प्रथमं मण्डलम् - सूक्तम् 166

15 ऋचः

ऋषिः: अगस्त्यो मैत्रावरुणिः देवता: मरुतः छन्दः: जगती

सूक्तम् 1.166 - सम्पूर्णम्

1 / 15
ऋक्: 1.166.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (15)
1.166.1
तन्नु वो᳚चाम रभ॒साय॒ जन्म᳚ने॒ पूर्वं᳚ महि॒त्वं वृ᳚ष॒भस्य᳚ के॒तवे᳚ ।
ऐ॒धेव॒ याम᳚न्मरुतस्तुविष्वणो यु॒धेव᳚ शक्रास्तवि॒षाणि᳚ कर्तन ॥
▶ पदपाठः (Word-by-word)
तत् । नु । वो॒चा॒म॒ । र॒भ॒साय᳚ । जन्म᳚ने । पूर्व᳚म् । म॒हि॒॑त्वम् । वृ॒ष॒भस्य᳚ । के॒तवे᳚ ।
ऐ॒धा॑इ᳚व । याम᳚न् । म॒रु॒तः॒ । तु॒वि॒॑स्व॒नः॒ । यु॒धा॑इ᳚व । श॒क्राः॒ । त॒वि॒षाणि᳚ । क॒र्त॒न॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्यनिःश्वसितंवेदायोवेदेभ्योखिलंजगत् । निर्ममेतमहंवन्देविद्यातीर्थमहेश्वरम् ॥ १ ॥

इत्थंद्वितीयाष्टकगस्तृतीयोध्यायआदरात् । व्याख्यातःसायणार्येणपुरुषार्थप्रदर्शकः ॥ २ ॥

अथद्चतुर्थोध्यायआरभ्यते—कयाशुभेत्यस्मिंस्त्रयोविंशेनुवाकेपञ्चदशसूक्तानि तत्रतन्न्वित्येतत् द्वितीयंसूक्तंपञ्चदशर्चं अत्रानुक्रमणिका—तन्न्वगस्त्योमारुतंहिद्वित्रिष्टुबन्तं मित्रावरुणयोर्दीक्षितयोरु- र्वशीमप्सरसंदृष्ट्वावासतीवरेकुम्भेरेतोपतत्ततोगस्त्यवसिष्ठावजायेतामिति । सूक्तसंख्यानुवर्ततआ- न्यस्याःसूक्तसंख्यायाः इतिपरिभाषितत्वात्पञ्चदशर्चं उक्तलक्षणेनागस्त्येनदृष्टत्वात्तस्यार्षं मारुतं- हीत्युक्तत्वात् तुह्यादिपरिभाषयेदमादिसूक्तत्रयंमरुद्देवताकं अन्त्येद्वेत्रिष्ट्रभौ शिष्टास्त्रिष्टुबन्तपरिभा- षयाजगत्यः विनियोगोलैङ्गिकः ।

हेमरुतः वयंयुष्मदीयंतत्तादृशंप्रसिद्धंपूर्वंपूरकंपूर्वतनंवा महित्वंमाहात्म्यंनुक्षिप्रंवोचाम ब्रूमः कि- मर्थं रभसायराभस्ययुक्ताय जन्मनेवेद्यांप्रादुर्भावाय वेद्यांसन्निधानायेत्यर्थः तदपिकिमर्थमित्यतआह- वृषभस्यफलस्यवर्षितुर्यज्ञस्यकेतवेप्रज्ञानाय वायुप्रेरणेनमेघागमनंप्रसिद्धंहे तुविस्वनः गमनसंरंभेण- प्रभूतध्वनियुक्ताः हेशक्राः सर्वमपिकर्तुंशक्ताः यूयं यामन् यामनियागगमनेप्रस्तुतेसतिऎधेव ऎधानि एधः संबन्धीनितेजांसीव प्राप्येनमहत्त्वेनतविषाणिबलानिसामर्थ्यानिकर्तन कुरु तत् स्तुमइत्यर्थः तत्रदृष्टान्तः—युधेव युद्धेनतत्तद्युद्धनिमित्तंयथातविषाणिकुरुथतद्वत् ॥ १ ॥

1.166.2
नित्यं॒ न सू॒नुं मधु॒ बिभ्र᳚त॒ उप॒ क्रीळ᳚न्ति क्री॒ळा वि॒दथे᳚षु॒ घृष्व᳚यः ।
नक्ष᳚न्ति रु॒द्रा अव᳚सा नम॒स्विनं॒ न म᳚र्धन्ति॒ स्वत᳚वसो हवि॒ष्कृत᳚म् ॥
▶ पदपाठः (Word-by-word)
नित्य᳚म् । न । सू॒नुम् । मधु᳚ । बिभ्र᳚तः । उप᳚ । क्रीळ᳚न्ति । क्री॒ळाः । वि॒दथे᳚षु । घृष्व᳚यः ।
नक्ष᳚न्ति । रु॒द्राः । अव᳚सा । न॒म॒स्विन᳚म् । न । म॒र्ध॒न्ति॒ । स्व॑त᳚वसः । ह॒विः॒॑कृत᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

नित्यंनसूनुं औरसंप्रियंपुत्रमिव मधुमधुरंहविर्बिभ्रतः धारयंतोमरुतः विदथेषुयागेषु घृष्वयः रक्षः प्रभृतीनांघर्षकाःसन्तः क्रीळाः क्रीडनशीलाः उपउपेत्यक्रीळन्ति विहरन्ति किञ्च रुद्राः रुद्रपुत्राः मरु- तोपिरुद्राउच्यन्ते जन्यजनकयोरभेदात् मरुतांरुद्रपुत्रत्वंपुराणेषु तपसातुष्टौपार्वतीपरमेश्वरौ मरुतः पुत्रत्वेनस्वीचक्रतुरितिप्रसिद्धम् नमस्विनंनमस्कारोपलक्षितस्तोत्रोपेतं हविष्कृतं हविषःकर्तारं प्रदा- तारंयजमानं अवसारक्षणेनतर्पणेनवानिमित्तभूतेननक्षन्तिव्याप्नुवन्ति किञ्च स्वतवसः स्वायत्तबला- मरुतः यजमानंनमर्धन्ति नमङ्ग्रामयन्ति नक्लेशयन्तीत्यर्थः ॥ २ ॥

1.166.3
यस्मा॒ ऊमा᳚सो अ॒मृता॒ अरा᳚सत रा॒यस्पोषं᳚ च ह॒विषा᳚ ददा॒शुषे᳚ ।
उ॒क्षन्त्य᳚स्मै म॒रुतो᳚ हि॒ता इ᳚व पु॒रू रजां᳚सि॒ पय᳚सा मयो॒भुवः᳚ ॥
▶ पदपाठः (Word-by-word)
यस्मै᳚ । ऊमा᳚सः । अ॒मृताः᳚ । अरा᳚सत । रा॒यः । पोष᳚म् । च॒ । ह॒विषा᳚ । द॒दा॒शुषे᳚ ।
उ॒क्षन्ति᳚ । अ॒स्मै॒ । म॒रुतः᳚ । हि॒ताः॑इ᳚व । पु॒रु । रजां᳚सि । पय᳚सा । म॒यः॒॑भुवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्मैयजमानायहविषाददाशुषे सोमादिहविर्दत्तवतेहविषाप्रीतः ऊमासः अवितारः अमृताःअम- रणधर्माणोमरुतोरायस्पोषंधनस्यपुष्टिं चशब्दात् पश्वादिपुष्टिंअरासत प्रायच्छन् रासतिर्दानार्थः अस्मैयजमानायहिताइवहिताचरणाः सखायइवसन्तोमयोभुवः सुखस्यभावयितारोमरुतोरजांसि- लोकान् पुरुप्रभूतंयथाभवतितथा पयसाउदकेनसस्याद्युत्पत्त्यर्थंउक्षन्ति सिञ्चन्ति ॥ ३ ॥

1.166.4
आ ये रजां᳚सि॒ तवि᳚षीभि॒रव्य᳚त॒ प्र व॒ एवा᳚स॒ः स्वय᳚तासो अध्रजन् ।
भय᳚न्ते॒ विश्वा॒ भुव᳚नानि ह॒र्म्या चि॒त्रो वो॒ याम॒ः प्रय᳚तास्वृ॒ष्टिषु᳚ ॥
▶ पदपाठः (Word-by-word)
आ । ये । रजां᳚सि । तवि᳚षीभिः । अव्य᳚त । प्र । वः॒ । एवा᳚सः । स्व॑य᳚तासः । अ॒ध्र॒ज॒न् ।
भय᳚न्ते । विश्वा᳚ । भुव᳚नानि । ह॒र्म्या । चि॒त्रः । वः॒ । यामः᳚ । प्र॑य᳚तासु । ऋ॒ष्टिषु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतःयुष्मत्संबन्धिनः येएवासः एवाअश्वविशेषाः तविषीभिः स्वकीयैर्बलैः वृष्टिप्रदानादिरूपैः रजांसिलोकान् आअव्यत सर्वतः आवृण्वन्ति ते वोयुष्माकं एवासोश्वाः स्वयतासः स्वयमेवसारथि- नाविनैवयुक्ताः प्राध्रजन् प्रकर्षेणागच्छन्तिव्याप्नुवन्ति किञ्च युष्मदागमनात् विश्वाभुवनानिसर्वाणि- भूतजातानि विश्वाहर्म्यासर्वाणिहर्म्याणिचभयन्तेबिभ्यतिपतनात् यस्मादेवं तस्माद्वोयामः चित्रश्चा- यनीयः आश्चर्यभूतइत्यर्थः भीतेःकारणमाह—ऋष्टिषुयुद्धस्थासुहेतिषु प्रयतासुप्रकर्षेणोद्यतासुसतीषु अथवानीतौदृष्टान्तः—ऋष्टिषुप्रयतासुसतीषु लोप्तोपमेयं आयुधेषूद्यतेषुयथाजनाबिभ्यतितद्वत् युष्म- दागमनात् बिभ्यतीत्यर्थः ॥ ४ ॥

1.166.5 समानपद
यत्त्वे॒षया᳚मा न॒दय᳚न्त॒ पर्व᳚तान्दि॒वो वा᳚ पृ॒ष्ठं नर्या॒ अचु᳚च्यवुः ।
विश्वो᳚ वो॒ अज्म᳚न्भयते॒ वन॒स्पती᳚ रथी॒यन्ती᳚व॒ प्र जि᳚हीत॒ ओष᳚धिः ॥
▶ पदपाठः (Word-by-word)
यत् । त्वे॒ष॑या᳚माः । न॒दय᳚न्त । पर्व᳚तान् । दि॒वः । वा॒ । पृ॒ष्ठम् । नर्याः᳚ । अचु᳚च्यवुः ।
विश्वः᳚ । वः॒ । अज्म᳚न् । भ॒य॒ते॒ । वन॒स्पतिः᳚ । र॒थि॒यन्ती᳚॑इव । प्र । जि॒ही॒ते॒ । ओष᳚धिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मरुतः त्वेषयामाः प्रदीप्तगमनाः यत् यदापर्वतान् पर्ववतोगिरेर्गह्वराणि पूरकान् मेघान्वा नद- यन्तनादयन्तिवा अथवा दिवोविद्योतनात्मकस्यान्तरिक्षस्यपृष्ठं उपरिभागंनर्यानरेभ्योहिताः अचु- च्यवुः गच्छन्ति तथावोयुष्मत्संबन्धिनि अज्मन् गमनेनिमित्तभूतेसति विश्वोवनस्पतिः वनस्यपाल- यितावृक्षसमूहोभय्तेबिभेति तथौषधिः प्रियङुव्रीह्यादिः प्रजिहीते प्रकर्षेण गच्छतिस्व्स्थानात् इत- स्ततश्चलतीत्यर्थः तत्रदृष्टन्तः—रथीयन्तीव रथमात्मनः इच्छ्न्तीस्त्रीरथारूढेत्यर्थः तादृशीस्त्रीव सा- यथाचलतितद्वत् ॥ ५ ॥

1.166.6
यू॒यं न᳚ उग्रा मरुतः सुचे॒तुनारि᳚ष्टग्रामाः सुम॒तिं पि᳚पर्तन ।
यत्रा᳚ वो दि॒द्युद्रद᳚ति॒ क्रिवि᳚र्दती रि॒णाति᳚ प॒श्वः सुधि᳚तेव ब॒र्हणा᳚ ॥
▶ पदपाठः (Word-by-word)
यू॒यम् । नः॒ । उ॒ग्राः॒ । म॒रु॒तः॒ । सु॒॑चे॒तुना᳚ । अरि᳚ष्ट॑ग्रामाः । सु॒॑म॒तिम् । पि॒प॒र्त॒न॒ ।
यत्र᳚ । वः॒ । दि॒द्युत् । रद᳚ति । क्रिविः᳚॑दती । रि॒णाति᳚ । प॒श्वः । सुधि᳚ता॑इव । ब॒र्हणा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेउग्राः उद्गूर्णबलामरुतोयूयं सुचेतुनाशोभनचेतसा अरिष्टग्रामाः अहिंसितसंघाः सन्तोनोस्माकं सुमतिंशोभनांबुद्धिं पिपर्तनपूरयत कस्मिन् कालेइतितदुच्यते—यत्रयस्मिन्कालेवोयुष्मत्सबन्धिनी- क्रिविर्दतीविक्षेपणशीलद्न्तीदिद्युत् हेतिः रदति विलिखति मेघसंस्त्यायंपश्वःपशूंश्च रिणातिरेषति- हिनस्ति वायौवातिसतिपशवः शीर्यन्तइतिप्रसिद्धम् हिंसायांदृष्टान्तः—सुधिताइव सुहितासुष्ठुप्रेरि- ताबर्हणा हतिस्तत्साधनाहेतिर्वायथारिणातितद्वत् ॥ ६ ॥

1.166.7
प्र स्क॒म्भदे᳚ष्णा अनव॒भ्ररा᳚धसो॑लातृ॒णासो᳚ वि॒दथे᳚षु॒ सुष्टु᳚ताः ।
अर्च᳚न्त्य॒र्कं म᳚दि॒रस्य᳚ पी॒तये᳚ वि॒दुर्वी॒रस्य᳚ प्रथ॒मानि॒ पौंस्या᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । स्क॒म्भ॑दे᳚ष्णाः । अ॒न॒व॒भ्र॑रा᳚धसः । अ॒ला॒तृ॒णासः᳚ । वि॒दथे᳚षु । सु॑स्तु᳚ताः ।
अर्च᳚न्ति । अ॒र्कम् । म॒दि॒रस्य᳚ । पी॒तये᳚ । वि॒दुः । वी॒रस्य᳚ । प्र॒थ॒मानि᳚ । पौंस्या᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रस्कंभदेष्णाः प्रकर्षेणस्तंभितदानाः अविरतदानाइत्यर्थः अनवभ्रराधसः अभ्रष्टहविरादिधनाः राधइतिधननाम अलातृणासः नकारस्यस्थानेलकारः अनातृणासः आतर्दनरहिताः अथवा अलं पर्या- प्तं आतर्दनाः शत्रूणां यद्वा अलमत्यर्थं दातारः फलानां सुष्टुताः ऋत्विग्भिः सम्यक् स्तुताः एवंरूपा- मरुतः विदथेषुयागेषुअर्कमर्चनीयमिन्द्रं स्वसखीभूतं अर्चन्ति पूजयन्ति स्तुत्यादिनासंभावयन्तीत्यर्थः किमर्थं मदिरस्यमादनसाधनस्यसोमस्यपीतये पानाय तस्येन्द्रस्यमहत्त्वं कथं जानन्तीत्यतआह—हे- मरुतः वीरस्यविविधंशत्रूणामीरकस्येन्द्रस्य प्रथमानिप्रतमानिमुख्यानिपौंस्यापुंस्त्वानि वृत्रवधा- दिरूपाणिविदुर्जानन्ति ॥ ७ ॥

1.166.8 समानपद
श॒तभु᳚जिभि॒स्तम॒भिह्रु᳚तेर॒घात्पू॒र्भी र᳚क्षता मरुतो॒ यमाव᳚त ।
जनं॒ यमु᳚ग्रास्तवसो विरप्शिनः पा॒थना॒ शंसा॒त्तन᳚यस्य पु॒ष्टिषु᳚ ॥
▶ पदपाठः (Word-by-word)
श॒तभु᳚जि॑भिः । तम् । अ॒भि॑ह्रु᳚तेः । अ॒घात् । पूः॒॑भिः । र॒क्ष॒त॒ । म॒रु॒तः॒ । यम् । आव᳚त ।
जन᳚म् । यम् । उ॒ग्राः॒ । त॒व॒सः॒ । वि॒॑र॒प्शि॒नः॒ । पा॒थन᳚ । शंसा᳚त् । तन᳚यस्य । पु॒ष्टिषु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतः यूयंशतभुजिभिः शतमित्यपरिमितनाम असंख्यातभोगवद्भिःपूर्भिःपालनैःजेतव्यैः शत्रू- णांनगरैर्वा तं रक्षतपालयत तमित्युक्तंकमित्याह—यंजनंअभिह्रुतेः अभिभवकारणात् कुटिलस्वभा- वादघात् पापात् आवतअरक्षत किञ्च हेउग्राः उद्गूर्णतेजसः हेतवसः बलवन्तोवेगवन्तोवा हेविर- प्शिनः महन्नामैतत् महान्तः यद्वा रपणीयाः शब्दारपाः तेषांयेविरप्शिनः विविधारप्शिनः स्तोता- रोयेषां तेयथोक्ताः हेतादृशायूयं यंचजनंपाथनपाथरक्षथ कस्मान्निमित्तादितिउच्यते तनयस्यउपल- क्षणमेतत् पुत्रादीनांपुष्टिपोषेषुनिमित्तभूतेषुशंसादभिशंसनात् यमेवंकुरुथ तंरक्षथेति शेषः पापक्ष- याद्यनिष्टपरिहारेणपुत्रादिपोषरूपेष्टप्राप्त्याचरक्षथेत्यर्थः ॥ ८ ॥

1.166.9
विश्वा᳚नि भ॒द्रा म᳚रुतो॒ रथे᳚षु वो मिथ॒स्पृध्ये᳚व तवि॒षाण्याहि᳚ता ।
अंसे॒ष्वा व॒ः प्रप᳚थेषु खा॒दयो॑क्षो᳚ वश्च॒क्रा स॒मया॒ वि वा᳚वृते ॥
▶ पदपाठः (Word-by-word)
विश्वा᳚नि । भ॒द्रा । म॒रु॒तः॒ । रथे᳚षु । वः॒ । मि॒थ॒स्पृध्या᳚॑इव । त॒वि॒षाणि᳚ । आ॑हि᳚ता ।
अंसे᳚षु । आ । वः॒ । प्र॑प᳚थेषु । खा॒दयः᳚ । अक्षः᳚ । वः॒ । च॒क्रा । स॒मया᳚ । वि । व॒वृ॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतः वोरथेषुयुष्मत्संबन्धिरथेषुरंहणसाधनेषुविश्वनिभद्रा सर्वाणिकल्याणानिभोगयोग्यानि-द्रव्याणि अस्मभ्यंप्रदेयानिफलानिवा आहिताआहितानि तथावः अंसेष्वावः तदुपलक्षितभुजेष्वपि आकारोप्यर्थे मिथस्पृध्येव बलाधिक्यात् परस्परस्पर्धाविषयाणितविषाणिबलानिअंसेषूक्तलक्षणा- न्यायुधानिवाआहितानि किञ्च वःप्रपथेषु प्रगताः पन्थानोयेषुविश्रामस्थानेषुतानिप्रपथानि तेषु खादयःखाद्यानिभक्ष्याणि आहितानि यद्वा प्रगतःपन्थायैस्तेषुपादाग्रेषुखादयः स्थिराआभरणविशे- षाआहिताः किञ्च वःअक्षः युष्मत्संबन्धीरथाक्षः चक्रा तत्रोपनिबद्धानिचक्राणि समयासमीपेतेषां- परिसरेविववृते विशेषेणवर्तते नकदाचिदपिचक्रेषुसंलग्नोभवतीत्यर्थः यस्मादेवंदेवयजनगमनसाध- नानिसन्ति तस्मात् शीघ्रमागच्छध्वमित्यभिप्रायः ॥ ९ ॥

1.166.10
भूरी᳚णि भ॒द्रा नर्ये᳚षु बा॒हुषु॒ वक्ष᳚स्सु रु॒क्मा र᳚भ॒सासो᳚ अ॒ञ्जयः᳚ ।
अंसे॒ष्वेता᳚ः प॒विषु᳚ क्षु॒रा अधि॒ वयो॒ न प॒क्षान्व्यनु॒ श्रियो᳚ धिरे ॥
▶ पदपाठः (Word-by-word)
भूरी᳚णि । भ॒द्रा । नर्ये᳚षु । बा॒हुषु᳚ । वक्षः᳚॑सु । रु॒क्माः । र॒भ॒सासः᳚ । अ॒ञ्जयः᳚ ।
अंसे᳚षु । एताः᳚ । प॒विषु᳚ । क्षु॒राः । अधि᳚ । वयः᳚ । न । प॒क्षान् । वि । अनु᳚ । श्रियः᳚ । धि॒रे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तेमरुतः नर्येषुनरेभ्योहितेषुबाहुषुभुजेषु भूरीणिप्रभूतानि भद्राभद्राणि कल्याणानिधनानि स्तो- तृभ्योदातुंधिरे दधिरेधारयन्ति तथावक्षःसु उरःस्थलेषुरुक्माः सुवर्णरत्नादिनिर्मितान्याभरणानि धारयन्ति कीदृशानि रभसासः राभस्ययुक्तानिकान्तिमन्तिवाअंसेषुभुजमूलेषुएताः शुक्लवर्णाः मालाः पविषुवज्रसदृशेषुआयुधेषुक्षुराः क्षुरधाराः अधिसप्तम्यर्थानुवादी एवमेतेमरुतः सर्वांगेषु- श्रियोलक्ष्मीः अनुअनुक्रमेणविधिरे विविधंधारयन्ति तत्रदृष्टान्तः—वयोनपक्षान् पक्षिणः पक्षानिव ॥ १० ॥

1.166.11 समानपद
म॒हान्तो᳚ म॒ह्ना वि॒भ्वो॒३॒᳚ विभू᳚तयो दूरे॒दृशो॒ ये दि॒व्या इ᳚व॒ स्तृभि᳚ः ।
म॒न्द्राः सु᳚जि॒ह्वाः स्वरि᳚तार आ॒सभि॒ः सम्मि᳚श्ला॒ इन्द्रे᳚ म॒रुतः᳚ परि॒ष्टुभः᳚ ॥
▶ पदपाठः (Word-by-word)
म॒हान्तः᳚ । म॒ह्ना । वि॒॑भ्वः᳚ । वि॑भू᳚तयः । दू॒रे॒॑दृशः᳚ । ये । दि॒व्याः॑इ᳚व । स्तृ॑भिः᳚ ।
म॒न्द्राः । सु॒॑जि॒ह्वाः । स्वरि᳚तारः । आ॒स॑भिः᳚ । सम्॑मि᳚श्लाः । इन्द्रे᳚ । म॒रुतः᳚ । प॒रि॒॑स्तुभः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

येमरुतोमहान्तः माहात्म्योपेताः केन मह्नामत्त्वेनप्रभावातिशयेन तथाविभ्वंविभवः व्याप्ताः तथाविभूतयः विविधैश्वर्यवन्तः दूरेदृशः दूरेदृश्यमानाः प्रकाशमानाः दूरदर्शनेदृष्टान्तः—दिव्याः स्तृभिरिव स्तृभिरितिनक्षत्रनाम ऋक्षाःस्तृभिरितिनक्षत्राणामितिनिरुक्तत्वात् दिविभवाः देवा- स्तृभिः स्वपुष्पकभूतैस्तेजःपुंजैर्नक्षत्रैर्यथादूरेद्रुश्यमानाभवन्तितद्वत् किञ्च मन्द्राः मादनाः सुजिह्वाः शोभनजिह्वाः आसभिरास्यैः स्वरितारः शब्दयितारः प्रियवचनाइत्यर्थः अतएवसुजिह्वाइत्यु- क्तं किञ्च इन्द्रेसंमिश्लाः सम्यक् मिश्रयितारः इन्द्रसहायिनइत्यर्थः मरुतोहैनंनाजहुरितिश्रुतेः । तथापरिष्टुभः परिस्तोभयुक्ताः स्तुतिभिर्युक्ताः एवंमहाभागायेमरुतः सन्तितेस्मद्यज्ञमागच्छन्ती- तिशेषः ॥ ११ ॥

1.166.12 समानपद
तद्व᳚ः सुजाता मरुतो महित्व॒नं दी॒र्घं वो᳚ दा॒त्रमदि᳚तेरिव व्र॒तम् ।
इन्द्र᳚श्च॒न त्यज᳚सा॒ वि ह्रु᳚णाति॒ तज्जना᳚य॒ यस्मै᳚ सु॒कृते॒ अरा᳚ध्वम् ॥
▶ पदपाठः (Word-by-word)
तत् । वः॒ । सु॒॑जा॒ताः॒ । म॒रु॒तः॒ । म॒हि॒॑त्व॒नम् । दी॒र्घम् । वः॒ । दा॒त्रम् । अदि᳚तेः॑इव । व्र॒तम् ।
इन्द्रः᳚ । च॒न । त्यज᳚सा । वि । ह्रु॒णा॒ति॒ । तत् । जना᳚य । यस्मै᳚ । सु॒॑कृते᳚ । अरा᳚ध्वम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेसुजाताः शोभनजननाः हेमरुतः वोयुष्मदीयं महित्वनंमहत्त्वंतत् तादृक् खलु तदित्युक्तं किमित्याह—वोयुष्माकं दात्रंदानंवृष्ट्यादिरूपंदूर्घं अत्यायतंअविच्छिन्नं प्रकृष्टोपकारीत्यर्थः दीर्घत्वेदृष्टान्तः—अदितेर्व्रतमिव अदीनायादेवमातुर्भूम्यावा व्रतमितिकर्मनाम तद्यथादीर्घं- अतिविस्तृतंतद्वत् अदितिर्द्यौरदितिरन्तरिक्षमित्यादिमन्त्रवर्णात् । किञ्च हेमरुतोयूयंयस्मै- सुकृते शोभनयागादिकर्त्रेयजमानाययदभिमतंधनमराध्वं ददध्वं तदिन्द्रश्च इन्द्रोपित्यजसा- त्यागेननविहृणाति नविह्वरति कौटिल्यंनकरोति चनेत्ययंयद्यपिनिपातद्वयसमुदायरूपएको- निपातितः तथाप्यवयवविभागेनचशब्दःसमुच्चये नशब्दोनिषेधेधिगन्तव्यः युष्मद्धनादित्या- गमिन्द्रत्यागोपिनातिक्रामतीत्यर्थः यद्वा यस्मैतद्धनमराध्वंतमिन्द्रोपिनकुटलयतिननिषेधयति किंत्वनुमोदयतीत्यर्थः ॥ १२ ॥

1.166.13
तद्वो᳚ जामि॒त्वं म᳚रुत॒ः परे᳚ यु॒गे पु॒रू यच्छंस᳚ममृतास॒ आव᳚त ।
अ॒या धि॒या मन᳚वे श्रु॒ष्टिमाव्या᳚ सा॒कं नरो᳚ दं॒सनै॒रा चि᳚कित्रिरे ॥
▶ पदपाठः (Word-by-word)
तत् । वः॒ । जा॒मि॒॑त्वम् । म॒रु॒तः॒ । परे᳚ । यु॒गे । पु॒रु । यत् । शंस᳚म् । अ॒मृ॒ता॒सः॒ । आव᳚त ।
अ॒या । धि॒या । मन᳚वे । श्रु॒ष्टिम् । आव्य᳚ । सा॒कम् । नरः᳚ । दं॒सनैः᳚ । आ । चि॒कि॒त्रि॒रे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतः यत् वोजामित्वंबंधुत्वं अस्मद्विषयप्रेमाधिक्यंतत् खलुप्रसिद्धमित्यर्थः कियत् पर्यन्त- मितितदुच्यते—परेयुगे युगशब्दः कालोपलक्षकः उत्कृष्टेमहतिकालेतीतेपिवर्ततइतिशेषः तत्कथ- मधिगतमित्यतआह अमृतासोऽमरणधर्माणोहेमरुतोयूयं यद्यस्माच्छंसमस्माभिः क्रियमाणांस्तु- तिंपुरुप्रभूतंयथाभवतितथाआवतरक्षथ तस्माद्युष्मत्क्रुतंजामित्वमविनाशीत्यर्थः किंच यूयं अया- धिया अनया अनुग्रहात्मिकयाबुद्भ्यामनवेमनुष्यायस्तोत्रेयष्ट्रेवा अस्मदादयेश्रुष्टिमाव्यकीर्तिंस्तुतिं- वारक्षित्वासाकंसंभूयनरः नेतारः सन्तोदंसनैः कर्मभिरित्थंभूताआचिकित्रिरे सर्वतोजानीथ ॥ १३ ॥

1.166.14
येन᳚ दी॒र्घं म᳚रुतः शू॒शवा᳚म यु॒ष्माके᳚न॒ परी᳚णसा तुरासः ।
आ यत्त॒तन᳚न्वृ॒जने॒ जना᳚स ए॒भिर्य॒ज्ञेभि॒स्तद॒भीष्टि᳚मश्याम् ॥
▶ पदपाठः (Word-by-word)
येन᳚ । दी॒र्घम् । म॒रु॒तः॒ । शू॒शवा᳚म । यु॒ष्माके᳚न । परी᳚णसा । तु॒रा॒सः॒ ।
आ । यत् । त॒तन᳚न् । वृ॒जने᳚ । जना᳚सः । ए॒भिः । य॒ज्ञेभिः᳚ । तत् । अ॒भि । इष्टि᳚म् । अ॒श्या॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेतुरासः वेगवन्तोमरुतोः युष्माकेनयुष्मत्संबन्धिनायेनपरीणसायद्यप्येतद्वहुनामसुपठितम् तथापियद्बहुतन्महदपिभवतीत्यत्रमहदित्यर्थेग्रुह्यते महातायुष्मदभिगमनेनैषणेनवादीर्घमायतंस- त्रादिरूपंकर्मशूशवाम प्रवर्धयामः किञ्च यत् येनचाभिगमनेनैषणेनवाजनासोजनाः अस्मदीयाः वृजनेसङ्ग्रामेआततनन् सर्वतोविस्तारयन्ति स्वसामर्थ्यैः सङ्मामंजयन्तीत्यर्थः तदिष्टिमेषणंगमनं एभिर्यज्ञेभिः इदानींक्रियमाणैः स्तोत्रादिरूपैः पूजनैः अभिआभिमुख्येनअश्याम् व्याप्नुयाम् ॥ १४ ॥

1.166.15
ए॒ष व॒ः स्तोमो᳚ मरुत इ॒यं गीर्मा᳚न्दा॒र्यस्य᳚ मा॒न्यस्य᳚ का॒रोः ।
एषा या᳚सीष्ट त॒न्वे᳚ व॒यां वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ॥
▶ पदपाठः (Word-by-word)
ए॒षः । वः॒ । स्तोमः᳚ । म॒रु॒तः॒ । इ॒यम् । गीः । मा॒न्दा॒र्यस्य᳚ । मा॒न्यस्य᳚ । का॒रोः ।
आ । इषा । या॒सी॒ष्ट॒ । त॒न्वे᳚ । व॒याम् । वि॒द्याम᳚ । इ॒षम् । वृ॒जन᳚म् । जी॒र॑दा᳚नुम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयंमन्त्रस्तृतीयाध्यायान्तेव्याख्यातः सूक्तोपक्रमप्रभृतिक्रियमाणांस्तुतिंमरुद्भ्यः समर्प्यस्वाभी- ष्टमाशास्ते हेमरुतः एषःस्तोमःइदानींकृतंस्तोत्रंवोयुष्माकंयुष्मदर्थमित्यर्थः तथेयंगीः स्तुतिरूपावा- गपिवोयुष्माकं कस्यसंबन्धीदमितितदुच्यते—मान्दार्यस्यमन्दतेरीयतेश्चमान्दार्यः स्तुतिंप्रेरयतः मा- न्यस्यमाननार्हस्य कारोः स्तोतृनामैतत् स्तोतुः संबन्धि यद्वैतत्पदत्रयमुत्तरत्रसंबद्भ्यते उक्तलक्षणस्तो- तुः इषाइच्छयाकामनयातन्वेयुष्मच्छरीरवृद्भ्यै स्तुत्याहिशरीरंवर्धते आयासीष्टअभिगच्छतुस्तुतिः व- यांवयंचेषमन्नंवृजनंबलंजीरदानुंचिरकालजीवनंच विद्यामलभेमहि ॥ १५ ॥

सस्रंतइत्येकादशर्चंतृतीयंसूक्तंआगस्त्यंत्रैष्टुभं आद्यैन्द्री शिष्टामरुद्देवताकाः पूर्वत्रहिशब्दात् सहस्र- मेकादशाद्यैन्द्रीत्यनुक्रमणिका विशेषविनियोगोलैङ्गिकः ।