प्रथमं मण्डलम् - सूक्तम् 144

7 ऋचः

ऋषिः: दीर्घतमा औचथ्यः देवता: अग्निः छन्दः: जगती

सूक्तम् 1.144 - सम्पूर्णम्

1 / 7
ऋक्: 1.144.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
1.144.1 समानपद
एति॒ प्र होता᳚ व्र॒तम᳚स्य मा॒ययो॒र्ध्वां दधा᳚न॒ः शुचि᳚पेशसं॒ धिय᳚म् ।
अ॒भि स्रुचः᳚ क्रमते दक्षिणा॒वृतो॒ या अ᳚स्य॒ धाम᳚ प्रथ॒मं ह॒ निंस᳚ते ॥
▶ पदपाठः (Word-by-word)
एति᳚ । प्र । होता᳚ । व्र॒तम् । अ॒स्य॒ । मा॒यया᳚ । ऊ॒र्ध्वाम् । दधा᳚नः । शुचि᳚॑पेशसम् । धिय᳚म् ।
अ॒भि । स्रुचः᳚ । क्र॒म॒ते॒ । द॒क्षि॒णा॒॑आ॒वृतः᳚ । याः । अ॒स्य॒ । धाम᳚ । प्र॒थ॒मम् । ह॒ । निंस᳚ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं होता होमनिष्पाअदकोऽध्वर्युरस्याग्नेर्व्रतं हविःप्रदानादिरूपं कर्मकर्तुंमायया कर्तंव्यविशेषप्र- ज्ञयायुक्तःसन्प्रैति प्रकर्षेणगच्छतिहोतुं मायेतिप्रज्ञानाम मायावयुनमितितन्नामसुपाठात् कीदृशोऽयं ऊर्ध्वां उपर्यारूढां शुचिपेशसं शोभनरूपोपेतां पेशइतिरूपनाम धियं प्रज्ञांदधानः धारयमाणः आच- तुर्थात्कर्मणोभिसमीक्ष्येतेदंकरिष्यतीत्युक्तत्वात् आगत्यच दक्षिणावृतः प्रादक्षिण्येनवर्तमानाः स्रुचः जुह्वादीः क्रमतेगृह्णाति कीदृश्यःस्रुचःयाःप्रथमंपात्रासादनकालेअस्याग्नेर्धामस्थानं निंसते निंसचुंब- नेइतिधातुः चुंबन्तिभजन्तइत्यर्थः प्रथममनुष्ठेयक्रमं बुद्भ्याप्रैति पश्चात्सुचः क्रमतइत्यर्थः हशब्दः प्र- सिद्धौ यद्वा होतादेवानामाह्वातायमग्निः अस्ययजमानस्यव्रतंकर्मज्योतिष्टोमादिप्रज्ञाविशेषेणयुक्तः सन् एति यज्ञदेशंप्रत्यागच्छति कीदृशोऽयंऊर्ध्वां ऊर्ध्ववर्तिशुचिपेशसं शोभनरूपोपेतांधियंज्वाला- चलनादिरूपंकर्मदधानोधारयमाणः आगत्यच दक्षिणावृतः उक्तलक्षणाःस्रुचः घृतपूर्णाः जुहूपभृदा- दिकाः अभिक्रमतेआक्रमते घृतंस्वीकर्तुंज्वालाः प्रसर्षन्तीत्यर्थः याः स्रुचः प्रथमं पूर्वंहविरासादनकाले अस्याग्नेर्धामस्थानं वेदिलक्षणंतिंसते चुंबन्तिप्राप्ताः हशब्दःप्रसिद्धौ णिसिचुंबने अदादित्वाच्छपोलुक् इदित्त्वान्नुम् ॥ १ ॥

1.144.2
अ॒भीमृ॒तस्य᳚ दो॒हना᳚ अनूषत॒ योनौ᳚ दे॒वस्य॒ सद᳚ने॒ परी᳚वृताः ।
अ॒पामु॒पस्थे॒ विभृ᳚तो॒ यदाव᳚स॒दध᳚ स्व॒धा अ᳚धय॒द्याभि॒रीय᳚ते ॥
▶ पदपाठः (Word-by-word)
अ॒भि । ई॒म् । ऋ॒तस्य᳚ । दो॒हनाः᳚ । अ॒नू॒ष॒त॒ । योनौ᳚ । दे॒वस्य᳚ । सद᳚ने । परि᳚॑वृताः ।
अ॒पाम् । उ॒प॑स्थे᳚ । वि॑भृ᳚तः । यत् । आ । अव᳚सत् । अध᳚ । स्व॒धाः । अ॒ध॒य॒त् । याभिः᳚ । ईय᳚ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋतस्योदकस्यदोहनाः धारायोनौउत्पत्तिस्थाने देवस्यसदने द्योतमानस्यादित्यस्यस्थाने परीवृ- ताः तद्रश्मिभिः परितोव्याप्ताःसत्यः ईमेनमग्निंअभ्यनूषत अभिनवाभवन्ति आभवन्त्येवस्तूयन्तेवा कदेत्यतआह—यत् यदाअपामुपस्थे उदकानामुत्सङ्गेअन्तः विभवः विशेशेण ताभिर्धार्यमाणःसन् आवसत् आक्रम्यनिवसति अयमग्निः तदानीमित्यर्थः अधअधुनास्वधाः अमृतोपमाः अपः अधयत् पिबति सर्वोलोकः ताविशेष्यन्ते याभिः सहईयते अयमग्निः संगच्छतेवाभूमिंताअधयत् विद्युदात्म- नाउदकानि जगत्पाययतइत्यग्नेः स्तुतिः ॥ २ ॥

1.144.3
युयू᳚षत॒ः सव᳚यसा॒ तदिद्वपु᳚ः समा॒नमर्थं᳚ वि॒तरि᳚त्रता मि॒थः ।
आदीं॒ भगो॒ न हव्य॒ः सम॒स्मदा वोळ्हु॒र्न र॒श्मीन्त्सम᳚यंस्त॒ सार᳚थिः ॥
▶ पदपाठः (Word-by-word)
युयू᳚षतः । स॑व᳚यसा । तत् । इत् । वपुः᳚ । स॒मा॒नम् । अर्थ᳚म् । वि॒॑तरि᳚त्रता । मि॒थः ।
आत् । ई॒म् । भगः᳚ । न । हव्यः᳚ । सम् । अ॒स्मत् । आ । वोळ्हुः᳚ । न । र॒श्मीन् । सम् । अ॒यं॒स्त॒ । सार᳚थिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सवयसासमानवयस्कौ वयःशब्देनसामर्थ्यंलक्ष्यते समानसामर्थ्यौ तदित् तदानीमेव यदाप्रवृद्धो- भवति तदानीमेव समानमर्थं समानप्रयोजननिष्पत्तिं मिथः प्रत्येकंवितरित्रताभृशं तरन्तौहोत्रध्वर्यू वपुः अग्नेःशरीरं युयूषतः स्वस्वव्यापारेणमिश्रयितुमिच्छतः प्रैषानन्तरंयाज्यादिपाठोहोतुर्व्यापारः वषट्कारानंतरंहोमोध्वर्योरितिविभागः अत्रेदमनुसंधेयं—सवयसा समानवयस्कौ मिथः प्रत्येकंसमा- नंप्रयोजनं सुखप्राप्तिंवितरित्रता विशेषेणतरितुमिच्छन्तौ तरतेर्यङ्लुगन्ताच्छतरिदाधर्त्यादौनिपात्य- ते द्विवचनस्याकारः जायापतीतद्वपुः तदेवपरस्परंशरीरं युयूषतः मिश्रयितुमिच्छतः परस्परमालि- ङ्गतः तद्वदग्निंसाकं होत्रध्वर्यूयुयूषतः आदींअनन्तरमेवहव्यः आहवनीयोऽग्निः सारथिः सरणशीलः सारथिवद्यज्ञात्मकस्यरथस्यनिर्वाहकोवा सन् अस्मत् अस्माकंसंबन्धिनोरश्मीन् रश्मिवदायताघृत- धाराः आसर्वतः समयंस्त सम्यक् स्वीकरोति तत्रदृष्टान्तद्वयमुच्यते—भगोन सर्वैःसेवनीयआदित्यइव सयथा सर्वतः पूजामादत्ते तद्वत् सारथिः रत्र्हस्ययन्ता वोढुर्वाहकस्याश्वादेः रश्मीन्न प्रग्रहानिव ता- न्यथास्वीकरोति तद्वदयमग्निरपि हवींषिसमयंस्त ॥ ३ ॥

1.144.4
यमीं॒ द्वा सव᳚यसा सप॒र्यतः᳚ समा॒ने योना᳚ मिथु॒ना समो᳚कसा ।
दिवा॒ न नक्तं᳚ पलि॒तो युवा᳚जनि पु॒रू चर᳚न्न॒जरो॒ मानु᳚षा यु॒गा ॥
▶ पदपाठः (Word-by-word)
यम् । ई॒म् । द्वा । स॑व᳚यसा । स॒प॒र्यतः᳚ । स॒मा॒ने । योना᳚ । मि॒थु॒ना । सम्॑ओ᳚कसा ।
दिवा᳚ । न । नक्त᳚म् । प॒लि॒तः । युवा᳚ । अ॒ज॒नि॒ । पु॒रु । चर᳚न् । अ॒जरः᳚ । मानु᳚षा । यु॒गा ॥
▶ सायणभाष्यम् (Sayana Commentary)

यंईएनमग्निं द्वा द्वौ सवयसा समानवयस्कौ समानसामर्थ्यौ वा समानेयोना योनौ फलस्योत्पत्ति- स्थाने यज्ञे वर्तमानौ मिथुनादंपतीइव एककार्योद्युक्तौ समोकसा समाननिवासौ देवयजदस्थानौ ईदृ- शौ होत्रध्वर्यू सपर्यतःपूजयतः स्तुत्याहविःप्रदानेनचप्रीणयतः कदेत्याहदिवान अहनीव नक्तंरात्राव- पि सर्वदेत्यर्थः एवंपूज्यमानोऽग्निः पलितः पूर्वमंगारावस्थायांजीर्णोऽपि समिन्धनानन्तरं युवातरुणः तेजसासर्वस्य मिश्रयितावा अजनि जायते एवंजातोयं मानुषा युगा मनोःसंबन्धीनियुगानि जायाप- तिरूपाणि होत्रध्वर्युरूपाणिवोद्दिश्य पुरूचरन् बह्वाज्यादिकंभक्षयन् अजरः अजीर्णः जरारहितोव- र्तते ॥ ४ ॥

1.144.5 समानपद
तमीं᳚ हिन्वन्ति धी॒तयो॒ दश॒ व्रिशो᳚ दे॒वं मर्ता᳚स ऊ॒तये᳚ हवामहे ।
धनो॒रधि᳚ प्र॒वत॒ आ स ऋ᳚ण्वत्यभि॒व्रज᳚द्भिर्व॒युना॒ नवा᳚धित ॥
▶ पदपाठः (Word-by-word)
तम् । ई॒म् । हि॒न्व॒न्ति॒ । धी॒तयः᳚ । दश᳚ । व्रिशः᳚ । दे॒वम् । मर्ता᳚सः । ऊ॒तये᳚ । ह॒वा॒म॒हे॒ ।
धनोः᳚ । अधि᳚ । प्र॒॑वतः᳚ । आ । सः । ऋ॒ण्व॒ति॒ । अ॒भि॒व्रज᳚त्॑भिः । व॒युना᳚ । नवा᳚ । अ॒धि॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवं द्योतमानं तमीमेनमग्निं दशधीतयः दशसंख्याकाअंगुलयः व्रिशः विशः परस्परविश्लिष्टाः हि- न्वन्ति प्रीणयन्तिमथनकाले तथामर्तासोमनुष्यावयं यजमानाः ऊतयेरक्षणाय हवामहे आह्वयामः कोऽस्यविशेषइतिउच्यते अयमग्निः धनोर्धनुषःसकाशात् प्रवतः आ प्रकर्षेणगच्छतोवाणानिव तान्य- थाशत्रोरुपरिमुंचंति आइत्युपमार्थे तद्वत् सोऽग्निःधनुःस्थानीयान्निजशरीरसकाशात् प्रवतः प्रकृष्टवेग- वतोरश्मीन् ऋण्वति गमयति रिविर्गत्यर्थः अत्रान्तर्भावितण्यर्थोयं इदित्त्वान्नुम् छान्दसंरेफस्यसंप्र- सारणं अधिशब्दोनर्थकोधात्वर्थमामात्रानुवादी किंच एवंप्रवृद्धोऽग्निः अभिव्रजद्भिरनुष्ठानार्थं अभितः संचरद्भिः ज्ञेयमर्थमभिगच्छद्भिर्वा तदर्थंनवानवानि नूतनानि वयुना वयुनानि प्रज्ञानानि अनुष्ठान- विषयाणि अधितधारयति ज्ञापयतीत्यर्थः यद्वा अधिव्रजद्भिः आभिमुख्येनगच्छद्भिः होत्रादिभिः क्रियमाणानि नवा नवानि वयुनानि प्रज्ञाविशिष्टानिस्तोत्रादीनि अधित धत्ते धाञश्छान्दसेलुङि- स्थाघ्वोरिच्चेतीत्वं उत्तरस्यसिचः कित्त्वं ह्रस्वादंगादितिसलोपः ॥ ५ ॥

1.144.6 समानपद
त्वं ह्य᳚ग्ने दि॒व्यस्य॒ राज᳚सि॒ त्वं पार्थि᳚वस्य पशु॒पा इ᳚व॒ त्मना᳚ ।
एनी᳚ त ए॒ते बृ᳚ह॒ती अ᳚भि॒श्रिया᳚ हिर॒ण्ययी॒ वक्व᳚री ब॒र्हिरा᳚शाते ॥
▶ पदपाठः (Word-by-word)
त्वम् । हि । अ॒ग्ने॒ । दि॒व्यस्य᳚ । राज᳚सि । त्वम् । पार्थि᳚वस्य । प॒शु॒पाः॑इ᳚व । त्मना᳚ ।
एनी॒ इति᳚ । ते॒ । ए॒ते इति᳚ । बृ॒ह॒ती इति᳚ । अ॒भि॒॑श्रिया᳚ । हि॒र॒ण्ययी॒ इति᳚ । वक्व᳚री॒ इति᳚ । ब॒र्हिः । आ॒शा॒ते॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने त्वंदिव्यस्यदिविभवस्य देवादेर्विद्युदात्मना वृष्ट्यादेर्वाराजसिईशिषे ऎशर्यनामैतत् तथा- पार्थिवस्यपृथिवीसंबन्धिनः मनुष्यादेः राजसि ईश्वरोभवसि किमन्यतंत्रत्वेननेत्याह—त्मनाआत्मनै- व स्वसामर्थ्येनैव तत्रदृष्टान्तः—पशुपाइव पशुपालकोयथास्वसामर्थ्येनैव पशूनांनिरोधनिर्गमनादि- व्यापारेषुसमर्थोभवति तद्वत् एतदॄष्टान्तेनअत्यन्तस्वातत्र्यमुक्तंभवति किंच यस्मादेवं तस्मात्ते तवब- र्हिर्यज्ञं एतेप्रसिद्धेएनी एतवर्णेशुभ्रे द्यावापृथिव्यौ आशाते अश्नुवातेव्याप्नुतः वर्णानुदात्तादितिङिप् तकारस्यनः कीदृश्यौते बृहती महत्यौअतिविस्तृते अभिश्रियाप्राप्तैश्वर्येअभितः सर्वतोवा हिरण्ययी हितरमणीये वक्वरीअतिकुशलंशब्दयन्त्यौ वचेर्वनिपि वनोरचेतिङीब्रेफौ छान्दसंकुत्वं वकिकौटित्न्ये- इत्यस्माच्छान्दसोनुमभावः ईदृश्यौ द्यावापृथिव्यौबर्हिरश्नुवाते ॥ ६ ॥

1.144.7
अग्ने᳚ जु॒षस्व॒ प्रति᳚ हर्य॒ तद्वचो॒ मन्द्र॒ स्वधा᳚व॒ ऋत᳚जात॒ सुक्र᳚तो ।
यो वि॒श्वतः᳚ प्र॒त्यङ्ङसि᳚ दर्श॒तो र॒ण्वः संदृ᳚ष्टौ पितु॒मा{4} इ᳚व॒ क्षयः᳚ ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । जु॒षस्व᳚ । प्रति᳚ । ह॒र्य॒ । तत् । वचः᳚ । मन्द्र᳚ । स्वधा᳚॑वः । ऋत᳚॑जात । सुक्र᳚तो॒ इति॒ सु॑क्र᳚तो ।
यः । वि॒श्वतः᳚ । प्र॒त्यङ् । असि᳚ । द॒र्श॒तः । र॒ण्वः । सम्॑दृ᳚ष्टौ । पि॒तु॒मान्॑इ᳚व । क्षयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने जुषस्व सेवस्वहविः प्रीतोभववास्तुत्या किंच तत्तादृशंप्रियकरंवचः वाग्रूपंस्तोत्रं प्रतिहर्य- पुनः कामयस्व हेमन्द्र मादनशील स्तुत्यवा हेस्वधावः हविर्लक्षणान्नवन् हेऋतजात यज्ञार्थमुत्पन्न हे- सुक्रतो शोभनकुर्मन् शोभनप्रज्ञवा यईदृशस्त्वं विश्वतः सर्वस्य स्थावरजंगमस्य जगतः प्रत्यङ्ङसि अभिमतःअनुकूलोसि नपराङ्मुखइत्यर्थः तथादर्शतः दर्शनीयः सर्वैः किंच संदृ ष्टौसम्यग्दर्शने रण्वः रमणशीलः रमयितावाभवसिसर्वस्य यद्वा तवसंदृष्टौसत्यांसर्वोजनः क्षयोनिवासवान् भवति तत्रदृ- ष्टान्तः—पितुमानिवअतिप्रभूतान्नस्वामी यथासर्वैर्वस्तव्योगन्तव्यश्च भवति तद्वत् ॥ ७ ॥

तंपृच्छतेतिपंचर्चंपंचमंसूक्तम् अत्रानुक्रमणिका—तंपृच्छतपंचांत्यात्रिष्टुबिति दीर्घतमाऋषिः पूर्वत्राग्नेयंतुतदित्युक्तत्वादिदमप्याग्नेयं अन्त्यात्रिष्टुप् शिष्टास्त्रिष्टुवन्तपरिभाषयाजगत्यः प्रातरनुवा- काश्विनशस्त्रयोरस्यविनियोगउक्तः ।