श्रवणम्

1.166.3
यस्मा॒ ऊमा᳚सो अ॒मृता॒ अरा᳚सत रा॒यस्पोषं᳚ च ह॒विषा᳚ ददा॒शुषे᳚ ।
उ॒क्षन्त्य᳚स्मै म॒रुतो᳚ हि॒ता इ᳚व पु॒रू रजां᳚सि॒ पय᳚सा मयो॒भुवः᳚ ॥
▶ पदपाठः (Word-by-word)
यस्मै᳚ । ऊमा᳚सः । अ॒मृताः᳚ । अरा᳚सत । रा॒यः । पोष᳚म् । च॒ । ह॒विषा᳚ । द॒दा॒शुषे᳚ ।
उ॒क्षन्ति᳚ । अ॒स्मै॒ । म॒रुतः᳚ । हि॒ताः॑इ᳚व । पु॒रु । रजां᳚सि । पय᳚सा । म॒यः॒॑भुवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्मैयजमानायहविषाददाशुषे सोमादिहविर्दत्तवतेहविषाप्रीतः ऊमासः अवितारः अमृताःअम- रणधर्माणोमरुतोरायस्पोषंधनस्यपुष्टिं चशब्दात् पश्वादिपुष्टिंअरासत प्रायच्छन् रासतिर्दानार्थः अस्मैयजमानायहिताइवहिताचरणाः सखायइवसन्तोमयोभुवः सुखस्यभावयितारोमरुतोरजांसि- लोकान् पुरुप्रभूतंयथाभवतितथा पयसाउदकेनसस्याद्युत्पत्त्यर्थंउक्षन्ति सिञ्चन्ति ॥ ३ ॥