श्रवणम्

1.124.2
अमि᳚नती॒ दैव्या᳚नि व्र॒तानि᳚ प्रमिन॒ती म᳚नु॒ष्या᳚ यु॒गानि᳚ ।
ई॒युषी᳚णामुप॒मा शश्व᳚तीनामायती॒नां प्र᳚थ॒मोषा व्य᳚द्यौत् ॥
▶ पदपाठः (Word-by-word)
अमि᳚नती । दैव्या᳚नि । व्र॒तानि᳚ । प्र॒॑मि॒न॒ती । म॒नु॒ष्या᳚ । यु॒गानि᳚ ।
ई॒युषी᳚णाम् । उ॒प॒॑मा । शश्व᳚तीनाम् । आ॒॑य॒ती॒नाम् । प्र॒थ॒मा । उ॒षाः । वि । अ॒द्यौ॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

दैव्यानिव्रतानि देवसंबन्धीन्यग्निहोत्रादीनिकर्माणि व्रतमितिकर्मनाम व्रतंकर्वरमितितन्नामसु पा- ठात् तानिकर्माणिअमिनती अहिंसतीमानप्रदानेनानुकूलंकुर्वती तथा मनुष्याणां युगानियुगोपलक्षि- तान्निमेषादिकालावयवान् प्रमिनती प्रकर्षेणहिंसन्तीआयुः क्षपयन्तीत्यर्थः यद्वा युगानि युग्मानिपर- स्परसंयोगंप्रमिनतीहिंसन्तीवियोगंकुर्वतीत्यर्थः उषः कालेसर्वेयथायथंस्वस्वव्यापारायगच्छन्तीतिप्र- सिद्धं किंच ईयुषीणांगच्छन्तीनां अतीतानांशशतीनांनित्यानामुषसां उपमा ताभिः सदृशीत्यर्थः सादृश्यंच सदृशीरिदुश्वइत्यत्रोक्तम् । तथा आयतीनांप्रथमा आगामिनीनामुषसांप्रथमभाविनीसती- व्यद्यौत् विशेषेणप्रकाशते यद्वा ईयुषीणां गमनशीलानांपशादीनां शश्वतीनां संततिप्रवाहरूपेण नित्यानांउपमा तद्वन्नित्येत्यर्थः तथाआयतीनां रात्र्यवसानसमयेउत्पद्यमानानां प्रज्ञावागादीनांप्रथ- मभाविनीउषस्यागतायांवाचोबुद्धयश्चस्फुरन्तीतिप्रसिद्धम् तादृशीदेवीव्यद्यौत् प्राणिनामनुग्रहाय- द्योतते ॥ २ ॥