भूरी᳚णि भ॒द्रा नर्ये᳚षु बा॒हुषु॒ वक्ष᳚स्सु रु॒क्मा र᳚भ॒सासो᳚ अ॒ञ्जयः᳚ ।
अंसे॒ष्वेता᳚ः प॒विषु᳚ क्षु॒रा अधि॒ वयो॒ न प॒क्षान्व्यनु॒ श्रियो᳚ धिरे ॥
अंसे॒ष्वेता᳚ः प॒विषु᳚ क्षु॒रा अधि॒ वयो॒ न प॒क्षान्व्यनु॒ श्रियो᳚ धिरे ॥
पदपाठः (Word-by-word)
भूरी᳚णि । भ॒द्रा । नर्ये᳚षु । बा॒हुषु᳚ । वक्षः᳚॑सु । रु॒क्माः । र॒भ॒सासः᳚ । अ॒ञ्जयः᳚ ।
अंसे᳚षु । एताः᳚ । प॒विषु᳚ । क्षु॒राः । अधि᳚ । वयः᳚ । न । प॒क्षान् । वि । अनु᳚ । श्रियः᳚ । धि॒रे॒ ॥
अंसे᳚षु । एताः᳚ । प॒विषु᳚ । क्षु॒राः । अधि᳚ । वयः᳚ । न । प॒क्षान् । वि । अनु᳚ । श्रियः᳚ । धि॒रे॒ ॥
सायणभाष्यम् (Sayana Commentary)
तेमरुतः नर्येषुनरेभ्योहितेषुबाहुषुभुजेषु भूरीणिप्रभूतानि भद्राभद्राणि कल्याणानिधनानि स्तो- तृभ्योदातुंधिरे दधिरेधारयन्ति तथावक्षःसु उरःस्थलेषुरुक्माः सुवर्णरत्नादिनिर्मितान्याभरणानि धारयन्ति कीदृशानि रभसासः राभस्ययुक्तानिकान्तिमन्तिवाअंसेषुभुजमूलेषुएताः शुक्लवर्णाः मालाः पविषुवज्रसदृशेषुआयुधेषुक्षुराः क्षुरधाराः अधिसप्तम्यर्थानुवादी एवमेतेमरुतः सर्वांगेषु- श्रियोलक्ष्मीः अनुअनुक्रमेणविधिरे विविधंधारयन्ति तत्रदृष्टान्तः—वयोनपक्षान् पक्षिणः पक्षानिव ॥ १० ॥