्वि॒॑पत् । प्र । चतुः᳚॑पत् । इ॒त्यै ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषोषाः समिधाने अग्नौ अग्नित्वसामान्येनिकवचनं अग्निषुसमिध्यमानेषुसत्सुकर्मार्थेकर्तृप्रयोगः उषः कालेह्याहवनीयादयः प्रज्वाल्यन्ते उच्छन्तीतमोविवासयन्तीउर्वियाउरुबहुलं ज्योतिः प्रकाशं अश्रेत् सेवते प्रकाशते प्रकाशयतिवासर्वं किमिव उद्यन्सूर्यः उपमाप्रधाननिर्देशः उदितः सूर्यइव सूर्योयथाप्रकाशयतितथेत्यर्थः अत्रत्वदुदयानन्तरं अस्मिन्कर्मणिवासवितादेवः सर्वस्य प्रेरकः सूर्यो- नोऽस्मदर्थंनुक्षिप्रं अर्थंअर्थंशब्दोत्रविशेषणवाची नपुंसकलिंगः अयंनर्थानिक्रुणवन्नपांसीत्यादौतथा- दृष्टत्वात् । अरणीयंद्विपत् पादद्वयोपेतं मनुष्यादिरूपंधनंप्रासावीत्अनुजानातुददात्वित्यर्थः तथा चतुष्पत् पादचतुष्टयोपेतंगवादिरूपंधनंप्रासावीत् किमर्थं इत्यै द्विपदांचतुष्पदांचगमनाय यद्वा नइ- त्याइतिसंबन्धः अस्मद्गमनागमनादिव्यापारायेत्यर्थः ॥ १ ॥

1.124.2
अमि᳚नती॒ दैव्या᳚नि व्र॒तानि᳚ प्रमिन॒ती म᳚नु॒ष्या᳚ यु॒गानि᳚ ।
ई॒युषी᳚णामुप॒मा शश्व᳚तीनामायती॒नां प्र᳚थ॒मोषा व्य᳚द्यौत् ॥
▶ पदपाठः (Word-by-word)
अमि᳚नती । दैव्या᳚नि । व्र॒तानि᳚ । प्र॒॑मि॒न॒ती । म॒नु॒ष्या᳚ । यु॒गानि᳚ ।
ई॒युषी᳚णाम् । उ॒प॒॑मा । शश्व᳚तीनाम् । आ॒॑य॒ती॒नाम् । प्र॒थ॒मा । उ॒षाः । वि । अ॒द्यौ॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

दैव्यानिव्रतानि देवसंबन्धीन्यग्निहोत्रादीनिकर्माणि व्रतमितिकर्मनाम व्रतंकर्वरमितितन्नामसु पा- ठात् तानिकर्माणिअमिनती अहिंसतीमानप्रदानेनानुकूलंकुर्वती तथा मनुष्याणां युगानियुगोपलक्षि- तान्निमेषादिकालावयवान् प्रमिनती प्रकर्षेणहिंसन्तीआयुः क्षपयन्तीत्यर्थः यद्वा युगानि युग्मानिपर- स्परसंयोगंप्रमिनतीहिंसन्तीवियोगंकुर्वतीत्यर्थः उषः कालेसर्वेयथायथंस्वस्वव्यापारायगच्छन्तीतिप्र- सिद्धं किंच ईयुषीणांगच्छन्तीनां अतीतानांशशतीनांनित्यानामुषसां उपमा ताभिः सदृशीत्यर्थः सादृश्यंच सदृशीरिदुश्वइत्यत्रोक्तम् । तथा आयतीनांप्रथमा आगामिनीनामुषसांप्रथमभाविनीसती- व्यद्यौत् विशेषेणप्रकाशते यद्वा ईयुषीणां गमनशीलानांपशादीनां शश्वतीनां संततिप्रवाहरूपेण नित्यानांउपमा तद्वन्नित्येत्यर्थः तथाआयतीनां रात्र्यवसानसमयेउत्पद्यमानानां प्रज्ञावागादीनांप्रथ- मभाविनीउषस्यागतायांवाचोबुद्धयश्चस्फुरन्तीतिप्रसिद्धम् तादृशीदेवीव्यद्यौत् प्राणिनामनुग्रहाय- द्योतते ॥ २ ॥

1.124.3
ए॒षा दि॒वो दु᳚हि॒ता प्रत्य᳚दर्शि॒ ज्योति॒र्वसा᳚ना सम॒ना पु॒रस्ता᳚त् ।
ऋ॒तस्य॒ पन्था॒मन्वे᳚ति सा॒धु प्र᳚जान॒तीव॒ न दिशो᳚ मिनाति ॥
▶ पदपाठः (Word-by-word)
ए॒षा । दि॒वः । दु॒हि॒ता । प्रति᳚ । अ॒द॒र्शि॒ । ज्योतिः᳚ । वसा᳚ना । स॒म॒ना । पु॒रस्ता᳚त् ।
ऋ॒तस्य᳚ । पन्था᳚म् । अनु᳚ । ए॒ति॒ । सा॒धु । प्र॒जा॒न॒ती॑इ᳚व । न । दिशः᳚ । मि॒ना॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषोषाः दिवोद्योतमानात्मकस्यद्युलोकस्यदुहिता दुहितृस्थानीयाततउत्पद्यमानत्वात् दुहितेत्यु- पचर्यते पुरस्तात्पूर्वस्यांदिशिप्रतिप्रत्येकं अदर्शिदृश्यते सर्वेषामपिप्राणिनामाभिमुख्येनप्रकाशतइत्य- र्थः कीदृशीसाज्योतिर्वसाना तेजोरूपंवस्त्रमाच्छादयन्ती तेजसाप्रकाशयन्ती समना सम्यङ्मनयित्री- चेष्टयित्री अन्तर्भावितण्यर्थोऽयं यद्वा सहयुगपदेव मन्यतेवबुध्यते प्राणिभिरितिसमना व्युत्पत्त्यनव- धारणादनवग्रहः सातादृशीः ऋतस्यादित्यस्यपन्थां पन्थानंमेरोः प्रान्तप्रदेशं अनुक्रमेणसाधुसम्यगे- तिगच्छति सूर्योयत्रयत्रगच्छति तत्रतत्रपुरस्तादुषाअपिगच्छतीत्यर्थः सैव विशॆष्यते—प्रजानतीव प्रियभूतस्यसूर्यस्यमार्गोमयापिगन्तव्यइतिचेतयन्तीव यथालोकेप्रियतमेऽनुरागयुक्ताकाचिद्भर्तारं सर्वास्ववस्थासुनविमुञ्चति तथेयमपीत्यर्थः किंच दिशःप्रागादिकानमिनाति नहिनस्ति किंतूषायत्र- गच्छतिसाप्राचीत्येवंप्रागादिव्यवहारंकरोतीत्यर्थः ॥ ३ ॥

1.124.4 समानपद
उपो᳚ अदर्शि शु॒न्ध्युवो॒ न वक्षो᳚ नो॒धा इ᳚वा॒विर᳚कृत प्रि॒याणि᳚ ।
अ॒द्म॒सन्न स᳚स॒तो बो॒धय᳚न्ती शश्वत्त॒मागा॒त्पुन᳚रे॒युषी᳚णाम् ॥
▶ पदपाठः (Word-by-word)
उपो॒ इति᳚ । अ॒द॒र्शि॒ । शु॒न्ध्युवः᳚ । न । वक्षः᳚ । नो॒धाः॑इ᳚व । आ॒विः । अ॒कृ॒त॒ । प्रि॒याणि᳚ ।
अ॒द्म॒॑सत् । न । स॒स॒तः । बो॒धय᳚न्ती । श॒श्व॒त्॑त॒मा । आ । अ॒गा॒त् । पुनः᳚ । आ॒॑ई॒युषी᳚णाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषोषाः अपोइतिनिपातद्वयसमुदायात्मकएकोनिपातः सर्वैः समीपएव अदर्शिदृश्यते तत्रदृष्टा- न्तः—शुंध्युवोनवक्षः अत्रनकारौपमार्थीयः उपरिष्टात्प्रयुज्यमानत्वात् यत्रतुप्रतिषेधोविवक्षितः तत्र- पुरस्तान्नकारः प्रयुज्यते तथाचयास्कः—पुरस्तादुपाचारस्तस्ययत्प्रतिषेधतीति तस्योदाहरणंनेन्द्रं- देवममंसतेति उपरिष्टादुपाचारस्तस्ययेनोपमिमीतेइति तस्योदाहरणंदुर्मदासोनसुरायामिति शुंध्यु- रादित्यः सर्वेषांशोधकत्वात् तस्यवक्षोवक्षः स्थानीयोरश्मिसमूहः सयथाप्रकाशमानोदृश्यते तथेत्य- र्थः यद्वा शुन्ध्युरितिजलचरः श्वेतवर्णः पक्षिविशेषः सयथास्वकीयंवक्षः प्रकाशयन् दृश्यतेतद्वदित्यर्थः किंच नोधाइवप्रियाण्याविरकृत नवनंस्तोत्रंधारयतीतिनोधाः एतन्नामामहर्षिः देवतास्तुतिव्याजेन नानाविधैर्मन्त्रैः प्रियाणिस्वमनीषितान्याविष्कृतवान् तथैषापि स्वकीयानिसर्वलोकप्रियाणितेजां- स्याविरकरोत् किंच अद्मसन्न अत्राप्युपमार्थीयोनकारः अद्यतइत्यद्मान्नं तस्यपाकायगृहेसीदतीत्यद्म- सत् पाचिकायोषित् ससतोबोधयन्ती सयथास्वपतः पुत्रादीन्भोजनाय बोधयतितद्वत् यद्वा अद्मेति- गृहनाम वरूथंअद्मेतितन्नामसुपाठात् तत्रसीदतीत्यद्मसत् जननी सायथास्वपतः पुत्रादीन् उषः कालेप्रबोधयति तथाभुवनाख्येगृहेसीदन्ती तत्रत्यान् प्राणिनः प्रबोधयन्तीयमुषाः आईयुशीणां आग- मनशीलानांस्त्रीणांमध्येशश्वत्तमा आगात् पुनःपुनरागच्छति प्रातर्नियतमागच्छन्तीनां वारयोषितां- मध्येस्वयमेकासती नियतमागच्छतीत्यभिप्रायः अत्रनिरुक्तम्—उपादर्शिशुन्ध्युवः शुन्ध्युरादित्यो- भवतिशोधनात्तस्यैववक्षोभासोध्यूढमिदमपीतरद्वक्षएतस्मादेवाध्यूढंकायेशकुनिरपिशुंध्युरुच्यतेशो- धनादेवोदकचरोभवत्यापोऽपिशुन्ध्युवउच्यन्तेशोधनादेवनोधाऋषिर्भवतिनवनंदधातिसयथास्तु-त्याकामानाविष्कुरुतएवमुषारूपाण्याविष्कुरुतेऽद्मसदद्मान्नंभवत्यद्मसादिनीतिवान्नसानिनीतिवा- ससतोबोधयन्तीशश्वत्तमागात्पुनरेयुषीणांस्वपतोबोधयन्तीशाश्वतिकतमागात्पुनरागामिनीना- मिति ॥ ४ ॥

1.124.5
पूर्वे॒ अर्धे॒ रज᳚सो अ॒प्त्यस्य॒ गवां॒ जनि᳚त्र्यकृत॒ प्र के॒तुम् ।
व्यु᳚ प्रथते वित॒रं वरी᳚य॒ ओभा पृ॒णन्ती᳚ पि॒त्रोरु॒पस्था᳚ ॥
▶ पदपाठः (Word-by-word)
पूर्वे᳚ । अर्धे᳚ । रज᳚सः । अ॒प्त्यस्य᳚ । गवा᳚म् । जनि᳚त्री । अ॒कृ॒त॒ । प्र । के॒तुम् ।
वि । ऊं॒ इति᳚ । प्र॒थ॒ते॒ । वि॒॑त॒रम् । वरी᳚यः । आ । उ॒भा । पृ॒णन्ती᳚ । पि॒त्रोः । उ॒प॑स्था᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अप्त्यस्यव्यापनशीलस्य विसृतस्यरजसोरञ्चकस्यान्तरिक्षलोकस्य रजः शब्दोऽन्तरिक्षलोकवाची लोकारजांस्युच्यन्तेइतियास्केनोक्तत्वात् । तस्यपूर्वेअर्धेपूर्वस्मिन् भागेजनित्री उत्पन्नासती गवांदि- शांरश्मीनांवाकेतुंप्रज्ञानंप्राकृतप्रकर्षेणकरोति यद्वा रजसोरंजकस्याह्नः रजः शब्दोहर्वाची असृगह- नीरजसीउच्येते इतियास्केनोक्तत्वात् । तस्यपूर्वेर्धेपूर्वस्मिन्भागेउषः कालेगवांवाचांजनित्रीजनयि- त्रीउत्पादयित्री उषःकालेसर्वेषांप्राणिनांवाचः स्फुरन्तीतिप्रसिद्धम् यद्वा अप्त्यस्य कर्मसुस्थितस्य- जन्तोः केतुंगमनादिरूपंकर्म । केतुरितिकर्मनाम केतः केतुरितितन्नामसुपाठात् प्राकृतप्रकर्षेणकरोति किंच पित्रोः पालयित्र्योर्द्यावापृथिव्योः उपस्थाउपस्थेउत्सङ्गेअन्तरालप्रदेशेस्थित्वाउभाउभेद्यावा- पृथिव्यौ पृणन्तीस्वतेजसापूरयन्ती यद्वा उभाउभयोः पित्रोरितिसंबन्धः वितरंविशिष्टतरं वरीयः उरुतरंअतिविस्तीर्णंयथाभवतितथाव्युप्रथतेविशेषेणैवप्रख्याताभवति प्रकाशतइत्यर्थः उशब्दोवधार- णार्थःपादपूरणोवा मिताक्षरेष्वनर्थकाः कमीमिद्वितीति यास्केनोक्तत्वात् ॥ ५ ॥

1.124.6
ए॒वेदे॒षा पु᳚रु॒तमा᳚ दृ॒शे कं नाजा᳚मिं॒ न परि᳚ वृणक्ति जा॒मिम् ।
अ॒रे॒पसा᳚ त॒न्वा॒३॒᳚ शाश᳚दाना॒ नार्भा॒दीष᳚ते॒ न म॒हो वि᳚भा॒ती ॥
▶ पदपाठः (Word-by-word)
ए॒व । इत् । ए॒षा । पु॒रु॒॑तमा᳚ । दृ॒शे । कम् । न । अजा᳚मिम् । न । परि᳚ । वृ॒ण॒क्ति॒ । जा॒मिम् ।
अ॒रे॒पसा᳚ । त॒न्वा᳚ । शाश᳚दाना । न । अर्भा᳚त् । ईष᳚ते । न । म॒हः । वि॒॑भा॒ती ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषोषा एवेत् इच्छब्दएवकारार्थः एवमेवइदानीं भासमानप्रकारेणैवपुरुतमाविपुलतमा अत्यन्त- विस्तृतासती अजामिं विजातीयंमनुष्यादिजातिंनपरिवृणक्ति परितः सर्वतोनवर्जयति तथा जामिं- सजातीयंदेवजातिंनपरिवृणक्ति नपरिवर्जयति मनुष्यादिकंदेवादिकंचतदुपलक्षितं लोकद्वयंवाका- र्त्स्न्येनप्रकाशयतीत्यर्थः किमर्थमितितदुच्यते—दृशेकं सुखेनसर्वेषांदर्शनायसुखंयथा भवतितथासर्वा- न्दर्शयितुंवा किंच अरेपसा अपापया निर्मलयातन्वाशरीरेण शाशदाना शाशाद्यमाना शाशदानः शाशाद्यमानइतियास्कः । स्पष्टतांगच्छन्तीत्यर्थः विभातीविशेषेणप्रकाशयन्ती साअर्भादल्पात् पुत्रि- कादेःसकाशान्नेषतेनग यति तमपिप्रकाशयति तथा महोमहतोमेर्वादेः सकाशान्नेषते नगच्छति तम- पिप्रकाशयति पूर्वंलोकद्वयंप्रकाशयति इत्युक्तं इदानीमस्मिंल्लोके परमाण्वादिपर्वतपर्यन्तंकृत्स्नंप्रका- शयतीत्यर्थः ॥ ६ ॥

1.124.7
अ॒भ्रा॒तेव᳚ पुं॒स ए᳚ति प्रती॒ची ग᳚र्ता॒रुगि᳚व स॒नये॒ धना᳚नाम् ।
जा॒येव॒ पत्य᳚ उश॒ती सु॒वासा᳚ उ॒षा ह॒स्रेव॒ नि रि᳚णीते॒ अप्स᳚ः ॥
▶ पदपाठः (Word-by-word)
अ॒भ्रा॒ता॑इ᳚व । पुं॒सः । ए॒ति॒ । प्र॒ती॒ची । ग॒र्त॒॑आ॒रुक्॑इ᳚व । स॒नये᳚ । धना᳚नाम् ।
जा॒या॑इ᳚व । पत्ये᳚ । उ॒श॒ती । सु॒॑वासाः᳚ । उ॒षाः । ह॒स्रा॑इ᳚व । नि । रि॒णी॒ते॒ । अप्सः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अभ्रातेवभ्रातृरहितेवपुंसः पित्रादीन् प्रतीचीस्वकीयरथानात्प्रतिनिवृत्तमुखीसतीएतिगच्छति यथालोकेभ्रातृरहितायोषित्स्वोचितवासोलङ्कारादिलाभायपितॄनेति सतिभ्रातरिसएवोचित- प्रदानादिनासम्यक् तोषयति तदभावात्पितरमेवप्राप्नोति यद्वा सतिस्व भ्रातरिसएवपितुः पिंड- दानादिकंसन्तानकृत्ंकरोति तस्याभावात्स्वयमेवतत्कर्तुंपित्रादीन् गच्छति तद्वदियमुषाअपिस्वो- चितप्रकाशादिलाभायस्वप्रकाशदानायवा पितृभूतंसूर्यमाभिमुख्येनगच्छति अयमेकोदृष्टान्तः तथा धनानांसनये गर्तारुगिव गर्तारोहिणीवेत्यपरोदृष्टान्तः गर्तइतिगृहनाम कृदरोगर्तइतितन्नामसुपाठा- त् अत्रौचित्येनराजपुरुषैः न्यायनिर्णेतृभिश्चाधिष्ठितंस्थानमुच्यते तदारोहतीतिगर्तारुक् यथा लो- केकाचिद्गतभर्तृकायोषिद्धनानांस्वकीयरिक्थानां सनयेलाभाय गर्तमागच्छति तांतुसभ्याविचा- र्ययदीयंरिक्थंलभतेचेदक्षैः सन्ताड्य तदीयंधनंवितरन्ति तथेयमपिधनानांप्रीणनसाधनानांप्रकाशा- नांसनये लाभाय गर्तमाकाशं सूर्यनिवासस्थानं आरोहति देशविशेषाचारमपेक्ष्यैवंदृष्टान्तितं किंच पत्येउशतीकामयमानासुवासादुकूलादिशोभनवसनास्वलंकृतापूर्वंरजोदर्शनसमये मलिनवस्त्रासती स्नानानन्तरंशोभनवस्त्राभरणैः शोभमानाविशेषेणपतिंभोगायकांक्षतीतेनसहसं क्रीडते तथेयमुषाः- अपिनैशेनान्धकारेणावृतत्वात् मलिनवसनापिप्रभाते स्वतेजसावृतत्वात् सुवसनासती पतिस्थानीये- नसूर्येणसाकंसंक्रीडमाना हस्रेवहसनेव अप्सः दन्तस्थानीयानिरूपाणि नीलपीतादीनि यद्वा निरूप्य- माणानिपदार्थजातानि निरिणीते नितरांरिणीते तथेयमपिसर्वाणि रूपाणिप्रकाशयतीत्यर्थः अयं- मन्त्रोनिरुक्तेस्पष्टंव्याख्यातः-अभ्रातृकेवपुंसः पितॄनेत्यभिमुखीसन्तानकर्मणेपिण्डदानायनपतिंग- र्तारोहिणीवधनलाभायदाक्षिणाजीगतः सभास्थाणुर्गृणातेः सत्यसंगरोभवतितंतत्रयापुत्रायापतिका- सारोहतितांतत्राक्षैराघ्नन्तिसारिक्थंलभतइति । जायेवपत्येकामयमानासुवासाऋतुकालेषूषाहस- नेवदन्तान्विवृणुतइति ॥ ७ ॥

1.124.8
स्वसा॒ स्वस्रे॒ ज्याय᳚स्यै॒ योनि᳚मारै॒गपै᳚त्यस्याः प्रति॒चक्ष्ये᳚व ।
व्यु॒च्छन्ती᳚ र॒श्मिभि॒ः सूर्य᳚स्या॒ञ्ज्य᳚ङ्क्ते समन॒गा इ᳚व॒ व्राः ॥
▶ पदपाठः (Word-by-word)
खसा᳚ । स्वस्रे᳚ । ज्याय᳚स्यै । योनि᳚म् । अ॒रै॒क् । अप᳚ । ए॒ति॒ । अ॒स्याः॒ । प्र॒ति॒चक्ष्य᳚॑इव ।
वि॒॑उ॒च्छन्ती᳚ । र॒श्मि॑भिः᳚ । सूर्य᳚स्य । अ॒ञ्जि । अ॒ङ्क्ते॒ । स॒म॒न॒गाः॑इ᳚व । व्राः ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्वसा भगिनीरूपारात्रिः स्वस्रेभगिन्यैउषसे कीदृश्यैज्यायस्यै यद्यपि एकस्मादेवान्तरिक्षादुत्प- न्नत्वात् परस्परंस्वसृभावः तथाप्यह्नः प्राथम्यात्तेजस्विन्याउषसोज्यायस्त्वं स्वयमेवसरतीति वा- स्वसारात्रिः स्वस्रेज्ययस्यै उक्तरीत्याज्येष्ठायै योनिंउत्पत्तिस्थानं अपररात्ररूपं आरैक् अरिचत् प्रादात् रेचयतीत्यर्थः तथाच पूर्वत्राम्नतं—रात्र्युषसेयोनिमारैगिति । दत्त्वाचअस्याउत्पन्नायाउषसः प्रतिचक्ष्येव ज्ञापयित्वैव स्वयमपसृत्यैतिगच्छति ज्यायस्यामागतायां तस्यैस्वस्थानं दत्त्वा स्वयं तत्सन्निधौस्थातुमनुचितमितिविज्ञायैवापगच्छतीतिभावः एवमुत्पन्नोषाः सूर्यस्यरश्मिभिर्व्युच्छन्ती तमोविवासयन्ती अंजिव्यंजकंजगत् अङ्के अनक्तिप्रकाशयति किमिव समनगाइव सम्यग्गमनहेतवः आपः समनाः ताः गच्छन्तीतिसमनगाः विद्युतः व्राः व्राताः विद्युत्संघाइव यद्वा सम्यग्गमनायगच्छ- न्तीतिसमनगाः सूर्यरश्मयः तेइवव्राः व्राताः संघीभूताः तेयथा अंजन्ते जगत्प्रकाशयन्ति तथेत्यर्थः व्रातइत्यत्रतकारलोपश्छान्दसः ॥ ८ ॥

1.124.9 समानपद
आ॒सां पूर्वा᳚सा॒मह᳚सु॒ स्वसॄ᳚णा॒मप᳚रा॒ पूर्वा᳚म॒भ्ये᳚ति प॒श्चात् ।
ताः प्र᳚त्न॒वन्नव्य᳚सीर्नू॒नम॒स्मे रे॒वदु᳚च्छन्तु सु॒दिना᳚ उ॒षासः᳚ ॥
▶ पदपाठः (Word-by-word)
आ॒साम् । पूर्वा᳚साम् । अह᳚॑सु । स्वसॄ᳚णाम् । अप᳚रा । पूर्वा᳚म् । अ॒भि । ए॒ति॒ । प॒श्चात् ।
ताः । प्र॒त्न॒॑वत् । नव्य᳚सीः । नू॒नम् । अ॒स्मे इति᳚ । रे॒वत् । उ॒च्छ॒न्तु॒ । सु॒॑दिनाः᳚ । उ॒षसः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्वसॄणांपरस्परंस्वसृभावमापन्नानां स्वयंसरन्तीनांवापूर्वासांपुरातनीनां आसामुषसांमध्ये अहसु अहःसु प्रतिदिनंअपराअन्या अद्यतन्युषाः पूर्वांअतीतदिवससंबन्धिनीमुषसंपश्चात् अनुसृत्यअभ्येति अभिमुखंगच्छति अव्यवधानेनगच्छतीत्यर्थः सर्वेष्वहः सुएवमेवाभ्येति नव्यसीः नवीयस्यः नवतरा- आगामिन्यः ताउषासः उषसोऽपिनूनंनिश्चयं प्रत्नवत् पुरातन्यइव सुदिनाः शोभनकर्मानुष्ठानसाधन- दिवसाः शोभनदिनमुखावासत्यः अस्मेअस्माकंरेवत् बहुधनविशिष्टंयथाभवतितथाउच्छन्तु प्रकाश- यन्तु पूर्वतन्योयथौच्छन् तथा आगामिन्योऽपिउच्छन्त्वित्यर्थः ॥ ९ ॥

1.124.10 समानपद
प्र बो᳚धयोषः पृण॒तो म᳚घो॒न्यबु᳚ध्यमानाः प॒णयः᳚ ससन्तु ।
रे॒वदु᳚च्छ म॒घव᳚द्भ्यो मघोनि रे॒वत्स्तो॒त्रे सू᳚नृते जा॒रय᳚न्ती ॥
▶ पदपाठः (Word-by-word)
प्र । बो॒ध॒य॒ । उ॒षः॒ । पृ॒ण॒तः । म॒घो॒नि॒ । अबु᳚ध्यमानाः । प॒णयः᳚ । स॒स॒न्तु॒ ।
रे॒वत् । उ॒च्छ॒ । म॒घव᳚त्॑भ्यः । म॒घो॒नि॒ । रे॒वत् । स्तो॒त्रे । सू॒नृ॒ते॒ । ज॒रय᳚न्ती ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमघोनि मघवति अस्मभ्यंदातव्यैर्बहुभिर्धनैस्तद्वति उषः हेउषोदेवि पृणतः हविः प्रदानस्मान्य- जमानान्प्रबोधयप्रज्ञापय प्रतिबुद्धान्कुरु किंच पण्यः व्ययासहिष्णवोवणिजः पणिर्वणिग्भवतीतिया- स्कः । पणयइतिलुब्धकाअबुद्भ्यमानाः यागादीनकुर्वाणाः अदानशीलाः अस्मच्छत्रवः ससन्तुस्वपन्तु दीर्घनिद्राभवन्तु म्रियन्तामित्यर्थः तथाचमन्त्रान्तरं—ससन्तुत्याअरातयोबोधन्तुशूररातयइति । किंच हेमघोनि अस्मद्दत्तहविर्भिस्तद्वति हेउषः मघवद्भ्यः हविर्लक्षणान्नवद्भ्योयजमानेभ्यः तेषामर्थं रेवत् धनवत् समृद्धिमत् उच्छविभाहि किंच हेसूनृते सुष्ठुमनुष्याणां नेत्रि देवि जरयन्तीसर्वप्राणिनः क्षपयन्तीत्वंस्तोत्रे स्तुतिकर्त्रेयजमानाय तदर्थंरेवद्धनवत् समृद्भ्यर्थंउच्छेतिशेषः ॥ १० ॥

1.124.11
अवे॒यम᳚श्वैद्युव॒तिः पु॒रस्ता᳚द्यु॒ङ्क्ते गवा᳚मरु॒णाना॒मनी᳚कम् ।
वि नू॒नमु᳚च्छा॒दस᳚ति॒ प्र के॒तुर्गृ॒हंगृ᳚ह॒मुप᳚ तिष्ठाते अ॒ग्निः ॥
▶ पदपाठः (Word-by-word)
अव᳚ । इ॒यम् । अ॒श्वै॒त् । यु॒व॒तिः । पु॒रस्ता᳚त् । यु॒ङ्क्ते । गवा᳚म् । अ॒रु॒णाना᳚म् । अनी᳚कम् ।
वि । नू॒नम् । उ॒च्छा॒त् । अस᳚ति । प्र । के॒तुः । गृ॒हम्॑गृ᳚हम् । उप᳚ । ति॒ष्ठा॒ते॒ । अ॒ग्निः ॥
▶ सायणभाष्यम् (Sayana Commentary)

इयमुषाः युवतिः यौवनोपेता योषित्स्थानीया यद्वा सर्वेषुभावेषुमिश्रयन्तीपुरस्तात्पूर्वस्यां दि- शिअवाश्वैत् अत्यर्थमागच्छति वर्धतेवा अत्रावशब्दोविनिग्रहार्थीयः न्यवेतिविनिग्रहार्थीयाविति- यास्केनोक्तत्वात् । तत्कथमवगम्यतइतितत्राह—इयंअरुणानां अरुणवर्णानांगवांप्रसिद्धानामेतन्ना- मकानामश्वानांवा अनीकंसमूहं युंक्तेरथेयोजयति अरुण्योगावउषसांश्यावाः सवितुरिति यथालोके- वाहनसन्नाहंदृष्ट्वा प्रयाणमनुमीयते तथात्राप्यरुणरश्मीनामश्वानांदर्शनादुषाआगच्छतीत्यध्यवसी- यते यद्वा अरुणानांरश्मीनां समूहंयुक्ते तथानूनं निश्चयं एषाव्युच्छात् तमोविवर्जयिष्यति यतइयंगा- युनक्ति अतएवकारणात् यथालोकेस्वसन्नाहंदृष्ट्वोदयोनुमीयते तथात्रापीत्यर्थः तादृशीसाअसति असत्प्रायेनीरूपेअन्तरिक्षेअतिरोधायकत्वादशोभनेतमसिवाकेतुः केतुस्थानीयाज्ञापयित्रीप्रकर्षेणवि- विधंभासतइतिशेषः उपसर्गवशाद्योग्यक्रियाध्याहारः यद्वा असति तमोरूपेन्धकारेप्रकेतुः प्रकर्षेणज्ञा- पयित्रीसतीनूनंव्युच्छादितिपूर्वत्रान्वयः तस्मिन्कालेअग्निः आहवनीयादिरूपोगृहंगृहं सर्वयजमानगृहं अग्निहोत्राद्यर्थमुपतिष्ठाते उपतिष्ठते दीप्यतइत्यर्थः ॥ ११ ॥

1.124.12
उत्ते॒ वय᳚श्चिद्वस॒तेर᳚पप्त॒न्नर᳚श्च॒ ये पि᳚तु॒भाजो॒ व्यु᳚ष्टौ ।
अ॒मा स॒ते व᳚हसि॒ भूरि᳚ वा॒ममुषो᳚ देवि दा॒शुषे॒ मर्त्या᳚य ॥
▶ पदपाठः (Word-by-word)
उत् । ते॒ । वयः᳚ । चि॒त् । व॒स॒तेः । अ॒प॒प्त॒न् । नरः᳚ । च॒ । ये । पि॒तु॒॑भाजः᳚ । वि॑उ᳚ष्टौ ।
अ॒मा । स॒ते । व॒ह॒सि॒ । भूरि᳚ । वा॒मम् । उषः᳚ । दे॒वि॒ । दा॒शुषे᳚ । मर्त्या᳚य ॥
▶ सायणभाष्यम् (Sayana Commentary)

तेतवव्युष्टौसत्यां वयश्चित् गमनवन्तःपक्षिणोऽपि चिदित्येषोऽपिशब्दार्थः निपातानामनेकार्थ- त्वात् उच्चावचेष्वर्थेषुनिपतन्तीतियास्केनोक्तत्वात् वसतोर्निवासस्थानान्नीडादेरुत् ऊर्ध्वं अपप्तन् पतन्ति पूर्ववाक्येगृहंगृहमुपतिष्ठातेअग्निरित्युक्तत्वात्तदपेक्षयापिशब्दः किंच नरश्चमनुष्याश्च पितु- भाजः अन्नवन्तः अन्नार्थिनः कृषिवाणिज्यादिकर्तारः स्वस्वव्यापारार्थमुत् उन्मुखाः अपप्तन् गच्छ- न्ति तथाचमन्त्रान्तरं—पद्वदीयतउत्पातयतिपक्षिणइति । एवंव्युष्टौसत्यां हेदेवि देवनशीलेउषो- देवते अमागृहे देवयजनाख्ये सते तिष्ठते यजमानायतदार्थं अमेतिगृहनाम अमादमइतितन्नामसुपठि- तत्वात् यद्वा अमासहहूयमानेनाग्निनासह निवसतेयजमानाय अमावसेतामित्यादौ सहार्थेप्रयोगात् मर्त्यायमनुष्यायदाशुषेहविर्दत्तवतेयजमानाय भूरिवामं बहुशोभनं धनं वहसिप्रापयसि ॥ १२ ॥

1.124.13
अस्तो᳚ढ्वं स्तोम्या॒ ब्रह्म᳚णा॒ मे॑वी᳚वृधध्वमुश॒तीरु᳚षासः ।
यु॒ष्माकं᳚ देवी॒रव᳚सा सनेम सह॒स्रिणं᳚ च श॒तिनं᳚ च॒ वाज᳚म् ॥
▶ पदपाठः (Word-by-word)
अस्तो᳚ढ्वम् । स्तो॒म्याः॒ । ब्रह्म᳚णा । मे॒ । अवी᳚वृधध्वम् । उ॒श॒तीः । उ॒ष॒सः॒ ।
यु॒ष्माक᳚म् । दे॒वीः॒ । अव᳚सा । स॒ने॒म॒ । स॒ह॒स्रिण᳚म् । च॒ । श॒तिन᳚म् । च॒ । वाज᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

एवंसूक्तद्वयोक्तरीत्याबहुधास्तुत्वा तांचस्तुतिं अनयानिवेदयित्वास्वाभीष्टंप्रार्थयते हेस्तोम्याः स्तोमस्तोत्रंतदर्हन्तीतिस्तोम्याः स्तुत्यर्हाः उषसः यतोयूयंतादृश्यः अतोमेमत्स्वभूतेन ब्रह्मणासूक्त- द्वयगतमन्त्ररूपेणस्तोत्रेणास्तोढ्वंस्तुताभवत किंच हेउषासः उषसः उशतीस्तोतॄनस्मान् अस्मत्स- मृद्धिंवा कामयमानायूयंअवीवृधध्वं अस्मान्प्रवर्धयत किंच हेदेवीः देव्योदेवनाशीलाः युष्माकंअवसा- युष्मत्संबन्धिनारक्षणेनवयं सहस्रिणं सहस्रसंख्याकं अभीष्टंधनंसनेमलभेमहि तथाशतिनंचवाजं शतसंख्याकं अपरिमितंधनं सनेम युष्मत्कृतेनशतसहस्रपरिमितधनादिरूपरक्षणेनवयमपि अर्थिभ्यः सहस्रपरिमितस्यधनस्यसनितारोभवेमेत्यर्थः ॥ १३ ॥

प्रातारत्नमितिसप्तर्चंपञ्चमंसूक्तंकाक्षीवतं दानस्यस्तूयमानत्वाद्दानदेवत्यं यातेनोच्यतेसादेवतेति- परिभाषितत्वात् त्रैष्टुभं उपइत्यादिकेद्वेजगत्यौ प्रातारत्नंसप्तस्वनयस्यदानस्तुतिरुपजगत्यावित्यनु- क्रमणिका ।