श्रवणम्

1.144.5 समानपद
तमीं᳚ हिन्वन्ति धी॒तयो॒ दश॒ व्रिशो᳚ दे॒वं मर्ता᳚स ऊ॒तये᳚ हवामहे ।
धनो॒रधि᳚ प्र॒वत॒ आ स ऋ᳚ण्वत्यभि॒व्रज᳚द्भिर्व॒युना॒ नवा᳚धित ॥
▶ पदपाठः (Word-by-word)
तम् । ई॒म् । हि॒न्व॒न्ति॒ । धी॒तयः᳚ । दश᳚ । व्रिशः᳚ । दे॒वम् । मर्ता᳚सः । ऊ॒तये᳚ । ह॒वा॒म॒हे॒ ।
धनोः᳚ । अधि᳚ । प्र॒॑वतः᳚ । आ । सः । ऋ॒ण्व॒ति॒ । अ॒भि॒व्रज᳚त्॑भिः । व॒युना᳚ । नवा᳚ । अ॒धि॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवं द्योतमानं तमीमेनमग्निं दशधीतयः दशसंख्याकाअंगुलयः व्रिशः विशः परस्परविश्लिष्टाः हि- न्वन्ति प्रीणयन्तिमथनकाले तथामर्तासोमनुष्यावयं यजमानाः ऊतयेरक्षणाय हवामहे आह्वयामः कोऽस्यविशेषइतिउच्यते अयमग्निः धनोर्धनुषःसकाशात् प्रवतः आ प्रकर्षेणगच्छतोवाणानिव तान्य- थाशत्रोरुपरिमुंचंति आइत्युपमार्थे तद्वत् सोऽग्निःधनुःस्थानीयान्निजशरीरसकाशात् प्रवतः प्रकृष्टवेग- वतोरश्मीन् ऋण्वति गमयति रिविर्गत्यर्थः अत्रान्तर्भावितण्यर्थोयं इदित्त्वान्नुम् छान्दसंरेफस्यसंप्र- सारणं अधिशब्दोनर्थकोधात्वर्थमामात्रानुवादी किंच एवंप्रवृद्धोऽग्निः अभिव्रजद्भिरनुष्ठानार्थं अभितः संचरद्भिः ज्ञेयमर्थमभिगच्छद्भिर्वा तदर्थंनवानवानि नूतनानि वयुना वयुनानि प्रज्ञानानि अनुष्ठान- विषयाणि अधितधारयति ज्ञापयतीत्यर्थः यद्वा अधिव्रजद्भिः आभिमुख्येनगच्छद्भिः होत्रादिभिः क्रियमाणानि नवा नवानि वयुनानि प्रज्ञाविशिष्टानिस्तोत्रादीनि अधित धत्ते धाञश्छान्दसेलुङि- स्थाघ्वोरिच्चेतीत्वं उत्तरस्यसिचः कित्त्वं ह्रस्वादंगादितिसलोपः ॥ ५ ॥